________________
२/१५४-५५ ]
२ अनुमानप्रस्तावः
ईच्छाक
न्यसति तद्व्यपदेशविषये यज्जातं ततः पाकू स्त्रलक्षणं कार्य करणता तयोः कार्यवमसतः कारणत्वं जातस्येति । शेषं पूर्ववत । न चायमस्मन्मते दोष:, न हि तत्र पिण्डादिर्घादौ सत्यसति वा व्याप्रियते यदयं प्रसङ्गः स्यात्, अपि तु स्वयं तद्रूषो भवति । स एव खलु भावस्तत्र यरप्रतिक्षणपरिणामी नाम | तस्य यदयन्यत्र सत्यसति च व्यापार निषेधात् कारणत्व प्रतिक्षेपः, प्रतिक्षिप्यताम् । न काचित क्षतिः तावतैव तत्र वस्तुत्वस्यावस्थानात् । अथ परिणाम एव ततस्तस्य प्रतिक्षिप्यते तन्न ५ तस्य तदनायत्तत्वात् । स्वभावतो हिं तस्य परिणामो नान्यत्र व्यापारात् । अत एवोक्तम् - "परिणामस्वभावः स्याद् भावः” इति "अयम किया हेतुः" इत्यपि ताद्र्ष्यापेक्षयैवोक्तं नान्यत्र व्यापारात । कथमेचं घटादौ चकचीवरादेः कारणत्वम् ? अतत्परिणामत्वादिति चेत् । तत्रापि सन्निधिमात्रेणोपकारात सद्व्यवहारो न मुख्यतः | मुख्यतस्तु पिण्डादेरेव तत्त्वं तत्परिणामत्वादिति न किश्चिदसमल समुत्पश्यामः ।
'भेदिनाम्' इत्यादिना परमपि परस्य शिलाप्लवं दर्शयति - मे दिनाम् अन्योऽन्यविलक्षणानां प्रत्यभिज्ञा' तदेकत्वपरामर्श इति । अथवा, मिथन्ते सजातीयादन्यतश्चेति मेदाः निरंशा भावास्ते सन्येषामिति भेदिनस्तद्वादिनः तेषां प्रत्यभिज्ञा इति अयं रचितः । शिलाप्लव एव । पूर्वत्र सुगतेतरज्ञानयोरपि तत्प्रसङ्गादुत्तरत्रासम्भवात् । न हि निरंशवादिनां सांश वस्तु सम्भवति तद्वादित्वव्यापत्तेः । सांशा च प्रत्यभिज्ञा नानापरामर्शरूपत्वात् । तदवि कल्पनयैव तस्येति चेत्; यतस्त- १५ कल्पनं तस्य तर्हि कथम् ? अतद्रूपेण तत्कल्पनानुपपत्तेः । तस्यापि करूपनये वेति चेत्; न; अनवस्थामसकादिति पर्याप्तं मत् ।
तदेवं पक्षधर्मत्वादिकमन्तरेणापि अन्यथानुपवतियलेन हेतोर्गमकत्वं तत्र तत्र स्थाने प्रतिपाय नेवं स्वबुद्धिपरिकल्पितमपि तु परागमसिद्धमित्युपदर्शयितुकामो भगवतीमन्धर स्वामितीर्थंकरदेव समवसरणात् गणधरदेवप्रसादादासादितं देव्या पद्मावत्या यदानीय पात्रकेसरिस्वामिने २० समर्पितमन्यथानुपपत्तिवार्त्तिकं तदाह
अभ्यथानुपपन्नत्वं यत्र तत्र त्रयेण किम् ? ॥ १५४ ॥
नान्यथानुपपन्नत्वं यत्र तत्र प्रयेण किम् ? । इति ।
१०
अन्यथा अन्येन साध्याभावप्रकारेण अनुपपन्नत्वम् असम्भव नियमो यत्र हेती तंत्र त्रयेण पक्षधर्मत्वादित्रितयेन किं न किश्चित् फलं विनापि तेन गमकत्वात् । तत्र पक्षधर्मत्वेन विना २५ गमको यथा अस्ति सर्वज्ञः सुनिश्चितासम्भवबाधकममाणत्वात्, अस्त्यात्मा उपलब्धेरित्यादिः । समयक्षसत्त्वादिना शब्दानित्यत्वादौ श्रावणत्वादिः । न यस्य सत्यपि सपक्षे सत्त्वं घटादेरश्रावणत्वात् । नापि व्यतिरेकः तदुपदर्शन विषयस्य कस्यचिदपि दृष्टान्तस्याभावात् । तत्रितयेनापि विना यथा सन्ति प्रमाणानि इष्टसाधनात् सन्ति बहिरर्थाः साधनदूषण प्रयोगादित्यादि । समर्थितं चैतेामन्यथा
१ न्यायवि० श्लो० २।१३३ । २ न्यायवि० श्लो० २/१३४ । ३ ज्ञान - आ०, ब०, प० । ४ - नानांप-आ०, ब०, प० । ५ कल्पनयेवेति आ०, ब०, प० । ६ - बाद्यभेदं आ०, ब०, प० । ७ - दादापादितं श्रा, ब०, प० । ८ 'बिना गमः' इत्यन्वयः ।
२३