________________
न्यायविनिश्चयविपरणे एव तस्यासाध्यव्यावृत्त्या साध्यनिश्चयकारिस्वात् व्यर्थमसत्प्रतिपक्षत्वम् । 'अप्रदर्शितप्रतिहेतुत्वम् असाप्रतिपक्षत्वम्' इत्यपि न युक्तम् ; प्रज्ञावता पुरुषेण कदाचित् तत्प्रदर्शनस्यापि सम्भवात् । यावत्तदप्रदर्शनं तावत् गमकत्वमेवेति चेत्, स तर्हि हेतुः वस्तूनि स्वसाध्यप्रकृतीनि कृत्वा तत्ममाणकान् पुरुषानभ्युदयनिःश्रेयसाभ्यां संयोजयति, पुनश्च प्रतिभावता पुरुषेण प्रतिहेतूपदर्शनेनोकीलितसाधनसामर्थ्यः तानि 'वस्तूनि तांश्च पुरुषान् तद्भावसम्पदः स्वसाध्यप्रकृतित्वसम्पदोऽभ्युदयनिःश्रेयससम्पदश्च प्रच्याव्य भ्रष्टराज्य इव राजा तपोवनं गच्छेत् । कथं वा स्वयमतत्साध्यनियतस्तदुपदर्शनात् प्रागपि तत्र हेतुः ! तत्साध्ये नियते च फर्थ प्रतिहेतोः सम्भवः प्रदर्शनं वा विरोधात् ? अतो नासत्मतिपक्षत्वं हेतुरूपमुपपन्नमिति चेत्, कुतः पुनरेवं ब्रुवतस्तथापि हेतोर्गमकत्वम् । प्रति
बन्धादेव तादात्म्यादेरिति चेत्। न तन्निश्चयस्याप्यशक्यत्वेन वक्ष्यमाणत्वात् । ततो न कश्चिदपि हेतुः, १० तस्यापि सन्दिग्धम्यातल्लक्षणत्वात् । यदप्युक्तम्-तत्साध्यनियते चेत्यादिः तदपि न सातमः विनाश
नियतेऽपि तद्भावं प्रत्यनपेक्षणे परिणामसाधनतया तस्यैव प्रतिहेतोः सम्भयात् । प्रतिपादित चैतत् "परिणामस्वभावः स्यात्" इत्यादिना | अभिप्रेतं च विनाशनियतस्य तस्य स्वयं सतस्तत्साधनात् । ततो नातन्निश्चयमात्रादेव प्रतिहेत्वभावाभाव इति पृथगेवासी तलक्षणतया वक्तव्यः इत्युपपन्नम्
अन्यथानुपपन्नत्वादिभिश्चतुर्मि: पक्षधर्मत्वादिभिश्च सप्तलक्षणो हेतुरिति त्रयेणेति किम् इति । १५ अथवा प्रयेण कार्यस्वभावानुपलम्भरूपेणेति व्याख्येयम् । न हि तेनापि किञ्चित्, रूपान्तरेणापि हेतोर्मावात् । कार्याविरूपादेवाविनाभावः ।
"कार्यकारणभावाद्वा स्वभावाद्वा नियामकात् ।
अविनाभावनियमो दर्शनाम न दर्शनात् ॥ [H० वा० ३।३०] इति वचनात्, तदभावे कथमचिनाभावो यतो रूपान्तरेणापि हेतुत्वमिति चेत् ? कुतः पुनरिदं तत एव न सद्भाव २० ( तदभाव ) इति ? न तावतद्रूपत्वात्; रसादिकृत्तिकोदयादेः रूपादिशकटोत्यादिसाधनस्य तदभावेऽपि
तद्भावात् । न हि तादृशस्य ताद्रूप्यम् ; अतिमसात् । वक्ष्यते चैतत्-"तुलोनाम" इत्यादिना । नापि तज्ज्ञाप्यत्वात् तत्र तदभावेऽपि तज्ज्ञप्तर्भावात् । अपि च ,
प्रत्यक्षरवेन तत्तस्य ज्ञापक नोपपत्तिमत् । अन्नत्वात् पञ्चमस्यापि प्रत्यक्षस्य प्रसङ्गतः ।।१४८४।। लिङ्गत्याचेत् परस्तत्राविनाभावः प्रकल्प्यताम् । तस्थापि शप्तिरन्यस्मात् कार्यवादेस्ततो भवेत् ॥१४८५|| एवं सत्यनवस्थानात् क तज्ज्ञप्तिः प्रकल्प्यताम् । लभ्यतेऽनुमितिर्यस्याः क्षणभङ्गादिसाधनी ॥१४८६|| प्रमाणान्तरभावेन ततस्तज्ज्ञप्तिकल्पनम् 1
तव पथ्यं न वेत्येवं भवतैवावधार्यताम् ॥१४८७॥
१ वस्तुनि आर०प० । २.हेतुरस्यापि आ०,व०प० । ३न्यायवि०श्लो० २।१३३१४ न तन्नि-बाद, बद, प०।५-वभाव इति आ०,०, ५०६न्यायवि० इलो०३३८ ।