________________
१६६ न्यायविनिश्चयविवरण
[२।१३९-१४० आकृतिभ्रमवद्याविषमज्ञप्रिलोकितम् ॥१३९॥ इति ।
आकृतिविपरीताकारः तवैव प्रभोपपत्तेः तस्य भ्रम आरोपः स विद्यतेऽस्मिन्निति तद्वत् ग्रहणं निरंशक्षणिकवेदनं 'ग्रहणे' इत्यस्य विभक्तिपरिणामेन योजनात, किं नैव 'किम्' इत्यस्यानुवृत्तेः । न हि सर्वात्मना तस्य स्वविषयनिश्चयनियन्धनवे तद्वत्त्वमुपपन्न विरोधात् । ततो न आरोपस्याभावात् तन्निरासार्थत्वमनुमानस्येति मन्यते । पदित्यादि तद्वत्वे निदर्शनम् । तस्याप्युपन्यासः परं प्रत्यभावज्ञापनार्थः । न यज्ञैः तन्निश्चयविकलैरवलोकितं विषमपि तद्विपर्ययभवदुपपन्नं यतो निदर्शनं स्यात, तदवलोकनस्यापि तन्निर्णयजननस्वभावत्वेन तद्वत्त्वानुपपतेः । ततः प्रागुक्तमेवोसरम्', प्रत्यभिज्ञानवत् । अपि च, सत्यपि दर्शने यदि निश्चयाद् व्यवहारः, स एव प्रमाणमस्तु किं दर्शनेन ?
स एव तदभाचे कुत इति केत् ? तदपि कुतः ? विषय विषयिसन्निपातादिति चेत्, तव एव १० सोऽप्यस्तु । तदेवाह
न चर्तेऽर्थविदोऽर्थोऽर्थात् केवलो व्यवसीयते । इति ।
किमित्यनुवृत्तम् . अर्थः पुरोवर्तिनीलादिः किं कस्मात् न च नैव व्यवसीयते व्यवसीयत पव। कथम् ? अर्थविदो निर्विकल्पदृष्टेः ऋते विना । कुतो व्यवसीयते ? अर्थात् विषयि
सन्निहितात् स्वलक्षपाद । लिश्चयो मामिलामान मायः बहत्त्वं च तम्या न विषयगतेनामिलापेन १५ तत्र तदभावात्। अन्यथा सङ्केतवैफल्यम्-स्वत एव वाचकानुविद्धस्य सर्वस्यापि वस्तुनः प्रतिपत्तेः ।
स्मरणोपनीतेन तु तद्वत्त्वे भवितव्यमेवार्थविदा पूर्वम् , अन्यथा स्मरणासम्भवादिति । अत्रोत्तरम्'केवलः' इति । तात्पर्यमन्त्र-यथमिलापसम्बन्धेनेवार्थो व्यवसीयते युक्तं तया भवितव्यमिति, न चैवम्, तत्सम्बन्धविकलस्य केवलस्यैव तस्य व्यवसायात् । तदैकल्ये व्यवसाय कथमिति चेत् !
अभिलापानुस्मरणस्य कथम् ! तत्सम्बन्धादेव तदपीति चेत्, तत्रापि तदमिलापस्मरणान्तरमाङ्गीकर्तव्यम् , २० तदुपनीतेनैवामिलापेन तस्यापि तद्वत्त्वात्, पुनस्तत्राप्यपरं तदिति कथ नानवस्थानम् ? भवतु
"तन्निर्विकल्पकमेव तत्सम्बन्धाभावादिति चेत; न. तहि तद्विषयस्यान्यन्त्र योजन स्वलक्षणस्यावाचकत्वादशक्यत्वाचेति विकल्पविकलं जगत्प्राप्तम् , अशब्दयोजनस्य तस्यानुभ्युपगमात् । तदुक्तम्
"सशार्थाभिलापादिस्मृति प्यभिलापिनी ।
सावतैवाविकल्पत्वे स्वल्पा धीः स्याद्विकल्पिका ॥"[सिद्धिवि० प्र०परि० ] इति ।
ततस्तत्सम्बन्धाभावेऽपि व्यवसायात्मकमेव तद्वक्तव्यम् । अस्तु, तधोम्यतया तदुपगमादिति चेतः किमेव नेन्द्रियज्ञानम् । तस्य असाधारणविषयत्वेनातद्योग्यत्वादिति चेत्, कुतस्तद्विषयस्थम् ! "अतयोम्यत्वात् । तदपि कुतः । तद्विषयत्वादिति चेत्, परस्पराश्रयस्य सिद्धेः । स्वतस्तद्विषयत्वेनाकभासनात्, अत एवोक्तम्-"प्रत्यक्षं कल्पनापोर्ट प्रत्यक्षेणैव सिद्धति ।" [म. वा० २।१२३]
१-तर प्रत्यभिज्ञानेऽपि समान नेदमत्रोत्तरम्- समारोपनिरासार्थत्वस्य प्रत्यभिशानान्यवदपि च आ7, ब०, प०१२ केवलं म्य-आ०, घर, प० । ३ "विकल्पो नामसंधयः" इति वचनात् । स्था. भिधानविशेषापेक्षा एष निश्चमैनिश्चीयन्ते इति वचनाच"-ता टि४ अर्थविदा । ५. अभिलापानुस्मरणम् । ६ विकल्पस्य । ७ विकल्पकमिटमिति शेषः । ८ शब्दसम्बन्धायोग्यत्वात् ।