________________
१८९
२।१६४-६६
२ अनुमानप्रस्तावः तदेवं निश्चये ऽपि समानमिति तद्वयापारान्तरोपन्यासेन दर्शयति
लिङ्गसहितयोस्तुल्या गृहीतग्रहणादपि ॥१६४||
व्यवच्छेदाविसंवादन्यवद्वत्प्रवृतयः । इति ।
लिङ्ग क्षणभङ्गाद्यनुमानं लिङ्गोऽर्थत्वात्, मांयुतं निश्चयज्ञानं तयोः 'प्रामाण्यम्' इति वकासोन सपन्धः । तमाम इति वचनामिनामेन | कुतस्तुल्यमिति ? तयोर्यतः तुल्याः समानाः । ५ काः ? व्यवच्छेदश्च समारोपस्य अविसंवादश्वाविप्रतिसारं व्यवहतप्रवृतिश्च व्यवहारिप्रवर्तनं ताः । कुतोऽपि तास्तुल्याः 'तद्वा तुल्यं तयोः गृहोतग्रहणादपि अपिशब्दात् अवस्तुविषयस्यात् । अत्रापि तुल्यत्वादिति विभक्तिपरिणामेन सम्बन्धनीयम् । अयमों यदि गृहीतमहणमाश्रित्यापि अनुमानस्य प्रामाण्यं ल्यवच्छेदादेः प्रयोजनात , तत् निश्चयेऽपि तुल्यं तदाश्रयणस्य तत्प्रयोजनस्य च तत्रापि तुल्यत्यादिति । अविसंबादव्यवहारयोनिश्चये परस्यापि प्रसिद्धत्वात् । तत्र व्यवच्छेदं दर्शयन्नाह- १०
शब्दाग्रयोगविच्छेदे तस्त्रामाश्यं न किं पुनः ।।१६५॥ इति ।
शब्द आदिर्यस्य घटादेस्तस्य अयोगः स्वरूपेणापटनम् अभेदवादिपरिकल्पितस्तस्य विच्छेदो निश्चयात् । न हि निश्चितस्यायुक्तिरभेदेऽपि तत्प्रसङ्गादिति तस्मिन् वत्प्रामाण्यं निश्चयप्रामाण्यं न किम् ? भवत्येव | पुनरिति वितर्क । तद्विच्छेदस्याप्यनुमानादेव भावात् किं निश्चयेनेति चेत् । अत्राह
अनुमानं तु हेनोः स्यात् [ अधिनाभावनिश्चयात् ] इति ।
तात्पर्यमत्र-हेतोः अनुमानं स च भेदरूपत्वेन परं मत्युक्त एवेति कथं ततोऽनुमानम् अन्यतरासिद्धः । तदयुक्तरप्यनुमानान्तराद् व्यवच्छेदे तदेवोत्तरम्-'अनुमानं तु हेतोः स्यात' इति । पुनस्तदयुक्तरपि तदन्तराद्वययच्छदे ऽनवस्थापक्तिरिति । ततो निश्चयादेव तद्वयवच्छेद इत्युपपन्नमिदं 'तत्प्रामाण्यं न किं पुनः' इति । ननु निश्चयस्यापि भेदरूपस्यायुक्तिर्यदि निश्चमान्तराद् व्यवच्छिन्ना २० अनवस्थानमिति चेत् न: अमेदनिश्चयवत् म्वत एव तत्य युक्ततया अवस्थानात् । हेतुरूपप्रतिपादनव्याजेन पुनरपि तद्ग्रापार दर्शयन्नाह-अविनामावनिश्चयात्' इति । स्पष्टमिदम् । अत्रहेतुरिति विभक्तिपरिणामेन सम्बन्धः । म्यान्मतम्-निश्चयस्यापि तदुत्पत्यादिनिश्चयादेव भावात् तत एव हेतुरिति वक्तव्यमिति; तन्न, एवमतिप्रसङ्गात् । यथैव हि धुमादेविशेषधर्मः कण्ठाक्षविकारकारिभिर्गमकल्यं तथा सामान्यधभैरपि मूर्तत्वादिमिर्भवेत् तैरपि तस्याम्न्यादिकार्यत्वात्, तथा च २५ किं तद्विशेषावधारणार्थन प्रयत्नेन ! यत इदं सूक्तम्-"इष्टं विरुद्धकायेंऽपि देशकालाय. पेक्षणम् ।" [ प्र०या०३।५ ] इति । विशेषरूपैरेव गमकावं तत्रैवान्यभिचारनियमादतो न व्यर्थस्तदवधारणाओं यत्न इति चेत्, न; तन्निश्रमस्यापि कार्यत्वादेव भावात् तस्य च रूपान्तरेप्वप्य
१ तद्वतुल्यं पः।२-येपि प-आ०, ब०, प०१३-तया व्यव- आध, प० । ४ तदनिश्रा०, बाप।