________________
१३२
न्यायविनिश्चयविधरणे
[११०३ प्रतीतश्चैकं परस्यापीति यदुक्तमनेकान्तवादिनं प्रति-"अप्रतीतं प्रतीतं चेत्तदेतदतिसाहसम्" [१० वार्तिकाल० ११२.०५ ? इत्यादि, तन्मज्ञाकरस्य स्वगृह प्रति प्रत्यावृत्तम् । ततो यथाभिमत निरंशमेव तत्त्वम् , तत्र च
सर्वात्मना दृशौ तस्य सर्वविद्वेषता दृशेः । सिद्धः सर्वोऽपि सर्वज्ञो वृथा ते बुद्धकल्पनम् ॥११५१॥ ज्ञानवान् भृम्यते कश्चिदित्यादि प्रवदन्नतः । धर्मकीर्तिः स्ववाचोऽपि तात्पर्य तन बुद्धयते ॥१४५२।। तद्वेषत्वमदृश्यं चेददृश्यं सर्वथैव तत् । स्त्रण्डशो न हि दृश्यत्वं निरंशस्योपपत्तिमत् ॥१४५३।। तन्नकान्तादनित्यस्य प्रमेयत्वं प्रतीतिमत् । नापि स्थूलस्य वस्तुत्वं यन्न तस्य स्वयं मतम् ॥१४५४॥ निष्कलाणुस्वभावं यत्तत्त्वं बौद्धोकल्पितम् । काकदन्तोपमं तत्तत्ममेयत्वञ्च तादृशम् ॥१४५५॥ एकान्तभिन्नयोनापि स्थूलसूक्ष्मस्वभावयोः । प्रमाणप्रतिवेद्यत्वं तदमेवभवेदनात् ॥१४५६|| ते तन्तवः पटो यत्न तेभ्योऽन्य इति यज्जनः । प्रत्येति वक्ति सर्वोऽपि विवादपरिवर्जितम् ॥१४५७॥ पैटस्तन्तुष्विहेत्यादि शब्दा एव परं तथा । न प्रत्ययो यतस्तेनाभेदप्रत्ययबाधनम् ॥१४५८॥ शब्ददृष्टिकृतेनापि तेन तस्य विमानने । सर्वेकत्यधिया बाधा सर्वभेदधियो भवेत् ॥१४५९|| ततो द्रव्यादिभावानां सात्त्विकानामभावतः ।
अवैशेषिकमेवेदं जगत् सर्चमुपस्थितम् ॥१४६०||
तन्न सर्वथैफान्तस्य प्रमेयत्वमिति । विपक्षे याधकसामदेिव ततस्तंद्विश्लेषस्य साधनात् , २५ उपपन्नमेतत्-'सर्नकान्तविश्लेष' इत्यादि ।
मनु प्रमेयस्वं यतः प्रमाणात् तस्य तदेकान्तविषयत्वे नातस्तद्विश्लेषस्य साधनम् , तत्पक्षस्य प्रमाणतः प्रतिक्षेपात् । तद्विश्लेषविषयत्वे तु व्यर्थमनुमानं तत एव तसिद्धः, अन्यथा तत्प्रमितेऽपि तवपरकल्पनयाऽनवस्यापत्तेः । तदपि प्रमाणमनुमानमेवेति चेत्, न; परस्पराश्रयापत्तेःअनुमानात्पमेयत्वमतश्चानुमानमिति -- इति चेत्, न; प्रमाणमात्रादेव अश्यिक्षितविषयभेदात् तदुप
प्र०वा ३२२ वेतदृश्यं आग, घ, प०।३प्र.पा. २०१५। ४ स्वाष्टषष्टिकृतेनापि आ०, ब०प०।५"सर्वथैकान्त विश्लेषत्य"-ताक टि०। ६ अनुमानप्रमितेऽसि ।