________________
१८८ न्यायविनिश्चयविवरणे
[ २११६३-६४ येण च' इति । तच्च सूत्रे पूर्वग्रहणादवगतम्, तस्य व्ययहितत्वेऽपि प्रवृत्तिदर्शनेन तत्परिग्रहार्थत्वात्, अन्यथा ‘मतिनिमित्तम्' इत्येव सूत्रे वार्ति के च कृतं भवेत् | बहुविधत्वं च तर्कश्रुतस्य कचिदेकत्रैव साधनधर्मे तत्सामान्यस्य साध्यसामान्येन पुनः क्षयोपशमयशास्तद्विशेषमहणे तस्य साध्यविशेषेण
पुनस्ततोऽपि सूक्ष्मस्य तद्विशेषस्यावधारणे तस्यापि तादृशेन तद्विशेषेण अधिनाभावनिर्णयात् । ५ यदपेक्षयेदं बौद्धेनोक्तम्- "सर्वाकारानुमानं यत् प्रत्यक्षात तम भिद्यते " [प्र० वार्तिकाल ०
१।१३८] इति । तथा वेशादिव्यवहितस्य शब्दकृतकत्वादिघमिहेतुफलापस्थापि तत एव प्रतिपत्तेः उहापोहरूपत्वाच्च प्रतिपसव्यम् । ततो न तस्य प्रमाणान्तरत्वं परोक्ष एवान्तर्भावात् । बहुभेदत्वमेव तस्य दर्शयितुं तव्यापारानाह
अर्थमात्रावोधेऽपि यतो नर्ते प्रवर्तनम् ॥१६॥
स युक्तो निश्चयो मुख्य प्रमाणं [सदनक्षवत् ] । इति ।
अर्थस्य नीलादे: मात्रा निरंशक्षणिकाद्यवस्था तस्या अक्वोधः निर्विकल्पदर्शनम्, तस्मिनपि म केवलं तदभावे स प्रसिद्धो निश्चयो नीलादिव्यवसायो युक्तः उपपन्नः । किम् ? प्रमाणम् । कथम् ! मुख्यं नौपचारिकम् । कुत एतत् ? यतो यस्मान्निश्चयात् भूते न प्रवर्तनं जलादी
त्यक्षि झति: पादुकपति- प्रपोप प्रमाणं परस्याप्यभिमतम्, "घीप्रमाणता, प्रवृत्तेस्तत्प्रधा१५ नत्वात् ।" [प्र. वा० १५ ] इति वचनात् । प्रवृत्तिश्च निश्चयादेव न तदवोधनात् क्षणक्ष
यादिवत् । अतः स एव मुख्य प्रमाणम् । तथा च "कल्पनापोढम्" [प्र० समु० श्लो० ३] इति प्रत्यक्षलक्षणमसम्भवदोष निश्चये तदभावात्, निर्विकल्पस्य मुख्यतः प्रामाण्याभावात् । एतदेवाह-'तदनक्षवत' इति । तदिति निपातः स इत्यत्रार्थे । सोऽर्थमात्रावबोधः अक्षावन्यत्वात् सन्निकर्षादिरनक्षं तद्व
दिति । एतदुक्तं भवति-यथा सन्निकदिः मुख्यमामाण्याभावाद् न तत्र तल्लक्षणं तथा तदवबोधेऽपीति । २. कदा पुनर्निश्चयात् प्रवर्तनम् ? अभ्यास इति चेत् न तदा दर्शनादेव तद्रावान्न निश्चयात, तस्यैवा
भावात् । नानभ्यासे, तदाप्यनुमानादेव तद्भावादिति चेत् कथं तर्हि "गृहीतग्रहणान्नेष्टं सांचतम्" [प्र० वा० १।५] इत्यनेन तस्माप्रामाण्यमुक्तम् ? कचिदप्यसतस्तदयोगात् । तदयं तमेवनेच्छति तस्याप्रामाण्यं च वक्तीति कथमनुन्मत्तः । भवतु तर्हि तस्य गृहीतग्रहणादेवाप्रामाण्यमिति चेत् किं पुनः
सामान्य वर्शनविषयो येनैवं स्यात् ! सत्यम्, दृश्यचिकल्प्ययोरेफत्वाध्यवसायादिति चेत्, वस्तुतस्तर्हि २५ अपूर्वार्थ एव स इति कथन प्रमाणम् ? तद्विषयस्य सामान्यस्यायस्तुत्वादिति चेत्, एवं तर्हि वक्त
व्यम्-‘अवस्तुविषयत्वं न प्रमाणम्' इति, न पुनरेवं 'गृहीतमहणात्' इति हेतोरसिद्धिदोषात् । एकत्याध्यवसायान्नासिद्धिरिति चेत्, नः एकत्वादबस्तुभूताद्वस्तुतो गृहीतग्राहिन्यासम्भवात् | तपि तादृशमेवेति चेत्; वस्तुतस्तहि नासिद्धिदोषः परिहत इति न किश्चिदेतत् । अस्तु तस्यावस्तुविषयत्वादेवापामाण्य मिति चेत्, न; अनुमानेऽपि तत्प्रसङ्गः । समारोपव्यवच्छेदादेः प्रयोजनविशेषस्य ततो भावादिति चेत्,
१ श्रत एवं श्रा, ब०, प० । २ तथा आ०,१०, २०१३ नायन- आ०, व०प० । ४ परिनाहीत आ०, ०,१०।५ अनुमानतः ।