________________
न्यायधिनिश्चयविवरणे
||१०-११० प्रकारान्तरादिति । तत्र संश्लेषोऽनेकस्य विश्लेषपरिणामावर्थस्येति प्रतिवसन्यम् । दृश्यते हि तद्विश्लेषादपि स्कन्धो घटभेदजन्मनः कपालस्कन्धस्य प्रतीतेः । घटकालेऽपि तस्कन्धो विधत एवेति चेत्, सत्यम् ; तदा तदात्मनो भावो न केवलस्य, तस्य तु तत एवोत्पत्तिः तथा दर्शनात, अन्यथा
न फस्यचिदपि कुतश्चिदुत्पत्तिः । एवमपि किं विश्लेषग्रहणेन परिणामत इत्येव गतस्वात्, कपालस्कन्ध५ स्यापि प्राक्तनतदक्यव्यभिन्नाकारपरिहारेण तद्भिन्नाकारस्योत्येत्तेरिति चेत् ; न; "विश्लेषस्यापि तविशेष
त्वात् , किमर्थं तर्हि पृथग्वचनमिति चेत् ? मुद्गरादिसन्निपातात् केवलं नाश एच घटस्य कपालस्कन्धस्तु प्रागपि विद्यते इति मतन्युदासार्थम् । तत्परिणामातु तदुत्पत्तिरनिहितैव । अनेकसंश्लेपात्तु तद्वचनं दृष्टान्तार्थम् , परस्यापि प्रसिद्धत्वात् । तत्रायं प्रयोगः-यत् यतो दृश्यते तत्तत एवोत्पत्तिमत,
यथा अनेकसंश्लेषाद् दृश्यमानस्तत एव स्कन्धः, दृश्यते चार्थविश्लेषपरिणामाभ्यामपि कपालशिव१० कादिस्कन्ध इति ।
सच स्कन्धः सप्रदशः स्वतः कश्चिदभिलासका सहशब्दस्थामेक्वाचिस्यात् , अत एव अंशी न भिन्न वियवसमवयात् , तस्य निराकरणात् । न चात्र विप्रतिपतिः प्रामाणिकस्य साक्षादेष निरीक्षणात् । अत एवोक्तम्- 'बहिः साक्षात्कृतो जनैः' इति ।
इदानीं तत्साक्षात्करणेनैव विषक्षाभ्युपगमं प्रतिक्षिपन्नाह ---
नानाकारैकाविज्ञानं स्वाधारे बदरादिवत् ॥१०॥ तादात्म्येन [ पृथग्भावे सति वृत्तिर्षिकरुप्यते।] । इति ।
आकारो भागः ततो भागाद् भिन्नम् अनाकारमेकमक्यविद्रव्यं तस्य विज्ञानं स्वबुद्धया कल्पनम् । क तत् ! स्वाधारे अवयवकलापे । किंवत् ! बदरादेखि तद्वत् । यथा बदरादेः स्वाधारे
विज्ञानं कुपडे बदरादिरिति तथा अवयविनोऽपि कपालेषु घट इति यद्विशान परस्य तत् न । केन ! २० तादात्म्येन । तादात्म्यमवयवतद्वतोः कथञ्चिदमेदः तज्ज्ञानमिद तादात्म्य विषयशब्देन विषयिणोऽभि
धानात् । तेन नहि तत्रामेनदर्शने भेदकल्पनमुपपन्नम्, सर्वत्र दृष्टविपर्ययकल्पनापत्तेः । मेदेदूषणान्तरमप्याह-'पृथग्भावे सति वृत्तिर्विकल्प्यते' इति । अवयवतद्वतोरेकान्ततः पृथग्भावे हि वृत्तिर्भागेषु तद्वतः सम्बन्धो विकल्प्यते- 'किमेकदेशेन सर्वात्मना वा' इति । तत्र च दोषो
भवति अनवस्थानादिति मन्यते । नास्ति तत्र तद्विकल्पः तस्य भेदनिष्ठत्वात् अवयविनश्च निर्भेदत्वात् १ सतो न देशतो नापि काय॑तस्तस्य तत्र वृत्तिरपि तु स्वरूपेणैव तथा दर्शनादिति चेत्, भवेदेवेदं 'यदि तथादर्शनं लभ्येत । न चैवम् , कथश्चितदभेदस्यैवोपलम्भात् । तदेवाह
वर्शनादर्शने स्याता समदेशाप्रदेशयोः ॥११॥ इति । संप्रदेशो जैनस्यावयवी योगस्य अप्रदेशः तयोर्यथाक्रम दर्शनमदर्शनं च स्याताम् ।
१ "पटात्मनः' -ता० टि० । २ -स्पत्तिरिति श्रा०, ब०, प० । ३ संदले- था,4०, ५० । ४षात-पा०, ब०, ५० | ५ "स्वतः कश्चिदभिन्नावयवः" तारि "प्रदेशेभ्योऽवयवेम्यो भिनः श्रप्रदेशः ता.दि०।