SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ १८५ १५५-६.] २ अनुमानप्रस्तावः अन्यथाऽनुपपन्नत्वमानः किन्न प्रतीयते । इति । अत एतस्मात् प्रत्यक्षादनुपला माच्च अन्यथाऽनुपनत्वं साध्याविनामावित्वं हेतोः किन्न प्रतीयते ? प्रतीयत एव । तात्पर्यमत्र न तावत्सत्यक्षं धूमस्यान्यतो भावमव्यवच्छिन्दद् अनलात्तदुत्पत्तिमवगन्तुमर्हति । परतोऽपि तदाशङ्कायो तत एवेति नियमायोगात् । ततो दृश्यमानः कथमन्यतोऽप्याशक्यतेति चेत् ? अस्ति तर्हि ततोऽन्यथाऽनुषपत्तिपरिज्ञानं तद्वयवच्छेदपरिज्ञानस्यैव ५ तत्यरिज्ञानत्वात् । तथा च तावतैवानुमाननिप्पत्तव्यथं तदर्थ तत्रानलपभवस्वपरिज्ञानम् । एतेन शिशपाचौ साध्यतादात्यपरिज्ञानमपि चिन्तितम् । तत्राप्यतत्तादात्म्यव्यवच्छेदप्रतिपत्तित पत्र अनुमानोपपत्तेः । मा भूद् व्यवच्छेदज्ञानादन्यत्रानुमानम्, तत्र तु तत्कथं यावन्न तरपतिबन्धज्ञानमिति चेत ? न; तज्ज्ञानस्यैव पतिबन्धज्ञानत्वात्, न तदुल्लादिमय, बस सतोपं जाना बानापकत्वात्, अन्यथा व्यभिचारशाऽनिवृत्तेः, व्यवच्छेदज्ञानस्य तु विनापि तेनेति निवेदयिष्यते इति । १० अपि च, प्रतिबन्धो यद्यसाधारणः; न तस्मादनुमानम् । यत्र तसिद्धिः प्रत्यक्षात साध्यस्यापि तत्र तत एव सिद्धेः, अन्यत्र चाविद्यमानत्वात् । साधारणश्चेत्, न तर्हि स विषयः प्रत्यक्षस्य स्यात्, तस्य स्वलक्षण एव नियमात् । अतः प्रमाणान्तरस्यैव विषयो वक्तव्यः । तदेवाह प्रमाणसाधनोपायः प्रमाणान्तरगोचरः ॥१५॥ व्याप्यव्यापकभाषोऽयमेकत्रापि विभाव्यते । इति । व्याप्यव्यापकभावः साध्यसाधनयोरविनाभावः अयं विचार्यमाणो विभाव्यते निश्चीयते । कस्मिन् ! एकत्र एकस्मिन् महानसादौ, न केवलं सर्वत्रेत्यपिशब्दः । एकत्रापि कीदृशः स विभाव्यते ? प्रमाणान्तरस्य प्रत्यक्षानुमानाभ्यामन्यस्य ताभिधानस्य प्रमाणस्य गोचरो विषयः । कुतस्तद्रोचर एव स विभाज्यते नापर इति चेत् ? म प्रमाणसाधनोपायत्वात् । इट हि तस्य अनुमानप्रमाणनिप्पत्त्युपायस्वम् । सच्च तद्गोचरस्यैव नातद्गोचरस्य । अपरिज्ञातस्य तदुपायत्वे अतिप्रसङ्गात्- २० नालिकेरद्वीपादागतम्याषि धमादेः पावकादिपतिपत्त्यापत्तेः । नाप्यन्यगोचरस्य; तत्त्वस्यैवाभावात् । प्रतिविहितं हि तस्यानुमानगोचरत्वम् अनवस्थापरस्पराश्रयाभ्याम्। प्रत्यक्षविषयत्वञ्च साधारणत्वात् | न कश्चित्तात्त्विकः साधरणाकारः सम्भवति प्रत्यक्षेऽपि तत्प्रतिभासमसमात्, अन्यथाऽन्यत्रापि तदनुपपत्तेः, तस्य नबलभावित्वात् । ततो विशेषस्यैव साधारणत्वं तस्यैव प्रत्यक्षविषयस्य विकल्पज्ञाने व्यक्त्यन्तरसाधारणतया प्रत्यवभासनात् । ततो गृहीतग्रहणात्तद्विषयस्य तर्फविकल्पस्य प्रामाण्यमेव दुरुपपाई २५ तस्कर्थ तदन्तरत्वं यतस्तहोचर इत्युच्यत इति चेत् ? न; एवं तस्य प्रमाणसाधनोपायत्वव्यापत्तेः । न हि तस्य विशेषणरूपेणैव प्रत्यक्षाबभासिना तदुपातत्वम् । तस्य पर्वतधूमादी अभावात् । नापि विकल्पितेन; तस्य तत्र भावेऽपि ततः प्रमाणस्यानुत्यत्तेः । तथा हि कल्पिताप्रतिबन्धाचेत् क्षणभङ्गानुमोदयः । तत एव भवेत् किन नित्यत्वाद्यनुमोदयः ६ ॥१५०९॥ १ श्राग्ने। प्रमाणान्तरत्वम् ।
SR No.090313
Book TitleNyayavinishchay Vivaranam Part 2
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages521
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy