________________
२॥१४-४८] २ अनुमानप्रस्तावः
१७१ प्रत्ययः भात्मा 'प्रतिगतः परापपर्यायान् अयो बोधः प्रत्ययः' इति व्युत्पत्तेः, तादृशस्य बोधस्यैवात्मत्वात् । स तत्र तस्मिन् 'प्रत्यक्षाणां परोक्षात्मा' इत्यत्र प्रामाण्यमविसंवादकत्वम् अश्नुते पाप्नोति । एतदुक्तं भवति-योधात्मैव कश्चित् प्रत्यक्षरूपेण परिणतः तद्विषयाभिमुख्यं परिल्यजन्नेव पुनः प्रमाणान्तररूपेण परिणग्य परोक्षाकारस्य प्रत्यक्षविषयाविष्वग्मावमनुभवतीति । कथं पुनरेकस्य प्रत्यक्षतरपरिणाम इति चेत् ? स्वपरवेदनपरिणामोऽपि कथम् ! नास्त्येव, 'स्ववेदनस्यैव ५ एकस्यानुभवादिति चेत्, न; परवेदनस्याप्यनुभयात् । न चार्य विभ्रम एव, स्वरूपेऽपि प्रसङ्गात् । तद्विभ्रमे बाह्यविभ्रमो न सिद्धयतीति चेत; एवमपि कथमविभ्रमस्य विभ्रमाकारो विरोधाविशेषात् ? अन्य एव स तस्मादिति चेत; तस्य तर्हि तेन यथावस्थितस्य ग्रहणे सिद्ध परवेदनमपि । सत्यमेव तद्ग्रहणस्यापि विभ्रमत्वे स एव प्रसङ्गः-'कथमविभ्रमस्य' इत्यादिरनवस्थापत्तिश्च । ततो गत्वापि दूरमविभ्रममपि परवेदनमभ्युपगन्तव्यम् । 'अन्तु तदेव न स्ववेदनम्' इत्यपि न युक्तम् तदभाषे सस्थाप्य- १० सम्भवादिति निवेदितत्वात् । ततः सिद्धः स्वपरवेदनपरिणामः तथा प्रत्यक्षतरपरिणामोऽपि । तदेव पर इस्लादिना दर्शकले । पर मास, आस्मान स्वरूपम् 'अपि च' इति समुच्चये प्रतिभासयेत् प्रकाशयेत्, प्रत्ययः। कीदशम् ! सत्यमवितधम् , अन्यथा विनमैकान्तस्य प्रसिद्धः । परिस्फुटं विशदम् , अनेन तत्परिणामिनः प्रत्यक्षव्यपदेशविषयत्वं दर्शयति, स एवैकः प्रत्यय आत्मनः परिस्फुटस्य प्रतिभासनात् स्वसंवेदनप्रत्यक्षम्, परस्येन्द्रियप्रत्यक्षमिति । 'येन' इति तस्य तत्पति- १५ भासनेन तथानुभवसमुत्पत्तिं दर्शयति । तद्वचनाच्च तेनेति लभ्यते यत्तदोः सम्बन्धात् । तेन तथानुभवेन स तत्र प्रामाण्यमश्नुते इति । अस्ति अनुभवो देशव्यापिन इव कालव्यापिनोऽपि प्रत्ययस्य । नत्र स्वपरवेदनमावस्येव प्रत्यक्षपरोक्षमावस्यापि प्रतिमासभेदनिबन्धनस्य तद्भदस्य सामग्रीवैचित्र्यात् उपपत्तेः । तत: सूक्तम् - 'तत्र'-इत्यादि ।
परम्' इत्याधयुक्तम्, एकस्य स्वपरप्रतिभासिनः स्वभावयस्यासम्भवात् । अत आत्मा २८ नमेव प्रत्ययः प्रतिभासयतीति चेत्, अत्राह
___ आसादितविशेषाणामधूनामतिवृत्तितः ॥१४७॥ इति ।
__ न तावदसावेकपरमाणुरूप एव सकलजगत्संव्यवहारेण तन्मात्रस्याऽशक्यावस्थापनत्वात् । सञ्चयमतानेकपरमाणुरूपत्वे च आसादितः मातः अतिशयश्चैतन्यलक्षणो बापासम्भवी विशेषो यैस्तेषाम् अण नाम् अतिवृत्तिः स्वरूपातिकमेणान्यत्रापि प्रवृत्तिः स्त एव तयहुत्वस्यापि परिज्ञानात् . तस्यास्ततः । 'परमात्मानमपि च प्रतिभासयेत्' इति सम्बन्धः । स्वत एवं तेषां यथास्वमवगमात् किमतिवृत्त्येति चेत् ? ननूक्तम्-‘एकस्य तद्विषयस्याभावे न तद्महत्वावगमः' इति । एतदेव दर्शयति
एकाकारविषेकेन नैकैकप्रतिपतयः । इति ।
एकोऽनेकविषय आकारः प्रत्ययात्मा तस्य विवेकोऽभावस्तेन कृत्या एकैकाः परस्परामिश्राः प्रतिपत्तयो न सम्भवन्तीति शेषः । भवति हि प्रत्ययनिष्ठत्वात् प्रत्येयव्यवस्थायाः ( स्था ), तदभावे ३०
१ स्वयंवेद-आध, ब०, ५। परवेदनम् । ३ स्ववेदनाभाये। ४ परस्परभि आ०,व०प० । ५ प्रत्ययव्य-भा०, ब०, प० ।