________________
२।११६-१८]
२ अनुमानप्रस्तायः नीलादेरपि तदापत्तेः, ततः परमाणयोऽपि न स्युः । नीलातिव्यतिरेकेण तवभावादिति कथं तदेकान्तेऽपि निर्बन्धः ? तन्नानुमानादपि तयाधनं यतस्तदन्यैव संहतिः । अन्यापि यदि तेषां साधारणी; न स्कन्धविलोपः । प्रत्यणु मिन्नायास्तु न संहतिव्यपदेश इति न तद्वशादणूनां ब्रीहिधारणादावुपयोगः । स्वशक्तित इति चेत्, न प्रत्येकं तत्प्रसङ्गात् , .संहतो हेतुता तेषाम्" [ म. वार्तिकाल० ] इत्यस्य विरोधाच्च । तस्मादुपपन्नमुकम्-'अलं परैः' इति । ततोऽवश्यवक्तव्यः स्कन्धः सत्यय ५ तदुपयोगात् । स च रूपादीनामन्योऽन्याभेद एव नापर इत्याह
स्पर्शोऽयं चाक्षुषत्वामन रूप स्पर्शनग्रहात् ॥ ११६ ॥ इति ।
च शब्दो वक्ष्यमाणः स्पर्श इत्यादायवधारणाओं द्रष्टव्यः । अयमुपलभ्यमानो मातुलुङ्गादिस्कन्धः स्पर्श एव न । कस्मात् ! चाक्षुषत्वात् । न हि तन्मात्रस्वे चक्षुर्वेधन्वम् । नापि रूपमेव । कुतः ! स्पर्श नग्रहात स्पर्शनेनापि प्रतिपत्तेः । न च तन्मात्रस्य तेन ग्रहः सम्भवति । अस्ति च तस्य नयन- १८ स्पर्शनाभ्यां प्रतिपत्तिः । अतो रूपस्पर्शस्वभावत्यैव प्रत्यक्षविषयत्वमिति भावः । रूपादेर्भिश्न एव करमान्न भवतीति चेत् ! अत्राह
रूपादोनि निरस्यान्यं न चाभ्युपलभेमहि । इति । स्वपव्याख्यातमेतत् । एतदेव कामादिति चेत् ! अगह
सामग्रीविहिनशानदर्शिताकारभेदिनः ॥ ११७॥ प्रायेणेकस्य ताप्यं [पृथक्सिद्धौ प्रसङ्गता ] || इति ।
एकस्य रूपाद्यन्वयिनः स्कन्धस्य । कथमेकस्य ? प्रायेण कश्चित् ताप्यं रूपाधात्मफत्वम् 'उपलभेमहिः इत्याकृष्य सम्बन्धः । ततो 'रूपादीनि' इत्युपपन्नम् । कीदृशस्य सस्य ताप्यम् ! सामग्रोविहितज्ञानं चक्षुरादिव्यापारोपजनितं प्रत्यक्षं तद्दर्शिता रूपादय आकारास्त दिनः प्रायेणेत्यत्रापि योज्यम् । पृथगेव कस्मान्नेति चेत् ! आइ-पृथक्सिद्धी प्रसङ्गतः २०: इति । पृथक्सिद्धो निष्पत्तौ तस्य प्रसङ्गतः प्रागुक्तदोषस्येति ।
नन्वेवमेकस्मिन्नपि इन्द्रिये तस्य तथैव प्रतिभासात् इन्द्रियान्तरमनर्थकमिति चेत् । अत्राह
अल्पभूयःप्रदेशकरकन्धभेदोपलम्भवत् ।। ११८ ।। इति ।
अल्पश्च भूयांश्च तौ च तौ यातायनादिरूपी प्रदेशौ च ताभ्याम् एकस्कन्धस्य पर्वतादेः भेदेनाल्पत्वबहुत्वादिना उपलम्भः तद्वत स्कन्धस्य ताप्यम् , उपलभेमहीत्यनुगमनीयम् । एतदुक्तं २५ भवति–प्रथा सुघागृहमध्यवर्ती पुरुषः पर्वतादिकमल्पेन वातायनादिनाऽल्पमेव पश्यति भवसा च भूयासम् , एवमयमपि शरीरागारमध्यमध्यासीनो जीवश्चक्षुरादिनकैकेन रूपाचन्यतमात्मकमल्यमेव समवलोकयति भूयसा च तत्समुदायेन भूयांसं रूपस्पर्शायात्मकमिति न. वैफल्यं वदन्तरस्येति । निदर्शनानन्तरमपि परप्रसिद्धमाह
१ तद्भाषन
आग, ब,40१२ इत्यवधारणा-
अ
ब
प..