________________
२६१४०-४१] २ अनुमानप्रस्तावः
१६० इति चेत; न; "व्यवसायात्मकं ज्ञानं प्रत्यक्ष स्वत एव न" [ ] इत्यपि वचनात्, स्वतश्च तस्यैवायभासनात् । लोकस्थापि तत्रैव सम्मतेः, नेतरत्र, अन्यथा "तयोरैक्यं व्यवस्थति" [प्र. वा० २११३३ ] इत्यस्य विरोधात् । कथं पुनः अर्थाद्वयवसायः ! निर्विकल्यातदनुपपत्तेरिति चेत् ? तद्विदोऽपि कथं तदविशेषात् । वासनात एक व्यवसायः, तद्बोधनद्वारेण तु तद्विदस्तद्वेतुत्वमिति चेत्, अर्थस्यापि तथैव तदस्तु । 'वासनाकार्यस्य कथमर्थविषयत्वम् ?' इत्यपि ५ न चोद्यम् ; अर्थस्थापि तदतुत्वात् । कथ पुनर्वासनाबोधतः माग अतद्धेतोस्तस्य पश्चाद्धेतुत्वम् उपयोगाविशेषात् ? ततोऽर्थाभावेप्यक्षज्ञानेन भवितव्यम् , अहेतोरनपेक्षणात् । तदुक्तम्
"यः प्रागजनको बुद्धरुपयोगाविशेषतः।
स पश्चादपि तेन स्यादापायेऽपि नेत्रधो [ ] इति । चेत्; कथमेवं तद्विदो व्यवसायहेतुत्वमपि । शक्यं हि वक्तुम् -
या प्रागजनिका दृष्टिर्व्यवसायस्य सा कथम् ।
पश्चादप्यविशेषात् स्यात् वदपाये ऽपि तन्मतिः ॥ १४७१ ।। इति ।
वासनायोधस्य तु पश्चात्तविशेषत्वमर्थेऽपि समानम् । कथं पुनरदृष्टस्य तद्बोधकचमिति चेत् ? दर्शनहेतुः कथम् ? तदपि दृष्टस्यैवेति चेत् ; न; अपूर्वदर्शनाभावप्रसङ्गात् । तथास्वभाव्य तबोधकत्वेऽपि । तन्न व्यवसायार्थमपि दर्शनकल्पनमुपपत्रम् ।
__भवतु व्यवहारार्थ मेव तद्, अभ्यासदशायां दर्शनादेव व्यवसायनिरपेक्षात व्यवहारप्रवृतरिति चेत् ; अत्राह
भावान्तरसमारोपेऽभाविताकारगोचराः ।। १४० ॥
समक्षसंविदोऽर्थानां सन्निधिं नातिशेरते ॥ इति ।
विषयेषु सम्मुखमक्षमिन्द्रिय समक्षं तस्य संविदः तत्कार्या बुद्धयः अर्थानां रूपादीनां २० सबिधिम् इन्द्रियसप्रयोग नातिशेरते न ततो विशिप्यन्ते, तत इव ताभ्योऽपि न व्यवहार इत्यर्थः । कुतस्तथेति चेत् ? अनिश्चितस्वभावाधिष्ठानत्वादेव । अत एवोक्तम्-'अभाविताकारगोचराः' इति । हेतुपदं चेदम् । यत एवं ततस्तं नातिशेरत इति । निश्चयविरहे.ऽपि बोधात्मकत्वेन तासां तदतिशयोपपतेः कुतो न व्यवहार निबन्घनत्वमिति चेत् ? उत्तरम्-भावान्तरस्य तद्विषयादन्यस्य मावस्य समारोपस्तत्रैवाथ्यारोपस्तस्मिन्निति । न हि बोधरूपत्वे ऽपि तदन्तरसमारोपे तन्निबन्धनवं क्षणभका- २५ दाबपि तत्प्रसङ्ग नानुमानवैफल्यापत्तेः । मा भूत् ततस्तत्र व्यवहारो नीलादौ तु स्यात्तदभावादिति चेत् : न; दर्शनादेव तत्रापि तद्भायात्, क्षणक्षयानावप्यन्यतस्तदनभ्युपगमात् । उपपन्नः क्षणे क्षणान्तरस्य तत आरोपः सादृश्यातिशयात्, नीलादौ तु कथं दीतादेः विपर्ययादिति चेत् ! मा भूत् पीतादेः, नीलादेरेवापरस्य स्यात् तद्भावात् । तथा च कथं तत्परिहारेण दर्शनविषय एव व्यवहारो
१ निर्विकल्पकचोधादपि । २ अर्थस्य । ३ उद्धृतोऽयम्-अष्टसहरू पृ० १२२ । ४ तुलना"यः प्रामजनको बुधरुपयोगाविशेषतः । स पश्चादनि तेनानबोधापायेऽपि कल्पना ॥ इति प्रतिपादनात् ।" -अष्टसह पृ० १२२। ५ समानमिति शेषः । ६ सादृश्यातिशयसभावात् । ७ नील न्तरपरिहारेण ।