________________
१७४
い
न्यायविनिश्वयविवरणे
तादात्म्यात् प्रत्यभिज्ञा न सदृशा पर हेतुतः || १५१ ।। अवस्थान्तर्विशेषोऽपि पहिरन्तश्र लक्ष्यते । इति ।
तादात्म्यात् परापरक्षणेषु कथञ्चिज्जीवस्य अमेदात् प्रत्यभिज्ञा स एवाहमिति परामर्शो न नैव सदृशश्चासावपरश्च अपरापर उपादानोपादेयप्रबन्धः वीप्सापरत्वान्निर्देशस्य स एव ५ हेतुस्तस्मादिति । 'अवस्था' इत्यादिरत्रैवोपपत्तिः । अवस्थानां परापर चित्रक्षणलक्षणानाम् अन्तः अन्तर्गतः सन्तानान्तर सम्भावितया तत्रैव नियतो विशेषो हेतुफलभावः सोऽपि न केवलं वक्ष्यमाणो लक्ष्यते निश्चीयते । क पहिरन्तश्च अर्थे ज्ञाने च । एतदुक्तं भवति - सत्येव परापरपरिज्ञाने तेषु तद्विशेषलक्षणं तत्परिज्ञानश्च जीवादेव, न क्षणनियतादर्शनात् तस्य पूर्ववृतेरुतरत्र तट्टतेश्ध पूर्वत्राभावात् । नापि तदुभयदर्शनजन्मनः तं दिदमित्या कारात्प्रत्यभिज्ञानात् तस्यैवाभावात् । १० भात्रे वा नाभेदमत्यभिज्ञानं तत्र विरोधादिति कुतः सन्तानकरूपनं यतः संसारतत्कारणादिकमवकरूप्येत ? जीवादपि कथं तलक्षणं तत्रापि भेदस्यानवभासनादिति चेत् ? न कथचित्तस्यापि भावात् । न चैवं प्रत्यभिज्ञाने मेदवत् अभेदस्थापि प्रतिभासः तस्यापि तात्त्विकत्वेनेष्टसिद्धिप्रसङ्गात् । र्भेदस्यैव तात्त्विकत्वे प्रत्यभिज्ञानमेव न भवेत् विभ्रमेत्तरयोरेकत्र विशेषात् । अविरोधे भेदेतरात्मापि भावस्ता - त्विक एव स्यात् । इत्युपपन्नं जीवादेव तल्लक्षणम् । तदभावे प्रत्यभिज्ञानस्याप्यव्यवस्थितेः । पुनरपि १५ ' तादात्म्यात् प्रत्यभिज्ञानम्' इत्यत्रोपपत्तिमाह
;
३०
[ २१५१-५४
सूक्ष्मस्थूलत्तरा भावाः स्वष्टास्पष्टावभासिनः ॥ १५२॥ वितथेतरविज्ञाने प्रमाणेतरतां गते । इति ।
सूक्ष्माश्च स्थूलतराश्च स्थूला एव स्थूलतराः स्वार्थिकत्वात्तरप्रत्ययस्य अल्पाच्तरयत् । सूक्ष्मस्थूलतरा भावा बदरसहकारनालिकेरपनसफलादयः । तथा स्वष्टाश्वास्वष्टाश्च ते च ते अब भासिनश्च स्पष्टास्पष्टावभाविनो भावाः समीपदूरदेशवर्तिनो वनस्पत्यादयः । अत्र लक्ष्यन्ते इति वचनपरिणामेन सम्बन्धनीयम् । तथा वितथं च द्विचन्द्रादिविषयम् इतरथ एकचन्द्रादिगोचरं ते च ते विज्ञाने च तथोक्ते, अत्र लक्ष्येते इति द्विवचनपरिणामेन । कीदृशे ते लक्ष्येते ? प्रमाणेतरां गते प्रमाणतां गतमवितथम् इतरतामप्रमाणतां गतं तु वितथमिति । लक्षणं चात्र चन्द्ररादिभ्यः सहकारादयः स्थूलास्तेभ्यश्च चदरादयः सूक्ष्माः इति दूरवर्वतादिभ्यः समीपाः नीप
I
२५ कूपादयः स्पष्टावभासिनः तेभ्यस्तत्पर्वतादयो ऽस्पष्टावभासिन इति । वितथादितरत् प्रमाणम्, इतरस्माच्च वितथमप्रमाणम् इति च परामर्श युव । न चायं तादाम्याभावे सम्भवति, दर्शनस्योभयविपस्याभावात् भावेऽप्यपरामर्शरूपत्वात् । मा भूतु स्वयं परामर्शरूपं दर्शनम् परामर्शस्य कारणं तु भवति संस्कारमबोधसहायमिति चेत्, अत्राह
यस्मिन्नसति यज्ञानं कार्यकारणता तयोः ॥१५३॥ भेदिनां प्रत्यभिति रचितोऽयं शिवालयः । इति । १ तत इद - ता० । २ लक्षण-सा ३ वापीकूण प० ।