________________
२।१२०-२१ ]
२ अनुमानप्रस्तावः
१४९
सत्येव प्रमेयत्वस्य नियमानासति । कस्मात् ? तत्र तस्मिन्नीरूपाभावे वृत्तेः प्रमाणव्यापारस्य निषेघतो निवारणात्। सोऽपि कस्मात् फलाभावात् सकलशक्तिविरहिणि तस्मिन् कस्यचिद्रषि फलस्याभावात् । मा भूत् फलं तथापि कुतो न तत्र तत्प्रवृत्तिः ? हि प्रमाणस्यैवं प्रेक्षावत्त्वमस्ति फलवत्येव मया प्रवर्तितव्यं नापरत्रेति । पुरुषस्यास्तीति चेत ; न; तस्य तत्प्रवृत्तिनिषेधार्थस्यात् । सोषि तदधीनैवेति चेत्; न तस्याः स्वहेत्वधीनत्वात् । अन्यथा भावेऽपि अभिमते तदभावादिति चेत् ५ कस्तर्हि तत्र तत्प्रवृत्तेर्हेतुः ? शक्तिर्विषयस्येति चेतुः नः अभावस्य तदभावात् । इदमेव तर्हि वक्तव्यम् किं 'फलाभावात्' इति ? न; तेनाप्यस्यैवोपलक्षणत्वात् । पुरुषमवृत्तिनिषेधार्थत्वाच सफलेऽपि प्रवृ स्तदभावादेवं तदुपपत्तेः प्रमाणस्यैवेति चेत्; न; वक्ष्यमाणोचरत्वात् । ततः स्थितम् - अप्रवृत्तेरित्यादि । किं वा प्रमाणं यतः प्रमेयत्वमभावस्य : प्रत्यक्षमिति चेत् अत्राह
प्रमाणमर्थसम्बन्धात् प्रमेयमसदित्यपि ॥ १२० ॥
केवलं ध्यान्यमेतत् [ किन सन्तं समीक्षते ] | इति ।
अर्थेन विषयेण सम्बन्धात् तज्जन्मादेः प्रमाणं प्रत्यक्षमिति गम्यते, अनुमानस्य वक्ष्यभाणखात् । ननु तदप्यविसंवादादेव प्रमाणमिति चेत्; न; तस्यापि सम्बन्धादेव भावात् "अविसंवादः तस्मादात्मलाभात्" ] इति वचनात् । तस्य च प्रत्यक्षस्य प्रमेयम् असदपि अविद्यमानमपि मागभावादि न केवलं विद्यमानमेव, अपिशब्दस्य मित्रप्रक्रमत्वेनादित्यत्र १५ दर्शनम् | इति एवम् ध्यान्ध्यमेव चेतोविदलतेव केवल न तत्त्वचिन्तनम् । एतत्परमतम् । तथा हि-यदि सम्बन्धात्प्रमाणं कथमसति तद्भवेत् । न हि तस्य तस्मादुत्पत्तिः, अशक्तेः, अन्यथा वस्तुत्वापति: वस्तुनस्तल्लक्षणत्वात् । नापि तादात्म्यम् प्रमाणस्यापि तद्वनीरूपत्वप्रसङ्गात् । तस्यापि परतत स्वभावात् प्रतिपत्तावनवस्थितेः । न तादाम्यादेस्तस्य तद्विषयत्वमपि तु योग्यत्वादिति चेतुः नः तस्य तदभावात् । प्रमाणस्येति चेतु अत्राह 'किं न सन्तं समीक्षते इति । सन्त वर्तमानविषयं २० किं कस्मात् न समीक्षते समीक्षत एव प्रत्यक्षं योग्यत्वस्य तत्राप्यविशेषात्, अतिप्रसङ्गस्येतरत्रेव तत्रापि सन्नियामादेव निवृत्तेः । ततो नयुक्तम्- "भिन्नकालम् " [ प्र० वा० २२२४७ ] इत्यादिना अतीतस्य तद्धेतोर्विषयत्ववर्णनमिति भावः । अथवा नेति नन्वित्यर्थे न्यासे बहुलं तथा दर्शनात् । ततोऽयमर्थ:किं नैव न ननु सन्तं समीक्षते प्रमाणमिति । तथा हि-कथं नाम प्रमाणमभावगोचरं भावे स्यात् भावगोचरं भावान्तरे कथमिति चेत् १ तस्य सम्भवात् । तत्रापि तस्य योग्यत्यात् नैवमत्र, अमात्रे २५ सति भावस्यैवासम्भवात् । तदुपमर्दने सम्भव इति चेतुः नः उपमर्दनस्य सत्येव दर्शनात् पिण्डादी नासति व्योमकुसुमादिवत् । तथा प्रच्छादनस्यापि । किं च तस्य प्रच्छादनं यदि कार्यस्य स्वरूपमेव तत्कथमसाच्छादनं भवेत : सदेव तत् प्रच्छादनादिति चेत् न परस्पराश्रयात् तत्प्रच्छादनात् सत् ततश्च तत्प्रच्छादनमिति । कुतो वा ततस्य प्रच्छादनम् तत्परिहारात्मकत्वादिति चेत्; न; सातें
१ "प्रमाणप्रवृत्तिः " - ता० टि० २ फलाभावादेव निषेधोपपत्तेः । ३-दिति न आ०, ब०, १० । ४ भान्ध्यन्ता० । ५- नः सह -०६ "ताप्यम्"-ताव दिय