SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ न्यायधिनिश्चयषिधरणे [२११६ स्यात् । स्थापकस्यैव ततो नाश. इति चेत्, न पटविनाशेऽपि तन्तूनां प्रतीतेः । तत्सामर्थ्यस्य नाश इति चेत् ; न; तस्य तदव्यतिरेकात् । व्यतिरेके या कथं तेषामेव न सर्वस्यापि ? तत्रैव स्थितेरिति चेत् ; म तहिं तस्य विनाशः तैरवस्थापनात् । तस्थापनसामर्थ्यमपि तेषां नाश्यत इति चेत्, न तस्य तदन्यतिरेकादित्यादेरनुषजात अव्यवस्थापत्तेश्च । तन्न तत्रैव स्थिते(तिस्तेषाम् | ५ तत्सहायत्वादिति चेत् : न; स्वतः सान तरयोस्तदपाकरणात् ! सहायस्यापि तदवस्थापकसहायविनाशद्वारेण विनाशकल्पनायामपरावस्थानप्रसनाच्च । तन्त्र स्थापकसामर्थ्यनाशनेने स्थाप्यनाशनमुपपन्नम् । ततो न भागानां भागवदवस्थापन प्रयोजनम् ; सत्सु तेषु तदविनाशापत्तेः । नापि तदुषलम्भनम्। अनुपलब्धानां परभागादिवत्तदसम्भवात, इन्द्रियसन्निकर्षस्थापि तत्र दुरवबोधत्वात् । नाप्युपलब्धानाम् ; अष्टाणुकादेः तदवयबोपलम्भाभावेनानुपलब्ध्या पररापरतदवयविनामुपलम्भस्यैवा१० सम्भवात् । सतो न युक्तमेतत्-"महत्यनेकद्रव्यत्वात रूपाचोपलब्धि." [ वैशे० सू० ४।१।६ ] इति । ततः सूक्तम्-'आनर्थक्यात' इत्यादि । अथवा, अतादात्म्यमन्योऽन्यभेदः स एव स्वभावः तस्मिन् वेति पूर्वत्रात्र च पंक्षान्तरद्योतने । हीति स्फुटार्थे । परैः परमाणुभिरलम् आनर्थक्यात् । तथाहि-तेषां यद्यातपाचारणादिक फलम् ; अविशेषेण स्यात् । संसगिंणामेवेति चेत्; न; संसर्गस्यैव संहतित्वात् । अन्यैव ततः संहतिः "विनापि परमाणूनां संसर्गात् संहतिः परा । आघातेऽपि पृथग्भावे यस्या नैव समस्ति सा |" [प्र. वार्तिकाल० १९१ ] इत्यसकारवचनादिति चेत; सा तर्हि का परा स्यात् अन्यत्र कथञ्चित्तेषामभेदात्, तत्रैव घनकाकारप्रत्ययोपलब्धेः । तदभावेऽपि तत्प्रत्ययो दृश्यते विरलकेशेषु, ततस्तदमेदात् अन्यैव संहतिस्तत्रेदै परमाणुष्पपीति चेत्; मा नाम भूतत्र तदभेदो बाधकसद्भावात्, न परत्र "विपर्ययात् , २० अस्मदादिप्रत्यक्षस्य स्वयमेव सत्प्रत्ययत्वेन तदबायकत्वात्, तस्यापि योगिपत्यक्षं बाधकम् “अत्राप्य सीन्द्रियदर्शियोगिप्रत्ययो भवति बाधक [प्र० कार्तिकाल० १।९१ ] इत्यलङ्कारवायादिति चेत्, यदि योगी न स्यात् का गतिः । अयाध एव तस्येति चेत्; सिद्धो नः सिद्धान्तः । सन्देह इति चेत् न तर्हि परमाणुष्वपि निर्णय इति सुस्थितं तत्र संहतिवशात् आतयावारणादिपरिकल्यनम् | विधत एव योगीति चेत्; न, “यदि योगी भवेत्र" [प्र. वार्तिकाल । १।९१ ] इति स्वयमेव तत्र सन्देहवचनात् । सत्यपि योगिनि कयं सत्मत्ययेन तम्य बाधः । तेन सहतिविकलानामेव तेषां दर्शनादिति चेत्, कयं तस्य शरीर तत्संहतेरेव तत्त्वात्, अशरीरस्य च नोपदेश इति व्यर्थं तदन्वेषणम् । तन्न तेन तस्य बाधनम् । 'विवादापना संह तमिथ्या तत्त्वात् दूर केशवत्' इत्यनुमानेन बाध इति चेत्, न; "विद्यादाकलितं नीलादि मिथ्या तत्त्वात्तैमरिकनीलादिवत्' इत्यनेन १ नाशेन आगब०प०।२ अषयवेषु । ३ "श्रय सौयतमतदृषणपरत्वेन कारिका योजयति ।" -ता०टिल। ४ स्याद्वादिपक्षादन्यः पक्षः पक्षान्तरम्, तस्य धोतने |"-ता- टि। ५ तत्रैव आर, ब०, ५०१ ६ नापरत्र आ०,०,401 ७ “बाधकाभावात्"-ता. टि। ८ योगिनः ।
SR No.090313
Book TitleNyayavinishchay Vivaranam Part 2
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages521
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy