________________
न्यायविनिश्चयविवरण
२०१२१-०३ तस्मिन् भवतस्तदसम्भवात्, अन्यथा तमस्य अभाव एव स्यान्न मच्छादनम् , तच्च न युक्तम् , तदभावस्थ भावात्मकत्वे निःस्वभावाभावकरुपनाथैफल्योपनिषातात् । उपलब्धिपतिबन्धकरणादिति चेत् ; न; तत्समये तस्याप्युपलब्धियसनात् । न हि तदा तस्य तत्-तिबन्धः; पश्चादेव तेन तस्य तत्करणात् । तथा च कथमुपलभ्यमाने तदभावे तदभावस्तदुपलब्धिति सूक्तमेतत्-'किन्न' इत्यादि । तन्न प्रत्यक्षतः ५ प्रमेयत्वमभावस्य । नाप्यनुमानात् तस्यापि प्रतिबन्धसव्यपेक्षस्यैव प्रामाण्यात , अभाषे च प्रतिबन्धस्यासम्भवात् । तदेवाह
सत्प्रत्यक्ष परोक्षेऽर्थे साधन त्रिविध वयम् ॥१२१॥
हेस्वात्मनोः परं हेतुः तज्ज्ञानव्यवहारयोः । इति ।
अनुमान हि साधनात् साध्यविज्ञानम् । साधनं च परोक्षेऽर्थे एव नाऽनर्थे नीरूपा१० भावे । कुतः ! यतः सत्प्रत्यक्ष सति विद्यमाने प्रत्यक्ष रूपतिपत्नम् । इदमुक्तं भवति-यतो
निदर्शने सत्येव साध्ये तत्मतिपन्नं नासति नीरूपे, ततो धर्मिण्यपि तत्रैव तत, नाचरत्रातिपसात् । प्रतिषेधाच्च न तत्र तत् । तथाहि-त्रिविधं तत्, तत्र च द्वयं कार्यस्वभावलक्षण हेत्वात्मनोः कारणस्वभावयोः कार्य हेतोः स्वभावश्चात्मनः तदैव्यतिरिक्तस्य साधनम् । न चाभावः कस्यचिद्धेतुः;
अशक्तः, अन्यथा भावत्वासनः । नाप्यात्मा, तस्यापि तद्वन्नीरूपत्वापत्तेः । न च तदुत्पत्सितादाम्या१५ भ्यामपरः प्रतिबन्धो यतस्तत्रापि किञ्चित्साधनं भवेत् । परं चानुपलब्धिक्षणं साधने हेतुः । कयोः ! तज्ज्ञानव्यवहारयोः तत्रैवार्थ यी झानव्यवहारौ सदसम्ञानशब्दलक्षणी तयोः, नाभावे ।
कुत एतत् ! इत्यत्राह
परसवमसचाऽस्यादर्शनं परदर्शनम् ॥१२२॥ इति ।
यद्यभावोऽपि भावात्मैव न भवेत् भवेदपि तत्रैव ज्ञानादिरनुपलम्भात्', न चैवम् , यसः २० परसस्वमेवासत्ताऽस्य केवलभूतलस्यैव घटाघभावतया प्रत्यक्षतो ऽवगमात् नापरस्यानुपलम्मात् ।
तस्यैवायगम इति चेत्, क तस्य तेन सम्बन्धग्रहणम् ? तदन्यत्रेति चेत्, न; तत्रापि प्रत्यक्षतस्तस्यापतिपत्तेः। अनुपलम्भादेवेति चेत्, न, तत्रापि पुनरन्यत्र तहणकल्पनायामनवस्थापत्तेः । तन्न परसत्त्वादन्यदसत्त्वं निषेध्यस्य । नापि तद्दर्शनादन्यददर्शनम् अनुषलम्भः । दर्शननिवृत्तिमात्रमेव किन्न तदिति चेत् ? न; तस्य कचित् साधनस्वानुपपत्तेः, व्योमकुसुमवदप्रतिपत्तेश्च । तस्यापि तन्निवृत्तेरन्यतः प्रतिपत्तौ अनवस्थोपनिपाताद, असम्बन्धाच्च । न हि तस्य साध्येन भावात्मनेतरेण वा कथश्चिदपि सम्बन्ध, तस्य वस्तुनियततयैवाध्यवसायात् । असम्बद्धाच्च ततस्तत्प्रतिपत्तिः प्रमाणान्तरमेव स्यान्नानुमान तलक्षणातिपातात् ।
एवमेतत्, अभावममाणतया तस्योपगमादिति कश्चिद्विपश्चिन्मयः सोऽपि प्रष्टव्यः
१-स्य भा-आ०, ब०, ५०।२ प्रतिपद्य-आ०, २०, ५० ३ तदन्यतिरेकस्य-आ०, ब०, प०।४"अनुपलब्धिलक्षणात् साधनाता'- साटि०। ५ "निषेध्यत्य"-ता०टिक। ६ सम्बन्धस्य । ७ मीमांसकः ।
२५