________________
२३२५४]
२ अनुमानप्रस्ताव यस्मिन् दर्शने असति अविद्यमाने, कार्यकाले सतः कारणत्वानभ्युपगमात्, यजातं परामर्शज्ञानं कार्यकारणता तयोः कार्यता तज्ज्ञानस्य कारणता वर्शनस्य इति एवं रचितो निर्मितः सौगतेनायमपूर्वः शिलालयः तत्कार्यकारणमाव एवाश्रद्धयतया शिलाप्लवतुल्यत्वात् तच्छब्देनोक्तः । नापि तद्भावस्य श्रद्धेयत्वम्; असतो नीरूपत्वेन कारणवायोगात् । कार्य एव तस्य नीरूपत्वं न पूर्वमिति चेत्, ननु पूर्वमित्यपि तस्य प्रध्यंस एवोच्यते न्यपरः कालोऽनभ्युपगमात् । तत्र च ५ कथमस्तित्वं विरोधात् ! दृष्टत्वमेव तस्य पूर्वत्वं न नाशः "दृष्टताऽतीतकालत्यं दृश्यता वर्तमानता ।" [ H० वार्तिकाल० १११३८ ] इति वचनादिति चेत् किं पुनरिदं दृष्टत्वं नाम ? अती दर्शनमेवेति चेत; तस्यापि किमिदमतीतत्वम् ? अपरं दृष्टस्वमिति चेत् तत्रापि किं पुनरियादेः प्रसनादनवस्थापत्तेश्च । तस्योपरतिरेव अतीतत्वमिति चेत; भावस्यापि सैव तदिति कि दृष्टत्वेन ? अतीतं नष्टमिति च लोकव्यवहारात् । किच्च, एवमतीतं कारणमिति दृष्टं १० कारणमिति भवेत्, तथा च कथं संलपिलान्तरसांनादः तापन | मेव तदपि योगिनेति चेत्, म लर्हि तस्यातीतत्वम् | "दृश्यमानतया वर्तमानमेव" [ म० वार्तिकाल० १५१३८] इति वचनात् । अन्यैरदृश्यत्वात् अतीतमपीति चेत्, नादृश्यत्वादतीतत्वम्, अपि तु दृष्टत्वात्, तच्च तस्यात्मापेक्षया नास्त्येव । अदृश्यत्वादप्यतीतत्वमिष्टमेव "तस्मादतीतादि योगी पश्यतीति कोऽर्थः ? अन्येनादृश्यमानं पश्यति ।" [ प्र० बार्तिकाल० ११३८ ] १५ इत्यलकारवचनादिति चेत्ः ना तत्राप्यतीतस्यैव तदर्शनस्य वर्तमानतभिषेधेनाभिधानात्, अन्यथा "दृष्टताऽतीतकालत्वम्" [प्र. वार्तिकाल० ] इत्यस्य व्याघातात् । किञ्च,
___ अन्याइष्टेरतीतत्वात् वर्तमानस्यतोऽपि च ।
योगिदृष्ट्या स एव स्याद्भतुरन्योऽपि चाक्रमात ॥१४८१॥
अन्यैरदृश्यमानत्वेन तस्यातीतत्वात कारणत्वमकारणत्वं निष्पर्यायं माप्तं योगिना वर्तमान- २० तया दर्शनादिति सङ्कटमवेशः-तत्कार्यस्य युगपदेयोत्पादानुत्पादयोरुपनिपातात् । अथ योगिनोऽपि समाधानकाल एवं सद्वर्तमान न तस्मादुस्थितस्य, अत एवोक्तम्-"योगिना च समाधानास्थितेनातीततया व्यवहारात ।" [प्र. वार्तिकाल० ११३८ ] इति चेत्, न; तथापि तेरेसवेशस्थानिवृत्तः योग्यन्तरं प्रवृत्तसमाधानं प्रति तस्यैव वर्तमानस्यात्, योगिनाञ्च बहुत्वात् । न बायमपि नियमस्तेषां समकालमेव समाधानं तस्मादुत्थानं चेति, अन्यथापि तदविरोधात् । अपि च, योगि- २५ दर्शनस्यापि कारणमेव तद्विषयः, कारणत्वं च दृष्टत्यात, तदपि यदि तदर्शनापेक्षं परस्पराश्रयः-दृष्टादर्शनं ततो दृष्टमिति । दर्शनान्तरापेक्षमिति चेत् तदपि यदि तस्यैव योगिनः, स एव प्रसङ्गः तस्यापि तदृदृष्टादेयोत्पत्तेः, पुनदर्शनान्तरदृष्टात् तदुत्पत्तावनवस्थाप्रसङ्गात् । दर्शनान्तरं परस्यैब योगिन इति चेत्; किं तत्काले प्रकृतस्य तस्य तदर्शनं नास्ति ? तथा चेत्, कथं सर्ववेदनम् ! तदपि समाधानादुस्थितस्य नास्त्येवेति चेत्, न; तदुत्थानस्य तदप्रतिबन्धित्वात्, अन्यथा दोष एव स इति ६.
१ सुगते-आध, यक्ष, प० । २ त्यादिप्र-आ०,१०, प० । ३ तस्मादास्मा-या, य०,प० । ४ च्यानकाले। ५ सङ्कटप्रवेश। ६-स्थान-श्रा०, १०, प०1७-स्प दर्श-आ०, ब०, प०।