________________
२।१२४-२६ । २ अनुमानप्रस्ताव
१५३ अन्वयो 'भावाभावयोः परस्परमेकत्वं व्यतिरेको मेहस्ताभ्याम् अग्निस्तदुभयात्मक इति न प्रकृतो दोषः, एकान्ताभेद एव तस्य भावात् । अन्वयग्रहणेनापि "तयोर्व्यतिरेके दे वस्तुनी स्यातां नोभयात्मकत्वमेकस्य" [ ] इति प्रतिक्षिप्तम् ; एवमपि भावाभावयोरितरेतरनिष्कर्षणासम्भवात् कथं स्वरूपादेर्भावोऽभावश्च तद्विपर्ययादिति तथा व्यपदेश इति चेत् । अत्राह-शब्दबुद्ध्याऽवधार्यते इति । शब्दबुद्धिः नयनुद्धिः तयां स्वविषये शब्दस्य समर्पणात्तयाऽवधार्यते सत्त्वं ५ स्वरूपादेरसत्त्वमन्यत इति पृथक्कारेण निर्णीयते । निरूपितं चैतत् प्रथमप्रस्तावे।
___ यदप्यन्त्र चोद्यम्-"यदि भावान्तरमेवाभावस्तदा पर्युदासात् प्रसज्यप्रतिषेधस्थाविशेषः [ ] इति, तदप्येतेन प्रतिविहितम् ; नयबुद्धिवशादभावौदासीन्येन भावस्य । सदौदासीन्येन चाभावस्य प्राधान्यसमर्पणे पर्युवासप्रसज्ययोविशेषस्यविकल्पनात् । सन्नाभावेन व्यभिचारः तस्य प्रमाणतोऽनवगमात् । नयतोऽवगमेऽप्यप्रमेयत्वात्, अन्यथा प्रमाणनययोरविशेषापसेः । प्रमेय- १० खेऽपि भावरूपत्वात् । कुत एतत् ? ननु निरूपितमिदं यदि न तावता परितोषः पुनरपि वदामः । इत्याह
अप्रमेय प्रमेयं चेदसत्किन्न सदात्मकम् ॥ १२४ ॥ इति ।
यथैव हि अभावो भावमपेक्षते तत्मच्युतिरूपत्वात् तथा तत एव प्रमेयमपि अप्रमेयम् । तत्र यत्तदप्रमेयं तच्चेत् यदि प्रमेयं प्रमाणवेद्यम् असत् अविद्यमानं किं कस्माम सदात्मकम् । १५ सदात्मकमेव प्रतिषेधद्वयेन प्रकृतप्रतिपत्तेः । प्रयोगश्चात्र-यग्रस्मत्यनीक तत्तद्वर्गीय यथा अप्रमेयं प्रमेयवर्गीयम् , सत्पयनीकं च असदिति नात्यन्तायासतो भिन्नवर्गवं तस्य | अथ तत्प्रमेयं न भवति कथं तद्वयवहारः, सर्वप्रमाणन्यापारातिकान्ते तदयोगात् परिंगणनातिकान्तपदार्थवत् । ततः प्रकृत प्रमाणापरामर्श ऽपि प्रमाणान्तरपरामृष्टमेव तदभ्युपगन्तव्यम् । ततः प्रमेयमेवाप्रमेयं तथा सदेवासदपि | तस्यापि प्रकृतरूपेणासत्त्वेऽपि रूपान्तरेण सत एवोपपत्तेः । अथ सदेवासादिति व्यवहारो नास्ति, २० सदेवाह
अथ न व्यवहारोऽयम् इति । अत्रोत्तरमाइ
अन्यत्रापि निरहुशः । इति । अन्यत्र परपक्षे ऽपि प्रमेयमेवाप्रमेयमिति व्यवहारो नेति प्रसनो निरङ्कशो निवारकरहित २५ इत्यर्थः । लोकस्तत्राङ्कुश इति चेत्, न; अन्यत्रापि तुल्यत्वात् । ततः स्थितमन्यभिचारित्वं प्रमेयत्वस्य।
सम्प्रति सर्वत्र प्रमेयत्वस्य सद्भावमुपसंहत्य तस्य गमकत्वे निमित्तं दर्शयन्नाह
सत्प्रत्यक्षं परोक्षार्थगतिस्तत्रैकलक्षणम् ॥ १२५॥ साध्येऽप्तति विरोधः [ अयमतस्तर्केण साध्यते । ] इति ।