SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ विजित "गृहीत्वा वस्तुसद्भावं स्मृत्वा च प्रतियोगिनम् । मानसं नास्तिता ज्ञानं जायते ऽक्षानपेक्षया ॥" [मी० श्लो० अभाव० श्लो०२७] इति । तन्न अन्य वस्तुनि विज्ञानमभावप्रमाणं सम्भवति । सम्भवतोऽपि न भावनिष्कृष्टतय | तस्मादभावस्य प्रतिपत्तिः तदप्रतिवेदनात् । तदनिष्कृष्टतया तु प्रतिपत्ती सिद्धं भावस्यैवाभावत्वमिति ५ न तत्प्रमाणादपि तस्ये सिद्धिः । तथाऽनुमानादपीति न युक्तमेतत् -"अन्यत्सामान्यं सोऽनुमानस्य विषयः ।" [ न्यायवि० पृ० २४ २५ ] इति । नीरूपस्य सामान्यसम्बन्धाभावेन तद्विषयस्थायोगात् । न नीरूपं तैत् । वस्तुमानस्यैवान्यव्यावृत्तिविशिष्टस्य तत्त्वादिति चेत् क्रिमत्र मात्रपदस्य व्यवच्छेद्यम् ? सजातीयविबेक इति चेत् कथं सदवेदने वस्तुमवेदनम् : "तस्मादृष्टस्य भावस्य " [प्र० वा० ३ | ४४ ] इत्यादि विरोधात् । ततो दुर्याहृतमिदम्"अंतद्रूपसं वस्तुमात्रप्रवेदनात् । सामान्यविषयं पोक्तं लिङ्ग भेदाऽप्रतिष्ठिते ॥" [ कथं वा वस्तुरूपत्वे तस्योक्तम् “अर्थानां यच्च सामान्यमन्यव्यावृत्तिलक्षणम् | निष्ठास्त इमे शब्दारूपं तस्य न किञ्चन " [ प्र० वा० २।३० ] इति । शब्दविषयस्यैव तस्यें नीरूपत्वमुक्तं नानुमानविषयस्येति चेत् किं पुनस्तद्विषये न सन्ति शब्दाः तथा चेतः कथं तत्प्रतिपादनं यतः परार्थानुमानमिति दुष्परिहारमेवेदं परिस्खलितं परस्येति पर्याप्तमनुषङ्गेण । ततो न व्यभिचारी हेतुः, अभावस्यापि भावान्तरस्वरूपतया ऽनेकान्तात्मकत्वात् । यदि भागन्तरमेवाभावस्तत्र कथमसज्ज्ञानादिप्रवृत्तिरिति चेत् ? अत्राह १० १५ २० १५२ [ २१२३-२४ ] इति सदसज्ज्ञानशब्दाच केवलं तन्निबन्धनाः । इति । सद्भूतलम् असन् घट इति य एते बुद्धयः शब्दाश्च तेषामपि तदेव भावान्तरं निमित्तं तथैव प्रमाणमवृत्तेर्न व्यतिभित्री भावाभावी "विपर्ययात् । भावस्यैवाभावात्मकत्वे प्रसिद्वमुदाहरणमाहअग्निः स्वपररूपाभ्यां भावाभावात्मको यथा ।। १२३ ।। इति । 1 अग्निर्दहनात्मा पदार्थो भावाभावात्मको यथा येन प्रतीतिप्रकारेण तथान्योऽपीति । स तदात्मकः स्वपररूपाभ्यां रूपग्रहणमुपलक्षणं क्षेत्रादेरपि । ततः स्वरूपादिनी भावात्मकः पररूपा - ६५ दिना अभावात्मक इति प्रतिपत्तव्यः । भावस्यैवाभावत्वे स्वरूपादिनेव इतरेणापि तदात्मकत्वमेवेति भावैकान्तवादः । अमावस्यैवै वा भावत्वेऽपि शून्यैकान्तवादः पररूपादिने वेतरेणापि तदात्मकत्वस्यैव भावात् नोभयात्मकत्वमिति चेत्; अत्राह अन्वयव्यतिरेकाभ्यां [ शब्दबुद्धयाऽवधार्यते । ] इति । १ अभावस्य । २ सामान्यम । ३ आर चात्र श्रतद्रूप - प्र० वार्तिकाल ११२ । ४ सामान्यस्य । ५ " तथा प्रमाणाप्रवृत्तेः ।" - ता० दि० ६-ना च भा-आ०, ब०, प० । ७-च भा श्राप बन ダ
SR No.090313
Book TitleNyayavinishchay Vivaranam Part 2
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages521
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy