SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ न्यायविनिश्चयषिषरणे [ २१४५-४७ नीलादिविकल्पानां स्वतो न निश्चयान्तरापेक्षया गतेः निर्णीतेः । तां दृष्टान्तत्वेनाश्रित्य नाशस्यैकार्थरूपस्य प्रतीतिर्न विरुध्यते इति । कदा पुनस्तेषां गतिनिीतिरिति चेत् ! उत्तरम्-'स्वभाव' इत्यादि । स्वभावाः सैचे( सच्चे तनादयो विकल्पधर्मास्ते च ते व्यवसायाश्च नाव्यवसाया स्तेषां तेषु विरोधात्, स्वभावव्यवसायास्तेषु सस्सु । न हि सफलतत्स्वभावानां व्यवसासात्मकत्व५ नियमे निर्णतिरन्या स्वतस्तेषां गतिः सम्भवति । ततो न बहिरन्तर्वा प्रमाणान्तरकल्पनमर्थवत्, प्रत्यक्षादेव समीहितसिद्धेरिति मन्यते । भवतोऽपि स्वपरनिर्णयात्मनो ज्ञानस्य स्वत एव सच्चेत. नादिवत् प्रतिक्षणपरिणामादेरपि निर्णयात् किं तत्र प्रमाणान्तरेणेति चेत् ? अत्राह व्यामोहशवलाकारवेदनानां विविधता ॥१४४॥ इति । व्यामोहयति विकलयति चिनमिति व्यामोहः आवरणात्मको विशेषस्तेन शबलो मेचक १० आकारः स्वभावो येषां तानि च तानि वेदनानि च ज्ञानानि तेषां विचित्रता विविधा चित प्रति भासमात्मनि ब्रायमाणानां भावः, विविधप्रतिभासत्वं भवति इति शेषः । एतदुक्तं भवति-भवत्येव सूक्ष्माणामपि ज्ञानाकाराणां निणयो यदि कर्मसामर्थ्यात् असकलनिर्णयपरिणामो न भवेत् । अस्ति चायमिति । एतदेवाह साकल्येन प्रकाशस्य विरोधः सम्प्रतीयते । इति । साकल्येन स्वभावसामस्त्येन प्रकाशो ज्ञानाकाराणां तस्य विरोधः कर्मसामध्येन प्रतिरोधः सद्यवस्थापकात प्रमाणात् वक्ष्यमाणात् सम्प्रतीयत इति । ततो नास्माकं तत्र प्रमाणान्तरस्थावृत्तिः, अमतिविदितस्यापि तस्य विषयस्य भावात् । न चैवमेकान्तवादे, तत्र पतिपन्नस्य तत्सामस्त्येनैव प्रतिपत्तेः, अन्यथा तद्वादविरोधात् । नन्वेवमगृहीताकारसम्भवे कुतस्तदस्तित्यमित्यत्राह सम्भाषितान्यरूपाषां समानपरिणामिनाम ॥१४शा प्रत्यक्षाणां परोक्षास्मा प्रमाणान्तरगोचरः । इति । सम्भावितं सम्भवज्ञानावलम्रनम् अन्यत् प्रतीतादर्थान्तरं रूपं येषां तेषां समानपरिणामिनां सदृशपर्यायवतां ज्ञानानामर्थानां च तेष्वपि तत्सम्भवनाभावात, तेषां परोक्षात्मा अप्रत्यक्षविषयः स्वभावः सुक्ष्मपरिणामादिः प्रमाणान्तरम्यानुमानादेर्गोचरः ततोऽस्तीति भावः । कोदृशानां तेषां स तद्गोचरः । प्रत्यक्षाणां सच्चेतनादिना स्थूलनीलादिना च स्पष्टज्ञानविषयाणाम् । कुतः पुनरिदमवगन्तव्यं प्रमाणान्तरगोचर आत्मा प्रत्यक्षाणामिति ? प्रत्यक्षस्य तत्र तद्विषये च प्रमाणान्तरस्यावृत्तेः, उभयविषयस्य च कस्यचिदभावादिति चेत्; अत्राह प्रत्ययः परमात्मानमपि च प्रतिमासयेत् ॥१४६।। सत्यं परिस्फुटं येन तत्र प्रामाययमश्नुते । इति । १पया चेतना-ता०।२-नियमनि-आ०, ब, १०।३ विविध चित्रं प्र-आ, ब, प० । ४ तत्संभवातेषां आ०, ब०, प० ।
SR No.090313
Book TitleNyayavinishchay Vivaranam Part 2
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages521
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy