________________
५२७
२१०१] २ अनुमानप्रस्तावः
५२७ कार्यान्यस्यान्यत्वाविशेषेऽपि तद्विनाशिस्वाभावात्, तथा ऽयमपि न प्रसङमाः
"सर्वस्योभयरूपत्वे तद्विशेषनिराकृतेः।
बोदितो दधि खादेति किमुष्ट्र नाभिधावति ।।" [प्र० वा० ३।१४२ इति विशेषनिराकृतेरभावात् । दध्यादेहिं तकापेक्षयैबोभयरूपत्वप्रतिपत्ते!ष्ट्राद्यपेक्षया । तदेवाह'ततो नातिप्रसज्यते' इति । ततस्तस्मात्मतीतिसिद्धात् विशेषात् नातिप्रसज्यते दधि- ५ यदुष्टादौ, दधिकामस्य प्रवृत्तिन भवतीत्यर्थः ।
तदेवं मपञ्चतः साध्यमुपदिश्य साधनस्वरूपं दर्शयन्नाहमाधनं प्रकृताभावेऽनुपम [ ततोऽपर ] ।। १०१ ॥ इति ।
साध्यते ऽनेनेति साधनं लिङगम् । तत् प्रकृतं शक्यत्वादिलक्षणे तस्याभावे अनुपपन्नम् असम्भवि । 'निश्चितम्' इत्यपि द्रष्टव्यं वृत्तौ अन्यत्र च तद्वचनात् । कथमेवमन्यत्रानुपपन्नत्वमेव १० हेतुक्षणं निश्चयस्यापि तदन्यस्य भावात् ! न, तस्य साधारणत्वात् । साधारणः खलु निश्चयः तस्य हेतुबदन्यत्रापि भावात् । असाधारणेन च लक्षणेन भवितव्यम् , तच्चान्यथानुपपन्नत्वमेव हेतावेव तस्य नियमात् । तदपि साधारणमेव अहेतावपि. प्रत्यक्षादौ म्वार्थापेक्षया भावात् , भवति हि प्रत्यक्षादि स्वापिक्षया ऽन्यथानुपपन्नम् , न च हेतुः । कस्मात् ? साध्याभावात् । न हि तद्विषयम्य साध्यत्वं प्रसिद्धत्वात् । अप्रसिद्धत्वे प्रत्यक्षादेरपि न धमिद्धिः विषयमसिद्ध्यैव तस्यापि मसिद्धेः' । ततो यदि तस्य १५ प्रसिद्धिः प्रसिद्धिरेव विषयस्यापीति न तस्य हेतुत्वम् । कथमिदानीम् 'अस्ति आत्मोपलब्धः 'नास्ति घटोऽनुपलब्धेः' इति च प्रत्यक्षस्यैव हेतुत्वमतिपत्तिरिति चेत् ! न; विषयापेक्षया तदभावात् । विषयो हि तस्यात्मास्तित्वं घटामावश्च , न तत्रैव हेतुत्वं प्रसिद्धत्वात्, अपि तु तद्व्यवहारे, तत्र च न प्रत्यक्षत्वमुपलम्भादेरविषयत्वात् । कथं पुनस्तत्रापि हेतुत्वम् असति तदनुपपत्तेः । सतो हि लिङग ज्ञापकं भवति नासतः खरशृङ्गवत् । सत्त्वेऽपि न किञ्चिलिङ्गेन, विनापि तेन तत्प्रसिद्धः, निश्चयाभिधानात्मा हि २० व्यबहारः, तस्य प्रत्यक्षत एव स्वसंवेदनादेवगमात्, किं तेन ! कृतस्य करणायोगात् । असनेव तेनायमुत्पाद्यते विषयोपदर्शनेनेति चत् ; नः साध्यं पति तस्य कारणत्वाभावात् । भवतु तहि व्यवहारयोग्यत्वे तस्य लिङ्गत्वमिति चेत् । कस्य तद्योग्यत्वम् ? तद्विषयस्यैवेति चेत् ; सिद्ध तर्हि तस्य तत्रैव कश्चिद्धेतुत्वमिति कथमतिव्यापकन्वं लक्षणस्य ? नन्वेवमनवस्थितिः प्रत्यक्षबदनुमानस्यापि तदुत्थापितस्य पुनस्तदुस्थापितम्य लिगत्वप्राप्तेः ! यत्राधिप्रतिपत्तिस्तम्य व्यवस्थैव साध्यामादिति २५ चंत; तन्त्र तहिं सिद्धमन्यथानुपपन्नत्यमहेतुत्वेऽपि इति कथन्नातिव्याप्तिरिति चेत् ! न; तन्मात्रस्यालक्षणत्वात् । प्रकृतापेक्षं टिं तत्तहलक्षणम् , तञ्च नाविमतिपत्तौ सम्भवति, प्रकृतस्य विमतियत्तिविषयत्वात् । यवतु सम्भवति तल्लिङ्गमेव प्रत्यक्षादिकमपि । कथं पुनः सति तस्मिन् विपतिपतिर्थतः प्रकृतसम्भय
प्रतीतिर्न भ-५०।२ सध्यार्थासंभवाभावनियमनिश्चय कलक्षणो हेतु: ।-प्रमाणसं० पृ० १०२। ३ हेतुना । ५ प्रतीतस्य कारकामा- ५० प्रतीतस्य कारकत्वामा- आ०, ब०।