________________
२/१८२]
२ अनुमानप्रस्तावः
१२९
एवमनुपपन्नमेवेत्यपि, तेनानैकान्तिकस्य व्यवच्छेदात् । न हि तस्य तदभावे ऽनुपपत्ति
रेव उपपत्तेरपि भावात् प्रयत्नानन्तरीयकत्वेऽनित्यजत् ।
साम्प्रतं तानवधारणव्यवच्छिन्नान् हेत्वाभासानुपदर्शयति---
ततोऽपरे । विरुद्धासिद्धसन्दिग्धा अकिश्चित्करविस्तराः । इति 1
५
अत्रापरे इत्येतद्विरुद्धेत्यादेः परतोऽपि द्रष्टव्यम् । तदयमर्थः - विरुद्वासिद्धसन्दिग्धा अपरे हेत्वाभासा एव न केवलं त एवापि तु अकिश्चित्करविस्तराध । अत्रैवोपपत्तिः- ततः तस्मादुक्तलक्षणात् साधनादपरे तल्लक्षणविकलतमा विभिन्ना यत इति । तत्र विरुद्धस्य तदाभास्वं साध्यस्याभाव एव भावात् । असिद्धस्य सत्यपि तस्मिन् अभावात्, सतोऽध्यनिभ्ययात् । सन्नषि अनिश्वितोऽसिद्ध एव सिद्ध कार्याकरणात अतस्तदाभासः । निश्वयाभावो ऽपि मभ्युत्पत्त्यादिना, १० वादिमतिवादिनोरन्यतरस्योभयस्य वा तत्राव्युत्पन्नस्याज्ञातासिद्धः संशयानस्य सन्दिग्धासिद्धः विपर्यस्तस्य विपरीतासिद्ध इत्यनेकघर से भियते । सन्दिग्धो व्यभिचारी फिमित्यमन्यथो वेति ततः साध्यसंशयात्तस्य तदाभासत्वं तत्रैवै नियमाभावात् । अकिश्चित्करः पुनः सिद्धोपस्थायी यमा शब्दानित्यत्वे कृतकत्वेन निश्चिते तत्रैवापरः प्रयत्नानन्तरीकन्यत्वाविः । कुतस्तस्याकिश्चित्करत्वम् ! ततस्तन्निर्णयस्यानुत्पत्तेरिति चेत्; सापि कुतः ? कृतकत्वादेव तस्य भावादिति चेत्; न; तत्कार्यस्या- १४ यतो ऽनुत्पत्तेः । तादृशस्योत्पत्तिरिति चेत् अस्तु न तावला शतस्य स्वव्यापारादुपरतिः, पावकान्तस्वमान्तरकृतेः । शक्तिरेव न तस्येति चेत् तदपि यदि हेतुलक्षणवैकल्यात, तदा विरुद्धादाचेवान्तर्भावः, प्रतिपादिताव धारणविपर्ययादेव तद्वैकस्यसम्भवात् तद्विपर्ययस्य च विरुद्धादावेव नियमात् । विषयाभावान्न ततस्तन्निर्णय इति चेत्; न; लक्षण परिपुष्टौ तदनुपपत्तेः । कथं वा सदभावः शब्दानित्यत्वस्य भावात् । प्रागेव निर्णीतमिति चेतुः नः तत्राप्यनुपहतस्वरूपत्वेन तदन्तरस्यापि २० प्रवेशात् प्रकाशिते प्रकाशान्तवत् । न चैनं छिदेरपि छिमे प्रवेशः छेद्याभावात् । किं तत्प्रवेशेन व्यवहारस्य पौरस्त्यादेव भावादिति चेत् न समर्थात् ततोऽपि तस्यावश्यम्भावात् । व्यवहारिणस्त दभिलाषस्यामायामेति चेत् नेदानीमाद्यस्यापि लिगरवं ततोऽपि तन्निर्णये शटिस्पन्यत्रगतचित्तस्य तव्यवहारासम्भवात् । भवतु तदा तस्याप्यकिञ्चित्करस्वमिति चेत न, “सिद्धेऽकिञ्चित्करों हेतुः " [ प्रमाणसं ० इलो० ४४ ] इति तलक्षणात् आधस्य चासिद्ध एव भावात् । निर्णयमात्रेण तु तस्य हेतुत्वं २५ द्वितीयस्यापि स्यात् । तस्मात्तदभावादेव तस्याकिश्चित्करत्वम्, तथ साधनलक्षणविकस्मादेव । ततो विरुद्धादय एवाकिञ्चित्करविस्तरा इति केचित् । अन्ये पुनः 'तत्रैवोप्रवृत्तहेत्वन्तरे त एव सम्यक्हेतव इति नातीष विरुद्धादित्वमनुभवन्ति, अतोऽन्य एव ते तेभ्यः तदाभासाः' इति प्रतिपन्नाः । यदि साधनं प्रकृते सत्येव न तदा सपक्षेऽपि स्यात् तत्र प्रकृताभावात् ततश्च न तस्य तदविनाभावपरिज्ञानं सपक्ष एव तत्सम्भवात् न पक्षे तत्र अद्यापि प्रकृतस्मानिश्वयादिति चेत्; अत्राह
"
1
३०
१ " साध्यसद्भावप्रकारेण । " - ता०टि० । २ " साध्याभावप्रकारेण " - ता० दि० । ३ " साध्य एव" - सा० टि० । ४ प्रायस्य ५ प्रवृत्तेर्हेस्य- ० ब०, प० ।
१७