________________
२।१३९]
२ अनुमानप्रस्तावः
१६५
प्रतीतं प्रविल्लुम्पेम यधन्यस्य प्रकल्पनात् । लभेमहि कर्थ तत्त्वं किमप्येवं तवर्थिनः ॥१४७७) ततः प्रतीतिसामथ्यर्यादेशकालान्तरान्वयी ।
स्वभावो भावतो मावो भावज्ञैरभ्युपेयताम् ॥१४७८॥ न चेदभत्र चोद्यम्-"तथाविधस्य भावस्य सर्वात्मना प्रत्यक्षत एव प्रतिपत्तेने तत्र प्रमाणा- ५ न्तरं शब्दान्तरं वा प्रवृत्तिमत् ।" [ ] इति; कस्मात् ? अग्दिर्शिभिरसकलपर्यायस्यैब ततस्तस्य मतिपत्तेः। एवं सति स एव गृहीतश्चागृहीतश्च भवेदिति चेन् : नायं दोषः, तथाप्यनेकान्तस्यानुषद्वात् । एकान्तवादस्य तु भवत्येव समुपद्रवः । तत्र सर्वात्मना ग्रहणमेव नेतरदिति चेत्, न; भाववच्छक्तावपि तत्प्रसङ्गादव्यतिरेकात् । तथा च किं तत्रोपदेशाद्यपेक्षया ? निर्णय इति चेत्, न; प्रत्यक्षस्यैव निर्णयरूपस्योषगमात् | व्यतिरिक्तव ततः शक्तिः तस्याः सामग्रीरूपत्वादिति १० चेत्; व्यतिरिक्ता कथं तस्य ? तत्कार्य व्यापारादिति चेत्, न; अशक्तस्य कार्याभावात् । शक्त एवासी सामग्र्येति चेत्, न; परस्पराश्रयात्-‘सामय्या शक्तस्य कार्यम्, सद्व्यापाराच्च मा तस्य शक्तिः' इति । तन्न तत्र व्यापारात् तस्यास्तच्छक्तित्वम् । तदुपकारादिति चेत्, न; अशक्तस्तदसम्भवात् व्योमकुसुमवत् । स्वतोऽपि शक्त एव भाव इति चेत् ; तस्य तर्हि प्रत्यक्षत एवं निर्णयात् कथं 'शृङ्गवेरदर्शने संशयः शृङ्गवेरं विषमेवेति विपर्ययो वा ! तस्मादगृहीतैव शक्तिर्भावग्रहेऽपीति कथमेकान्तवादस्यानु- १५ पद्रवः । तस्मादकमवत क्रमेणापि अनेकान्तात्मक एव भायः, तथा प्रत्यभिज्ञानात् । ननु च प्रत्यभिज्ञान प्रत्यक्षविषय एवं प्रवृत्तिमन्नान्यत्र अतिप्रसङ्गात् । न च प्रत्यक्षस्य परापरपर्यायेषु प्रवृत्तिर्यतम्तेषां कश्चिदभेदमतिपत्त्या : तस्यानेकान्तविषयत्यात् प्रत्यभिज्ञानं तत्र स्यादिति चेत; अत्राह--
___अग्रह क्षणभङ्गोऽपि [ ग्रहणे किमनिश्चयः ] । इति ।
न केवलमक्षणिकत्वमपि तु क्षणिकत्वमप्यविद्यमानमहणमेव । न हि परापराविज्ञाने तस्यापि २० अहणं तदपेक्षत्वात् । स्वभाव एव भावस्य क्षणभङ्गः तकि ताणे पूर्वापरग्रहणेनेति चेत् ? सिद्धं तर्हि तदभेदस्यापि ग्रहणे तस्यापि कथञ्चित् तत्स्वभावत्याविशेषात् । किमिदानी प्रत्यभिज्ञानेन प्रत्यक्षादेव तस्य प्रतीतेरिति चेत् । न तस्यैव परापरपर्यायविशिष्टतया प्रत्यभिज्ञानेनाधिगमात् । अपि च, भवतोऽपि किमनुमानेन प्रत्यक्षादेव क्षणभङ्गम्यापि
महणात् । निश्चय इति चेत्, न, निश्चयस्यापि नीलादिवत् प्रत्यक्षादेव भावात् । एदेवाह- २५ ग्रहणे किमनिश्चयः' इति । ग्रहणे क्षणभङ्गस्य कस्मादनिश्चयो निश्चय एव स्यात् । न प्रत्यक्षमित्येव निर्णयहेतुर्बुद्धिपाटबादी सत्येव तस्य तत्त्वात, क्षणभङ्गे च तदभावादिति चेत्, नीलादेरपि न निर्णयः स्यात्, निरंशे खण्डशः पाटवादेरसम्भवात् । एवं च कथमनुमान धर्मिहेत्वादीनामसिद्धेः । ततो विशिष्टनिर्णयार्थत्वमेवोत्तरम् । तच्च प्रत्यभिज्ञानेऽपि समानम् । नेदमत्रोत्तरम् , समारोपनिरासार्थत्वस्य तत्त्वादिति चेत्, अत्राह
१ प्रत्यक्षात् । २ ततोऽपि आ०, ब०, १० । ३ एव ततो नि-आ०, २०, प० ।५ पाक शुण्ठीति यावत् । ५ -परापरिक्षा-आ०,ब०, प० । ६ क्षणिकत्वमहणे । ७ -चित्स्वभा-आ०, बरु, प० ।