________________
१२५
२ अनुमानप्रस्तावः बीजस्यातदबीजावन्यथात्वमन्तरेणं तर तो तदेह बाहेर यसकता। राम । न सितो हेतुभाब इत्यभिमतसिद्धये यत् किञ्चिदुषादातव्यं भवेत् । इष्यत एव तर्हि तस्य ततोऽन्यथात्वं प्रतिभासमयोजनव्यपदेशादिभेदादिति चेत् ; अत्रोत्तरम्-'अपि फलात्मनः" इति । फलमेव फलात्मा सुबुद्ध्यात्मवत् , ततोऽपि न केवलमततोरेव हेतोरन्ययात्वमिप्येत' इति सम्बन्धः, प्रतिभासादिभेदस्य तत्रापि मावात् । ततः किमिति चेत् ! उत्तरम् -अन्य एव फलात्मनो भिन्न एव हेतुरिति प्रश्रमा- ५ परिणामेन सम्बन्धः । इति एवं किन्नेष्टम् इष्टमेव भवति जैनस्यापि प्रमाणोपपत्तेः । तथाहि-यद् यस्मादन्यथाभूत तत्ततोऽन्यदेव यथा शालिबीजमतद्वीत्रात, अन्यथाभूतं च तत्फलादपि तत् । तथापि सस्य तस्मादनन्यत्वं चेत्': अतवीजादपि स्यादिति तदपि तस्यैव विवर्तः स्यात् । एवं च
शालिबीजविवर्त्तत्वं देशकालादिभेदिनः । जगतः सम्प्रसज्येत स्याद्वादमुपजीवताम् ॥ १४४३ ॥ तन्मा भूदिति मन्वानरतबीजादिव स्फुटम् । तत्फलादपि तबीजम्यान्यत्वमुपगम्यताम् ॥ १४४४ ।। सन हेतुफलैकत्वं कथमप्युपपत्तिमत् । इत्येवं केचिदज्ञानमलदिग्धाः प्रचक्षते ॥ १४४५ ।। तत्रोत्तरमाह
अन्यथास्वं न चेसस्य भवेद् ध्रौव्यम् [ अलक्षणात ] । इति ।
तस्य मावस्य धौन्य फौटस्थ्यम् | कदा न चेत न यदि अन्यथात्वं फलरूपतया परिवर्तनम् , तस्येत्यत्रापि सम्बन्धनीयम् । कुतः ? इत्यत्राह
अलक्षणात्। अभाषस्यापि [ अभावोऽपि किन्नत्यन्ये प्रचक्षते ] ॥ ९९ ॥ इति । २०
अलक्षणात् अप्रतीते. अमावस्य तद्विनाशस्य न केवलमन्यथात्वस्येत्यपिशब्दः । कथं पुनस्तम्यालक्षण कार्यम्य प्रत्यक्षत एवं प्रतिपत्तेः, तद्रूपत्वाच्च विनाशस्येति चेत् ! फस्यासौ विनाशः ! कारणस्येति चेत्, न; तस्य कार्येण समकालवे विनाशतद्वतोर्योगपद्यमसङ्गात् । तत्पूर्वकालत्वे तु कुतस्तम्य ग्रहणम् ! अग्रहणे तस्येत्ययोगात् । प्रत्यक्षत इति चेत; न; तेनापि तत्कालेन वर्तमानतयैव प्रतिपत्तेः । कार्यकालादिति चेत् ; न; तस्य पूर्वत्राप्रवृत्तेः । प्रवृत्ती वा तदपि तद्विषयत्वात् कथं वर्तमान कार्यवत् ? स्वकालापेक्षयव वर्तमानत्वं न कार्यकालापेक्षयेति चेत् ? कथं तहि प्रत्यक्षतस्तजन्मनः स्मरणाच पूर्वमावस्याग्रहणमुक्तं यत इदं शोभेत
"संवेदनं न पूर्व तत्पूर्वत्वग्रहणे क्षमम् । न परं तेन पूर्वत्वं स्मरणान्नैव साध्यते ॥" [ प्र० वार्तिकाल० १।२०५] इति ।
१ -पातद- ता॥२ अन्यथा त्वं यदि न सत् तदा यवबीचत् यवाहकुरहेनु-वं स्यादिति भावः। ३- भासनादि-ता०।४ चैतदबीजा-आ०, वा, प० ।५-वच वि-आब, प० । ६ इत्याह प०।