________________
२।१२६ २ अनुमानप्रस्तार
१५५ इदं सहि हेतुबिन्दु व्याचक्षाणेनाप्यचंटेन किमिति नावधारितम् ? अवधारितमेव "अगमधूमग्रहणेन
भवत्येव तदग्नेरनुमानम्" [ हेतुवि० टी० पृ० १५२ ] इति तेनाप्यभिधानादिति चेत्; नई तस्य सिथिली मारी.कलो पीने धर्मिणि कस्यचित्र स्वभावहेतोः
प्रत्यक्षानुपलम्भसाधनः प्रतिबन्धः कथं परोक्षे साध्यधर्मे गृह्यते। [ हेतुवि० टी० पृ० १६] इति । यदि च, कार्ये ऽपि कचित् पक्ष एव तरपरिज्ञानम् अन्यथा देशनाविशेषात् मुगनप्रामाण्या- ५ परिज्ञानापतेः; तर्हि व्यर्थ तसर्थ पमेयत्वादावपि तदपेक्षणं विपक्षे तदारोपपरिहारपरायणात् तर्कज्ञानादेरेव तदुपपत्तेः । एतदेवाह--'अयमतस्तकेंण साध्यते' इति । अत एतस्मात् प्रत्यक्षादेर्भवता तर्केण साध्यते नियते अयं साध्याभावे विरोधः साधनस्य न बहिर्दर्शनादर्शनाभ्यां व्यभिचारात् ! नापि तादात्म्यतदुत्पत्तिभ्याम् ; तयोस्तद्विरोधादेवं सिद्धेश्च, न पुनस्ताभ्यां तस्य तदभावेऽपि भावात् । वक्ष्यति चैतत्--"तुलोभामरसादीनाम्" इत्यादिनी | तन्त्र बहिरन्वयादिना किञ्चित् विनापि १० तेन ततस्तनिर्णयात् । न च सर्वत्र तत्सम्भवो यतः तस्मादेव स भवेत् । इत्याह
सर्वत्र परिणामादी हेतुः सत्वादिः [अन्यथा ] ।। १२६ ।। इति ।
न हि चेतनेतरसकलवस्तुगोचरनया परिणामादीनामन्यतमे साध्ये कचित् सत्त्वकृतकवादेरन्वयः सर्वस्य विप्रतिपत्तिविपयरवेन निदर्शनत्वानुपपत्तेः । न चैवमसौ अहेतुरेव; अन्तर्याप्तिनिश्चयात् । किमर्थमादिग्रहणम् ! न हि शास्त्रकारस्य क्षणभङ्गादिसाधनमिष्टमिति चेत् ; न; १५ दृष्टान्तार्थत्वात--अन्यथा क्षणभमादौ स निरन्वयोऽपि हेतुः, तथा परिणामे ऽपीति । नैतदस्ति प्रदीपादौ तस्य तदन्वयग्रहणादिति चेत्, न प्रत्यक्षतस्तद्मह्णम् , पक्षेऽपि स्यादिति कोऽर्थस्तत्रापि हेतुना ! समारोपन्यवच्छेद इति चेत्, न; समारोपस्य प्रदीपादावपि भावात् । सत्यम् , सत्रप्यसौ तैत्र 'यदि प्रदीपादिः प्रथमतैलादिव्यापारादेवोत्पन्नः परापरस्तव्यापारो व्यर्थः' इत्यादिना विचारेण व्यवच्छिद्यत इति चेत्, न; अप्रमाणातद्व्यवच्छित्ती प्रमाणक्लप्तेवैयति । २० मामाण्यमपि न प्रत्यक्षत्वेन अविचारकत्वापत्तेः। अनुमानवे तु तत्रापि निदर्शनान्तरमन्वयार्थमर्थयितव्यम् , पुनस्तत्समारोपस्यापि विचारान्तरादनुमानाद् व्यवच्छिनौ पुनस्तदन्तरं तदर्थमर्थयितव्यमिति कथमनवस्थितवस्तुवादिनस्तथाऽनवस्थादीस्थ्यानिमुक्तिः ? विचारस्यानन्दयस्यापि गमकत्वे सत्त्वादेरपि स्थादविशेषात् ।
भवतु निरन्वयविनाश एव सं हेतुर्न परिणाम इति चेत्, न; तस्य निरपेक्षस्य नित्यत्वापत्त्या २७ कार्यद्रव्यादेर्वा तयापि अव्यवस्थितेः । साक्षेप एवासौ" मुद्गरादिव्यापारादुत्पत्तेरिति चेत् ; न; नीरूपस्य तदयोगात । न हि नीरूपं किञ्चित् कुतश्चिदुत्पत्तिमन्नाम, प्रागिव तदन्यापारे ऽपि तदविशेपात् । न च तेन भावो नष्टो नाम सर्वदा प्रसङ्गात् । यदैवासौ तदैव नष्ट इत्यपि न युक्तम् ; नीरूपे
१ अत एव करमात् श्राध, य०, प० । २ साध्याभाषे विरोधादेव | ३ विपक्षे विरोधस्य । ४भ्यायवि० श्लोक ३३८ । ५तकोत् । ६ सरवस्य । ७ प्रदीपे । ८-प्रबन-आ०, ब०, प० । ९ सदविशेशान च स्यादविशेषात्-आग, ब०, प० । १० सत्र दिः। ११ विनाशस्य । १२ विनाशः। १३ नीरूपत्वाविशेषात् ।