________________
१८४
न्यायविनिश्चयविवरण
[२।१५८ कल्पितमभवाधीन क्षणिकाद्यनुमानवत । नित्यत्वाचनुमानं च तदाभासि भवेत् कथम् ॥१४९९॥ तद्री पूर्वकस्थापि तदाभासत्वसम्भवात् ।
अनुमानतदाभासभेदोऽयं सुलभः कथम् ॥१५००॥
न केवलं तयोरेव प्रतिव्यढोऽपि तु प्रत्यक्षे स्पष्टवेदने अर्थे तद्विषये च, अर्थतनत्य - योरपीत्यर्थः । अत्र 'तेनैव' इति निर्विकल्पतरभेदानवस्थानेनेति व्याख्येयम् । तथा हि
प्रत्यक्ष निर्विकल्पं चेत् कल्पितादर्थजन्मनः । सविकल्पकमप्येवं तत एव कथन्न तत् ॥१५०१।। नास्त्यर्थ: सविकल्पश्चेन्निर्विकल्पोऽस्त्यसौ कथम् ? प्रत्यक्षात्तत्प्रतीतेश्चेद्विकरूपमलबर्जितात् ॥१५०२॥ नाविकल्पासाः सिद्धात सिद्धयत्यर्थोऽविकरूपकः । तस्माच सिद्धात्तत्सिद्धिरित्यन्योऽन्यसमाश्रयात् ॥१५०३॥ अध्यक्षादन्यतोऽर्थश्चेदविकल्पः प्रसिद्धिमान् । अन्यस्याप्यविकल्यस्वे कथं नाध्यक्षमेव तत् ॥१५०४॥ विकल्यत्वे कयं तस्मादविकल्पार्यवेदनम् । विकल्पोऽवस्तुनिर्मासी यतो वः स मतोऽखिलः ॥१४०५|| कल्पनातः सतोऽप्यर्थात् प्रत्यक्षं ययकल्प कम् । सविकल्पकमेवातस्तन्न कस्मानिगद्यते ||१५०६॥ लोकस्य यन्तदेवेष्टं प्रत्यक्षमविगानतः । न लोकातिकमी युक्तस्तस्कल्यो लोकमिच्छताम् ।।१५०७|| ततोऽर्थजन्मनः क्लप्सात् प्रत्यक्षं निर्विकल्पकम् ।
विकल्पकमुतेत्येवं भेदोऽयं दुर्विनिश्चयः ॥१५०८॥ तस्मात्तभेदनिश्चयमभ्युपगच्छ्ता तत्त्वत एवार्थज्ञानयोरनलघुमादेश्च प्रभवो ऽयमभ्युपगन्तव्यः । ऐवमेव तत् प्रमाणतः प्रत्यक्षादेव तत्पतिपत्तेः । एतदेव दर्शयति
प्रत्यक्षानुपलम्भाम्यां यदि तस्यं प्रतीयते ॥१५८।। इति ।
तस्वमनलधूमयोहेतुफलभायः प्रतीयते प्रत्यक्षादेव अनुपलम्भसहायात् अनुपलम्भावा प्रत्यक्षसहायात, ततस्तात्त्विक एवायम् । दृश्यते हि प्रागनलाभावेऽनुपलब्धो धमः, तद्भावे दृष्टोऽपि तद्भावे पुनर्न दृश्यते च तदभावे, तस्मात् स तस्यैव कार्यम् अंकार्यस्य ततः सकूदप्यसम्भवादिति भावः । परस्य तत्रोत्तरमाह
१ एवमेतत् आ०, ब०, प० । २ तदभाषे आफ, बरु, प०। तद्भव' इति पदं व्यर्थम् । ३ अकारणस्य श्रा, य०,०।