________________
२१०७ ]
२ अनुमानप्रस्तावः
१३७
संशयादेरेव असम्भवात् । कुतश्च तत्रापि सद् बाध्येत तदन्यतः संशयादेरिति चेत् नः तत्रापि तदन्यतः तद्बाधने अनवस्थापत्तेः । न बाध्यत एव तत्र तंत् । संशय धनुपकान्तस्येव तत्र तस्य निर्णयादिति चेत् अनुकुलमाचरसि परत्रापि तादृशस्यैव प्रतिपत्तेः । पुनरपि तदनभ्युपगमे
दूषणमाह-
साङ्कर्य व्यवहाराणां सन्निवेश विशेषतः ॥ १०६॥ नाक परिणामोऽयं यदि न व्यवतिष्ठते । इति ।
न व्यवहाराणां प्रवृत्त्यादिरूपाणां साङ्कर्यम् इष्टे प्रवृत्त्यादिवत् इतरस्य अनिष्टेऽपि निवृत्त्यादिवत् तद्विपर्ययस्य भावः स्यात्' इत्युपस्कारेः । कदा ! नानैकपरिणामोऽयं प्रतीयमानो यदि न व्यवतिष्ठते तद्व्यवस्थितौ न स्यादिति भावः । तथा हि-सदनवस्थितौ फैस्य प्रवृत्तिः ? चिचक्षणस्येति चेत्; न; पूर्वापरीभावप्रसङ्गात् प्रवृत्तेस्तद्रूपत्वात् । तत्सन्तानस्येति चेत्; न; वस्तुत- १० स्तस्यासत्त्वात् । कल्पनया सन्नेव स इति चेत्; न; तस्यापि वन्ध्यासुतवत् तदसम्भवात् । सापि कल्पनयैवेति चेत् अप्रवृतिरपि तथैव स्यात् । प्रवृत्तिमेव कल्पयति लोक इति चेत्; तेंदनुसरणेन नानैकपरिणामस्यैव सिद्धिः स्यात् " भूतग्रामः स एवायं भूत्वा भूत्वा निवर्तते ।" [ इति तन्मतप्रसिद्धः ।
]
I
I
कि, कल्पन सन्तानस्य हेतुफलभावादेव सादृश्योपाधिकात् । तत्र चोक्तं सुगतेत्तर- १५ ज्ञानयोरपि तत्करुवनमिति । सुगतवत् इतरस्याप्रवृतिरितरवच्च सुगतस्य प्रवृत्तिरिति सुव्यक्तं तत्साङ्कर्यम् । क वा प्रवृतिः १ द्रव्यादाविति चेत्; न; तस्य निरंशाणुरूपस्याप्रतिपत्तेः । तद्णुन्यूहरूप इति चेत्; न; तस्य वस्तुवृत्तेनासत्त्यात । कल्पनया सत्त्वमिति चेत्। न तत इष्टसिद्धेरसम्भवात् । सम्भवे सहान्तरादपि करमाभिधानात् तत्प्रसङ्गः । तथा च---
कल्पनासत इष्टं चेत् तद्विशेषनिराकृतेः ।
चोदितो दधि खादेति किमुष्ट्र नाभिधावति ॥ १४६५॥ विशेष: कल्पना तश्च दविशेषस्ततो न किम् ? मवृत्तीतरसाङ्कर्यं यतो न स्याद् द्वयोरपि ॥ १४६६|| विशेष एव तत्रास्ति यदि लोकविया तदा ।
नानैकरूपं तत्त्वं स्यात्तन्मत्येति निवेदितम् ॥ १४६७॥
तथा, योगादेरपि तत्सार्यं दधनि दधित्ववत् करभत्वस्य करमेऽपि करभत्ववत् वधित्वस्य तद्धेतोः समवायेन भावात् । नहि नियामकस्याविशेषे नियमः, नियाम्यस्य तस्यातनिबन्धनत्वप्रसङ्गादिति सूक्तम्– 'साङ्कर्यं व्यवहाराणाम्' इति । नानैकपरिणामे ऽपि कुतो न सार्ये दध्नः स्वपर्याथैरिव
१ ' अनेकान्तरूपम्" -ता० टि० । २ “अध्याहारः सम्प्रयु पात् कृञः सभूषसमवाये, [शाकटा० ४।२।२११] उपाद्विकारमतियत्नवाक्याध्याहारे [ ४।२।२१२] बहू" चा० दि० । ३ तस्य आ०, ब०, प० । ४ तदनुसारणेन आ, ब०, प० । तदनुसारेणैव । ५ प्र०... टि०.. । ६ "दध्युषयोः " सा० टि० ।
१८
२०
२५