________________
५
१७२
व्यायविनाय
| २९४८-१५०
तदभावः, अन्यथा अतिप्रसङ्गात् । ततस्तदूबहुत्वं व्यवस्थापयता तद्विषयमेकमभ्युपगन्तव्यमिति सिद्धं स्वपरावभासित्वं तस्य । तद्वदन्येषामपीति नाणुस्वभायं किमपि संवेदनम् । भवत्वेवं युगपचित्रमेव, न तत्कमेण क्षणिकत्वादिति चेत्; न; चित्रस्यापि क्षणक्षीणशरीरस्याप्रतिवेदनात् । एत्तदेवाष्टकालापकर्षपर्यन्तविचतांतिशया गतिः ॥ १४८ ॥ इति ।
कालस्यापकर्षपर्यन्तो हानिपर्यवसानम् अत्यन्तसूक्ष्मः कालस्तत्र विवर्तस्य वस्तुजन्मनोऽतियस्तत्रैव भावः तस्याऽगतिः अप्रतिपत्तिः । अत्रोपपत्ति दर्शयन्नाह -
अशक्तेरवत् [ सेयमनेकान्तानुरोधिनी ] | इति ।
यथा ज्ञानस्यान्यस्य वा अणोरगतिः तद्गतौ शत्तद्यभावात् तथोक्तस्यापि तदतिशयस्य | का पुनरियमशक्तिर्नाम यतस्तद्गतिः ! इत्यत्राह - 'सेयमनेकान्तानुरोधिनी' इति । सा परमाणुत२० दतिशयपरिच्छेदाशक्तिः इयमेव पर्युदासवृत्त्या न परा । इयमर्थमावेदयति- 'अनेकान्तानुरोधिनी' इति । अनेकान्तः क्रमाक्रमाभ्यामनेकधर्माधिष्ठायी भावः तस्यानुरोधो बुद्धया स्वीकारः सविद्यते यस्यां सा तदनुरोधिनी तद्माहिका शक्तिरिति यावत् । सा च तत्प्रतिपतेरेव लोकप्रसिद्धायाः प्रसिद्ध्यतीति मन्यते ।
ननु यद्यपि नामास्मदादीनां न परमाणुक्षणिक प्रतिपत्तिः अल्पप्रज्ञखेनासामर्थ्यात्, १५ महामतीनां तु भवत्येव । अत एवोक्तम् - "व्यवस्यन्तीक्षणादेव सर्वाकारं महाधियः ।" [प्र० वा० २ १०७ ] इति चेत् कुलस्तेषां महामतित्वम् न स्वभावादेव अनभ्युपगमात् । " नित्यं प्रमाणं नैवास्ति ।" [ प्र० वा० ११० ] इत्यभिधानात् । अनुमानाभ्यासादिति चेतः अत्राहअंशग्रहविवेकस्वान्मन्दाः किमतिशेरते ॥ १४६ ॥ इति ।
मन्दाः पूर्वमल्पप्रज्ञाः सन्तः पश्चात् किं नैव अतिशेरते प्रेज्ञाधिक्यप्राप्त्यतिशयन्तो २० भवन्तः कस्मान्न भवन्ति ? अंशस्य वस्तुधर्मस्य क्षणक्षयादेग्रहः प्रतिवेदनं तस्माद्विकोव्यावृत्तिर्यस्य तदनुमानस्य तस्य भावादिति । तात्पर्यमत्र - महामतित्त्वं हि तेषां क्षणमादिविषयं तद्विषयस्यैव अनुमानस्याभ्यासादुपपन्नं नातद्विषयस्य, अन्यथा नित्यादिविषयस्थापि तत एव तस्य प्रसङ्गात् । न चानुमानस्य तद्विषयत्वम् विकल्पत्वेन अवस्तुसंस्पर्शित्वात् । तथापि क्षणक्षयादाचेच तस्य प्रतिबन्धात् तत्रैव तदभ्यासतो महामतित्वं न नित्यादाविति चेद मनु प्रतिबन्धोऽपि महाधि२५ यामेव विषय नान्येषाम् ते च तत्रैव तं प्रतियन्ति नान्यत्रेति कुतः ? तत्रैव निर्णयात् । एतदपि कस्मात् ? प्रतिबन्धस्य तत्रैवावगमादिति चेत्; न; परस्पराश्रयमसङ्गीत् । सत्यपि तदभ्यासाद् बहिस्तेषां सर्वाकार निर्णये नान्तः तत्सम्भव इत्याह
निर्णयेऽनिर्णयान्मोहो पहिरन्तश्च तादृशः । इति ।
१ – नभाषः आ०, ब०, प०२ प्रादित्यप्राप्यतिशयवन्तो न भ-आ०, ब०, प० । ३ वष प्रतिबन्धस्यावगमे तत्रैव निर्णयः, वति च तस्मिन् तत्रैव प्रतिबन्धागमः । ४ नातः आ०, ब०, प० ।