________________
१४४ न्यायविनिश्चयषिषरणे
[२२११६-११७ स्कन्धस्यावयविनो न सम्भवः । कस्मिन् सति ? श्लेषविश्लेषे सङ्घातविघटने । केषाम् ! अणूनाम् । न हि तेषां तविश्लेषे स्कन्धोऽतिमसङ्गात् । तदविश्लेषे तत्सम्भव इति चेत; उच्यते अन्यथा तदविश्लेषप्रकारेण प्रदेशरहितत्वम् अप्रदेशो भावप्रधानत्वात् निर्देशस्य, तदादिर्यस्य पिण्डाणुमात्रत्वादेः तद् अप्रदेशादि न स्मात् । सप्रदेशाधष स्यात् । कथम् ! सर्वथा सर्वप्रकारेण । ५ तथा हि-यद्य कदेशेन तेषां संश्लेषः; सांशवम् । कारस्येन चेत्; पिण्डस्याणुमात्रत्वम् । अन्तर
संश्लेषसम्बन्धात् तेषु तत्सम्भव इति चेत्, सर्वेषु तत्प्रसङ्गस्तदविशेषात्, तथा घ जगदेकस्कन्धं माप्नुयात् | इति एवम् अपरैः सौगतैः द वूषणमिति शेषः । तत् किम् ? 'उत्तरम्' इति । स्कन्धवादमित्युत्तरम् । नेति सम्बन्धः । तथा हि-इदमपि दूषणं शब्दात्मकं तदुत्थायज्ञानात्मकं वा यदि स्कन्धरूपम् ;
कथं तद्धादमतिक्रमेत् ! तद्वदेव स्कन्धान्तरस्यापि कथविदवस्थितेः । ने खात्मानं तद्वपमनतिकमदेव १. तादृशमपरमतिक्रमितुमर्हति । निरंशैकाणुरूपं चेत्, न; शब्दस्य तादृशस्य अवाचकत्यात, अशक्य
समयत्वात् । वौच्यस्ववत् तदेव कल्पितम्कन्धरूपतया वाचकमिति चेत्; न, कल्पितस्य नित्यादिवत् अर्थकियानुपयोगात्, शानं च तदुत्पन्न कथन्नाम अणूनां षडंशत्वादिकं प्रतिपद्येत ! निरसैकस्वभावस्यानेकाकारगोचरत्वासम्भवात् । कल्पनया सांशस्य तत्सम्भव इति चेत्, न; कल्पितदूषणेन वस्तुतः
प्रतिक्षेपायोमात् । ततः तात्त्विकमेव शब्दस्य तजनितज्ञानस्य च स्कन्धात्मकत्वमभ्युपगन्तव्यमिति कुतः १५ स्कन्धवादस्योत्तरणम् ? कथं तर्हि स्कन्धस्तेषां श्लेषाभावे अतिप्रसङ्गादिति चेत्, न; तदर्शनादेव
श्लेषस्यापि तदनुगुणत्यावकल्पनात् । स च नरन्तर्यमेव संसर्गविकल्पादेः तत्रानक्तारात् । अन्यथा अणुयादेऽपि न ततो निर्मुक्तिरणूनां येन केनचिन्निरन्तराणामेव सम्भवात् । ततो निर्दोषत्वात् स एव तदनुगुणः श्लेष इति कथं तदभावः । इदमेवाह---
नैन्तय निरंशानां स्वभावानतिरेचनम् । इति । २० निरंशानामणूनां तेष्वेव "नाणो" [त० सू० ५।११ ] इति प्रदेशमतिषेधात् नरन्तर्य
व्यवधानपैकश्यम् । तत्किम् अतिरेचयति षडशत्वाद्यापासने नाधिकं करोति पिण्डाणुत्यापादेन वा । अतीव रेचयति इत्यतिरेचन स्वभावस्य नातिरेचनं स्वभावानतिरेचनम् । अतः स एव तेषां तदनुगुणः लेष इति भावः । ननु यदि स्कन्धात्तदवयवानां तेभ्यो वा स्कन्धस्यामेव एकान्ततः, एक एव मानव
वा स इति कथमेकानेकात्मकत्वमस्य ! इत्यत्राह२५ चित्रचत्तविचित्रामाष्टमङ्गप्रसङ्गतः ॥११६॥
स नैकः सर्वथा श्लेषात् नानको भेदरूपतः । इति । __सः स्कन्धः नैको नाप्यनेकः । कथम् ! सर्वथा । कुतः श्लेषात्, ततो भागानां तेभ्यश्च तस्य श्लेषस्याभेदस्य भावात् । सर्वथेति योज्यमत्रापि । अश्लेषोऽपि मेदरूपतः कथञ्चिदववयतद्वतां भेदस्य भावात् । अनवस्थादिना एवंविधोऽप्ययं दुष्यतीति चेत् ; ; तस्य बहुकृत्वः प्रतिक्षेपात् ।
ने स्वात्मानं आ०, बप० ।२वाच्यवत् आ०,०, प० ।