________________
१३४ न्यायविनिश्चयविवरणे
[२।१०४ यवसंयोगविनाशात् पूर्वद्रव्यविनाश अवस्थितसंयोगेभ्यः अवयवेभ्यः द्रव्यान्तरमुत्पद्यते ।" [ ] इति ? कुतश्च तेषां विनाशः ? विभागादेव कर्मजादिति चेत; न; निष्क्रियेषु तस्याभावात् । सक्रियेषु सम्भवतोऽपि तसंयोगस्यैव नाशात्, तत एव तदन्त
राणामपि विनाशे परमाणुपर्यन्तस्तत्प्रसङ्ग इति न घटविनाशे कपालान्यप्युपलभ्येरन् । अविनाशे ५ कथं कार्यविनाशः सति हेतो तदनुपपत्तेः ? एकस्य तस्य विनाशादिति चेत् ; आश्चर्यमेतदेकस्य विनाशात् तस्य विनाशो न बहूनाम् अवस्थानादवस्थितिरिति ? अवस्थितौ कथं विनाश इति चेत् ? विनाशेऽवस्थितिरपि कथम् १ मा भूदिति चेत्, विनाश एव मा भूत् । दृश्यत इति चेत्; अवस्थितिरपि दृश्यत एव से एवाय देवदत्तश्छिन्नाङ्गुलिरपि' इति लोकस्य प्रतीतेः ।
पूर्वद्रव्यविनाशे द्रव्यान्तरस्याशु प्रादुर्भावन भेदानवधारणात् भ्रान्तैवेयमेकत्व प्रतिपत्तिरिति १० चेत् ; स्थूलघटालिप्रतिपत्तिरपि तथा किन्न भवति ! परमाणुष्वेव कुतश्चित् प्रत्यासत्तेः
तदुत्पत्तिरिति कैश्चित् परिकल्पनात् । बाधकामावान्नेति चेत् ; न; इतरत्रापि तुल्यत्वात् | कुतः पुनः कार्यद्रव्यस्याविनाशे सति तदीयस्यावयवस्याकाशादेविभागः ! छेदभेदादेः कर्मण एवेति चेत् ; न तर्हि तस्यावयवान्तरविभागहेतुत्वम् आकाशादिविभागहेतुत्वात् नर्तकावयवकर्मवत् । अस्ति तस्य
तदन्तरविभागहेतुत्वं छेदादी सत्यगुल्यादेविभागप्रतिपत्तेः । ततो न तस्मात्तद्विभागः । तज्जन्मनो १५ विभागादिति चेत्, न; तस्यापि स्वतन्त्रावयक्गतम्यैव तद्धे तुत्वोषपत्ते द्रव्यसम्बन्धा(द्धा)वयवगतस्य ।
कुत एसत् ? तदाकाशादिविभागस्य द्रव्यविनाशसहचरितस्यैव दर्शनात् । न हि तस्य द्रव्यावयववृत्तिः स हेतुः, स्यापि सद्रव्यस्यैव दर्शनापत्तेः । ततोऽस्ति द्रव्यविनाशो विभागस्य विभागान्तरकारिणः तदपेक्षत्यात् । ततः पुनरुत्पन्नं द्रव्यान्तरमेवेति भ्रान्तैव तत्रैकत्वपत्तिपत्तिभकामानादिति चेत्, नैक्मपि
भ्रान्तिः अन्तरा भेदनिर्णये तत्प्रतिपत्तेरेवासम्भवात् । दर्शनमेव मेदस्य निर्णय इति चेत्, न; तस्यापि २. निर्णयस्यैव भवद्भिरभ्युषगमात् न सौगतवन्निर्विकल्पस्य । निर्णयायापि द्रव्यान्तरमादुर्भावाशुभावेना
भिभवात् एकत्वप्रतिपत्तिरिति चेत् व्याइतमेतत् 'निर्णयश्च अभिभवश्च' इति, निर्णयस्याभिभव. विरोधित्वात् । अभिभूतं वा कर्म तसिद्धम् यत एकत्व प्रतिपत्तेर्भावः, अतिप्रसङ्गात् । तथा हि
सर्वस्यापि भवेदेवं बादिनः स्वेष्टदर्शनम् । ततो लोक सिद्धानां बुद्धीनामपि बाधनम् ॥१४४१।। मा भूदेकत्वबुद्धिश्चेत् , काणादत्वं तदा कथम् । अन्तरा भेदमुत्पश्यन् कलवादी प्रवर्तसे ॥१४६२॥ कलत्रादि न तयस्य न भेदः कण्टकादिना । न भेदोऽप्यस्ति तादृग् यो द्रव्यनाशोससे न ते ॥१४६३॥ यश्चाशुजं कलत्रादि तन्त्र भेदेन वेदिनः ।
अस्वकीयमवृत्तौ च कथं दोषैर्न लिप्यसे ।।१४६४॥ ५ स चैया-- आ०, ब०, ५० । २ योद्धः । ३ चेदादौ आय, ब०, प० । ४ -नाशात्ततो न आ०, १०,०