________________
२६५०-५१ ।
२ अनुमानप्रस्तावः
१७३
च शब्दः अपिशब्दार्थो भिन्नप्रक्रमश्व 'निर्णये' इत्यत्र द्रष्टव्यः । निर्णयेऽपि न केवल सदभावे | क ? बहिः नौलधवलादो अनिर्णयात् निर्णयामादात् । क ? अन्तः निर्णयस्वरूपे । न हि तत्र तेषामपि निर्णयः परतः अनवस्थानात् स्वतश्च निर्विकल्पत्वात् । ततश्च मोहः प्रज्ञामान्यलक्षण: तादृशः तदभ्यासे ऽपि यादेश: पूर्वम् । स्वरूपानिर्णये परनिर्णयस्याप्यभावादिति मन्यते । भवन्मते ऽषि कथं महामतित्वम् । श्रुतज्ञानपरिशीलनादेव तद्भावात् तज्ज्ञानस्य चावस्तुविषय- ५ स्वादिति चेत् ? न तस्यापि वस्तुगोचरत्वेन व्यवस्थापनात सकलस्यापि शास्त्रमयासस्य तदर्थत्वात् । न च तदभ्यासान्महामतित्वम्, जीवस्य स्वशक्तित एव तद्भावात् । प्राणिमात्रस्यापि कुतो न भवतीति चेत् ? भवत्येवः कथमन्यथा 'सत् सर्वमनेकान्तात्मकम्' इत्यादि व्याप्तिज्ञानम् ! प्रतिक्षणपरिणामादिसकसूक्ष्मविशेषेष्वपि किन्नेति चेत् स्वादेव यद्यसौ अनावृतः स्यात् । एतदेव दर्शयति
?
जीवः प्रतिक्षणं भिन्नतनो यदि नावृतः ॥ १५०॥ सकलग्रह सामर्थ्यात्तथास्मानं प्रकाशयेत् । इति ।
१०
जोयो व्याख्यातस्तथा तेन सकलमकारेण आत्मानं स्वरूपम् उपलक्षणमिदं तेन परमपेि | ग्रकाशयेत् स्पष्टमतिभासं विदध्यात् । कुतः सकलग्रह सामर्थ्यात्' इति । स्पष्टमिदम् । हृदयव्याप्तिज्ञानवलादेवावगम्यते । कदा प्रकाशयेत् ? यदि नानृतः कर्मविशेषण प्रच्छात्तो यदि न भवेत् । तत्प्रच्छादितश्चायं स्वविषये ऽप्यवृत्तिमत्त्वात् काम लिवत् । कामली हि स्वविषयेऽपि १५ चन्द्रैकत्वादौ कामलावरणवत्त्वादेव अप्रवृत्तिमान् प्रसिद्ध इत्युपपन्नो दृष्टान्तः । तस्य तद्विषयत्वं चारणात् पूर्वं पश्चाच्च तेनाधिगतेः । प्रतिक्षणपरिणामादेरपि विशेषस्य जीवविपयत्वम्, सामान्येन व्याप्तिज्ञाने प्रतिभासनात् चन्द्रकत्वादिवदेव । तद्वि कामलिजाने चन्द्रत्वादिना सामान्येन प्रतिभासमानं योग्यतया तद्विषय एव, अभ्यथा तदावरणापाये ऽप्यविषयत्वमसङ्गादिति निरक्ष्यमुदाहरणम् । सत्यध्यावरणे जीवस्य नित्यत्वेन सकलग्रहणशक्तेरपरिक्षयात् कथं स्वविषयेऽप्यवृतिरिति चेत् न २० एकान्तेन नित्यत्वाभावात् । प्रतिक्षणपरिणामिनश्च तद्वशात् तत्परिक्षयस्योपपत्तेः । सकलग्रहणसामर्थ्यमपि तस्य अर्थान्तरज्ञानसमवायादेव न स्वत इति केचित् तन्नः स्वतश्वेतनस्य तद्वैयर्थ्यात् । चेतनत्वमपि तत एवेति चेत्; न; आकाशादावपि तत्प्रसङ्गात् तदविशेषात् । अथास्ति कश्चिद्विशेषो यतो जीवस्यैव ततस्तत्त्वं नाकाशादेः स तर्हि जीवस्वभावो भयंश्चेतनत्वान्नापर इति व्यर्थमेव तत्समवायस्य कल्पनमिति एतत् चेतन पदेन दर्शितम् । तदेवं जीवस्यावरणवश | दसकलङ्गत्वम्, तदपगमे तु २५ स्वत एव सकलत्वेन महामतित्वं न श्रुतज्ञानपरिशीलनात् । तंतु तदावरणस्यैव तदास्रवनिरोधकारेण परिक्ष्यार्थमिति सर्वे समञ्जसम् । प्रतिक्षणपरिणामे जीवस्य क्षणिकत्वमेव न नित्यमिति चेतुः नः तस्यापि प्रत्यभिज्ञानबलेन तत्र व्यवस्थापितत्वात् तदपि सदृशापरापरोत्पत्तिविभ्रमादेव न तात्त्विकादेकत्वादिति चेत्; अत्राह
"
१ - निर्णयैरपर-आ, ब०, प० । २ वैशेषिकः । ३ समवायादेव । ४ समवायाच्चेतनत्वम् | ५ श्रुतज्ञान परिशीलनम् । ६" प्रत्यभिशानं |" - वार्थट० ।