________________
२।१५५-११६ ]
२ अनुमानप्रस्तावः अन्यथा स्वयमभिमतस्य निर्णयेतरादिरूपतया चित्रस्य चैत्तस्य विकल्पस्य रूपरसादिविषयतया विचित्राभस्य च दृष्टस्य कक्कटीभक्षणकालभाविको दर्शनस्य भङ्गप्रसङ्गतः, तदोषस्य तत्रापि प्रवेशात् । ततः किम् ? इत्याह
स्कन्धो मात्रानुरोधेन व्यवहारेऽवधार्यते । इति । स्कन्धोऽवधार्यते निश्चीयते । केनात्मना ? मात्रानुरोधेन मात्राणां सद्भागानामनुरोधः ५ कथञ्चित्परस्पराविष्वभावः तेन न तत्समवेतेन रूपान्तरेण, ततो निश्चयनिराकृतं तरकल्पनमिति भावः । किन्निमित्तं तदवधारणम् ! व्यवहारे। व्यवहारनिमित्तम् । ततोऽन्यत्र तत्फल्पनमपि प्रतिक्षिप्तमिति मन्यते । कुतः पुनरन्यो ऽन्यात्मगमनेनैव तस्यायधारणं न रूपान्तरेणेति चेत् १ अत्राह
सल्यादिसमभावेऽपि सत्य नावतिः ॥११५।। इति ।
सङ्ख्यानं सङ्ख्या तश्च गोचरविषयं न स्वरूपगोचरं तत्र भेदस्य भावात् । आदि- १० शब्दापादिकम् , तस्य समभावो भागेश्यस्तत्त्वतो भेदः तस्मिन् सत्यपि तत्स्वभावस्य स्कन्धस्वरूपस्य विवेकतो विनिश्चयात् तेनैव सोऽवघार्यत इति । रूपान्तरेण तदबधारणे तत्साम्यानुपपत्तेः । निरूषितं चैतत्---"तुलितद्रव्यसंयोगे" इत्यादिना ।
तथापि तमनभ्युपगच्छतो दूषणमाह
अतादात्म्यस्वभावे वा वानर्थक्यादलं परैः । इति ।
अतादात्म्यम् अमात्ररूपरवं सर्यथा तद्व्यतिरेकात् स्वभावो यस्य तस्मिन् या स्कन्धे परैस्तद्भागैरलं पर्याप्तम् । कस्मात् ? आनर्थवयात् आफल्यात्, एतच जलयहरणनीहिधारणावे: फलस्य स्कन्धादेव भावात् । ततोऽपि तत्सहायावेव तत् न केवलादिति चेत्, न केवलायैव सामध्ये तदनपेक्षणात् । असामर्थ्य न तत्सहायादपि व्योमकुसुमादेरपि तत्प्रसङ्गात् । तत एव सामर्थ्य तस्येति चेत्, न; व्यतिरेके तस्येत्ययोगात् । अव्यतिरेके तत इत्यनुपपः । कथञ्चिवयतिरेके २० या स्कन्धः परिणामी स्यात्- असमर्थरूपपरित्यागेन समरूपोपादानात् । तथा च क्रमवद्युगपदापि नानात्मकत्वोपपत्तेः नैकान्तमवयवव्यतिरेकः तस्य । स्वतः समर्थस्य सहायापेक्षणं बहुकृत्वोऽपि प्रतिक्षिप्तम् । न च पश्चान्तरेऽप्ययं दोषः, सहकारीतरकारणकलापस्य परस्परा ऽपादितातिशयस्यैव कार्ये व्यापारात् । वक्ष्यति चैतत्-"अर्थस्यानेकरूपस्य ईत्यादिना । तन्न जलाधाहरणं तेषां फलम् । तताधारतया स्कन्धस्य स्थापनमिति चेत्, ननु स्थितिकरणं स्थापनम् , स्थितिस्वभावस्य च किं तत्करणेन स्वयमेव स्थितेः १ २५ अतत्स्वभावस्याप्यवश्यम्भाविनिपातत्वात् । तत्स्वभावतया तत्करणमिति चेत् न, तदन्यस्वभावापरित्यागेन तदयोगात् । तत्परित्यागे परिणामवादप्रसङ्गात् । यदि च तस्य तैः स्थापनं कथं विनाशः ? ततोरिति चेत् ; कुत एतत् । तत्र तस्य सामर्थ्यात् , स्थापकसामर्थ्यात् स्थितिरपि
१ तेन तत्स-श्रा०, ब०, प० । २ भेदस्वभा-प्रा०,०प० । ३ न्यायवि० श्लो० १४१०९ । ४ अवयवान्दिन्नत्वम् | ५न पक्षा-ता०।६ न्यायवि० श्लोब २६९।