SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ १६४ न्यायचिनिश्वयविवरणे [ १६८ वासनाहेतुकत्वं नीलादिज्ञानवत् । तदपि स्खलत्येव भेदज्ञानेन बाधनादिति चेत् ; नीलादिज्ञानमपि किन्न स्खलति निराकारवस्तुज्ञानेन याधनात् । तदेव नास्ति, साकारस्यैव वस्तुनो दर्शनादिति चेत् इतरदापि नं भवेत्, सान्वयस्यैव दर्शनात् । व्यतिरेकोऽपि पिण्डशिवकादिरूपेण प्रतीयत इति चेत्: निराफारमपि प्रतीयत एवं सन्नील सत्पीतमिति । न हि नीलेतरयोरन्यतरदेव सत्। इतरत्र तज्ज्ञानाभाव५ प्रसङ्गात् । न नीलादेरन्यत् सत्त्वमिति चेत्, सत्त्वादन्यन्न नीलायपि । कथं तत्प्रत्यय इति चेत् ! इतरप्रत्ययः कथम् ? नीलादावेव स इति चेत् तत्प्रत्ययोऽपि सत्व एवेति किन्न स्यात् ? अतद्रूपे तदनुपपत्तेरिति चेत् ; ऋथमभेदप्रत्ययः । तत्रैव तदारोपादिति चेत्, नीलादिप्रययोऽपि संत्त्व एव, सत्रैव तदारोपादिसि किन्न स्थात् ! न कदाचिदपि नीलादिविकलं सत्त्वमुपलभ्यत इति चेत; के पुनरभेदविकलस्य भेदस्योपलब्धिः ? विकल्पसंहारदशायामिति चेत; तत्रैव सत्त्वस्यापि । १० "सदेव सौम्येदमग्र आसीता [छान्दो०६।२।१] इत्यादि श्रुतेः । वाङ्मात्रमेवेदनयं कदाचिदप्यनुभव इति समानमेकान्तमेदेऽपि । ततो यथा नीलाविज्ञानस्य निराकारज्ञानेनाबाधनं केवलम्य तद्विषयस्याप्रतीतेः, एवं मेदज्ञानेनापि इतरज्ञानस्य, इत्युपपन्नमुक्तम्-'अपृथग्' इत्यादि । किं पुनरेवमभेद एव न मेदोऽपि तज्ज्ञानस्यापि भावात् ! कयमेवं तयोरेकत्र भावः ! कालविकल्पेनेति चेत्, न; वस्तुनि तदभावात् । न खेकमेव कदाचिन्नीलमन्यान्यदिति चेत् मा भूद्विकल्पः समुच्चयस्तु स्यात् । स एव १५ कथमेकत्र विरुद्धयोरिति चेत् ? कथं विभ्रमेतरयोः ! न चेदमसिद्धम्-"नौयानादिषु' इत्यादिना निरूपितत्वात् । कथं वा विकल्पेलरयोः ? अन्यथा विकल्पाभावेन सर्वव्यवहारोच्छेदादिति निरूपणात । ततो यथा विप्रमेतरविकल्पेत रादीनामेकत्र समुच्चयस्तथा वस्तुस्याभाव्यादेव सूक्ष्मेतराभेदेतराणामपि । एतदेवाह देशकालान्तरख्याप्तिः स्वभाषः क्षणभनिनाम् । इति । 'अनाम्' इत्यनुवृत्तम् । ततस्तेषां देशान्तरव्याप्तिः भिन्नदेशकलापाविष्वम्भावः स्वभावः ततो देशदैयम् , क्षणभगिनां कालान्तरव्याप्तिभिन्नकालपर्यायाभेदः स्वभावस्ततश्च कमलदैर्ध्यमिति भावः । देशय॑स्य निरूपितस्याप्युपादानं तद्वत् कालदेय॑स्याप्यविरोधदर्शनार्थम् | अत्रैवोपपत्त्यन्तरमाह सम्प्रत्यस्तमिताशेषनियमा हि प्रतीतयः ॥१३८॥ इति । २५ __ सम्यक् प्रत्यस्तमिताः प्रलीना अशेषनियमाः स्थूलमेव सूक्ष्ममेव नित्यमेवानित्यमेव वेत्यादय एकान्ता यासु तास्तथोक्ताः । का: पुनस्ताः ? प्रतीतयः प्रत्यक्षादिबुद्धयो हि यस्मात् , तस्माद् 'देश' इत्यादि । तथा हि नैकान्तनियता काचित् प्रतीतिरनुभूयते । अनेकान्ततिरस्कार यद्वलाद्विदधीमहि ।।१४७६|| १ सज्ज्ञाना-आ०, ब०, ५०१२ स्वत एव-आआ, च, प० ! ३ इति 'श्रु-बा० ब०, प० । ४-दा तदन्यदि-आग, बप.1 ५ न्यायवि० श्लो१४८ । ६ समुच्चय इति शेपः।
SR No.090313
Book TitleNyayavinishchay Vivaranam Part 2
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages521
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy