________________
१६९
२१४३-४४
२ अनुमानप्रस्तावः चेत; कुतस्तदभावः ? कारणाभावादिति चेत् : न; दर्शनस्यैव स्वलक्षणविषयस्य तत्त्वात् । अभ्यासपाटवादेनीलादिवत् क्षणभङ्गादावप्यविशेषात् । न च सादृश्यातिशयेन तस्य प्रतिरोधः; सत्यपि तस्मिन् मृगतृप्पिकादौ तन्निर्णयस्य तेन जलाधागेपनिवर्तनस्य च दर्शनात् । तन्न तस्य मानसत्वम् , ऐन्द्रियत्वस्यैवोपपत्तेः । तथा च यसिद्ध तदाह
समानपरिणामात्मशब्दसताहेतवः । इति ।
समानपरिणामात्मनः सहशपरिणामरूपस्य शब्दस्य सङ्केतो वाचकावेन निवेशनं तस्य हेतवः प्रतिपादिता एवार्थाः न क्षणक्षीणाः परमाणवः । एतदुक्तं भवति-न शब्दार्थयोरसाधारणयोर्वाच्यवाचकभावः सतासम्भवात्, अपि तु समानपरिणामस्वभावयोः । तयोरपि नापतिपन्नयोः सक्केत्ता; अतिप्रसङ्गात् । न च असाधारणदृष्ट्या तत्प्रतिपत्तिः, नापि तज्जन्मना विकल्पेन; ततस्दुत्पत्तेनिषेधात् । सत इन्द्रियबुद्धिरेव तद्विषया वक्तव्या शान्दज्यवहारस्यान्यथानुपपत्तेः । सैव तव्यवसाया- १८ स्मिका बुद्धिर्न ततोऽन्येति । साम्प्रतं तस्यास्ततोऽन्यत्वेऽपि तस्वसंवेदनदिन्द्रिय प्रत्यक्षस्यापि व्यवसायात्मकत्वं दर्शयन्नाह
स्वभावव्यवसायेषु निश्चयानां म्वतो गतेः ।।१४३॥
नाशस्यैकार्थरूपस्य प्रतातिन विरुद्धयते । इति ।
नाशस्य क्षणभङ्गस्य प्रतीतिनिर्णयात्मेन्द्रियबुद्धिः इतरत्र परस्याविबादात् न विरुद्धयते १५ न प्रमाणेन बाध्यते । कीदृशस्य ! एकाथरूपस्य एको भागसहायबिकलोऽर्थो नीलादिस्तद्रूपस्य तत्स्वभावस्य । विशेषणमप्येतत्साधनं द्रष्टव्यं तद्रूपत्वात् । तदयमत्र प्रयोगः-प्रत्यक्षनिर्णयो नाशो नीलादेव्यतिरेकात् तत्स्वरूपवत् । न हि निर्णये तदव्यतिरिक्तस्यानिर्णयः, तद्वदने अवेदनस्यापि प्रसङ्गात् । ततो यथेदमुच्यते
"एकस्यार्थस्वभावस्य प्रत्यक्षस्य सतः स्वयम् ।
कोऽन्यो न दृष्टो भागः स्याद्यः प्रमाणः परीक्ष्यते ।" प्रि०वा० ३।४२१ इति । तथेदमपि वक्तव्यम् - ___ एकस्यार्थस्यमावस्य निर्णीतस्य सतः स्त्रयम् ।
कोऽन्योऽनितिभागो यन्निश्चयः क्रियतां परैः ।।१४८० || इति ।
नीलादेरपि न प्रत्यक्षान्निर्णयः तजन्मनो निश्चयान्तरादेव तदभावात, ततः साध्यक्किल- २५ मुदाहरणमिति चेत् ; निश्चयस्य तर्हि कुतो निश्चयः तदनिश्चये नीलादेरनिश्चयात् तदवित्ताववित्तियत् ? निश्चयान्तरात् तस्यापि निश्चये ऽनवस्थोपनिषातान्न नामापि निश्चयस्य सिध्येत् । दिदितावादेव तस्य निश्चयो न निश्चितत्वादिति चेत्; अस्तु नामैवम् , तदेव तु वेदनं कुतः ! स्वसंवेदनादेव प्रत्यक्षादिति चेत्, न; तस्यानिश्चयरूपस्य निश्चयात्मनि विरोधात, अनेकान्तस्य चानभ्युपगमात् । निश्चयात्मैव तत्पीति चेत्; सिद्धं तहिं तद्वदेव नीलादिप्रत्यक्षमपि तदात्मकमिति न तस्वरूप- ३० वदिति निदर्शनस्य साध्यधैकल्यम् । तदेवोक्तम्-'निश्चयानाम्' इत्यादिना । निश्चयानां
१ निश्चयस्य । निश्चयात्ममिति ।
-....