________________
२०१७] २ अनुमानप्रस्ताषः
१२३ प्रयभिज्ञानमित्यनुवर्तते । न चेत् न यदि प्रयभिज्ञानम् , तस्मात् प्रत्यभिज्ञानात् सभागानां सदृशापरापरक्षणानां सन्तानस्य कल्पनापि अपि शब्दाद् व्यवहारश्च न युज्यते । एवं मन्यते सति हि प्रयभिज्ञाने तदवगतसादृश्यायत्तात्तरमतीत्यसमुत्पादात् हेतुफलभावनियमः, ततश्च तत्सन्तानकल्पना न चासतीति ! संवृत्यैव तत्कल्पना न प्रत्यभिज्ञानादिति चेत् न, संवृतेरपि तद्रूपत्वात् । सा हि स एवाह जलं पिचामि यः पूर्व तदद्राक्षम्' इति मतिरेव । कथन्न प्रत्यभिज्ञा- ५ क्षणानां पौर्वापर्य्यकल्पनं संवृतिरिति चेत् ? न; तत्रापि अस्मादिदं पूर्वमतश्चेदं परमिति प्रतिपसेः प्रत्यवमर्शत्वात् किं पौवांपर्यस्य कल्पनेन ? तत्वत एवं भावात्, अन्यथैकक्षणमेव जगत्माप्तम् । तथा चेत्, न कारणं काय वा कस्यचिदिति कथं वस्तुत्वं यतो व्योमकुसुमादिकमतिशयीत ? कर्थ वा सुगतक्षणानां पौर्वापर्य यत इदं शोभेत
"तिष्ठन्त्येव पराधीना येषां तु महती कृपा ।" [प्र० वा १।२०१ ] इति । १०
कल्पितमेव तत्रापि तदिति चेत् ; न; स्वयं तस्याकल्पत्वात् । तस्माद्वासनोपलवाधिष्ठितो लोक एवं तदपि कल्पयति । अत एवोक्तम्
"न च पश्यति सन्तानं नापि कश्चित्प्रवर्तते ।
न तिष्ठति प्रमाभावात् केवलं भवतो भ्रमः।।" [५० वार्तिकाल ० १।१९६] । इति ।
इति चेत् । तात्त्विकमेव' तत्र अन्यद्रव्यात् तत्कस्मान्न भवाते । तत्र प्रमाणस्य 'याद १५ पूर्वापरीभावः' इत्यादिना प्रतिक्षेपादिति चेत् ; ननु सोऽपि प्रश्नस्तदुत्तरभावप्रवृत्तापरापरशानरूप एव कथं कचित् तद्भाव प्रतिक्षिपेत् ? स्वयं तत्त्वतस्तद्रूपातदयोगात् । तस्यापि ताप्यमारोपादेव, बस्तु - तस्तत्रापि तस्य यदि इत्यादिनैव प्रतिक्षेषादिति चेत् , न; अनवस्थोपनिपातात् । ततो दूरं गत्वापि तात्विकमेव तत्र पौर्वापर्यमिति सिद्धस्तदात्मा परमार्थत एव सन्तानः । तस्य च न प्रत्यभिज्ञानादन्यतः प्रतिपत्तिः। तथा च सिद्धं तद्वदेव क्रमतोऽपि वस्तुषु वैचित्र्यम् । तदेवाह-'स परिवर्तेत २० हेतुरेव फलात्मना' इति । स कलशाऽवमहादिरेव हेतुरेव कारणमेव परिवर्चेत परिणमे फलात्मना कपालेहादिफलरूपेण, न हेतोरन्य एव फलात्मेत्येवकारः । एतेन 'अविनाशेऽपि इति व्याल्यातम् ।
कथं पुनहेतोः फलात्मना परिवर्तनं प्रत्यक्षबाधनात् , तेन निरन्ययस्यैव विनाशस्य प्रतिपत्तेरिति चेत् ? अत्राह
तस्मादायविनाशोऽयं फलीभाषः [तदग्रहः ] ॥ ९७ ॥इति । २५
तस्मात् पूर्वोक्तास्तुच्छविनाशाभावात् । उक्त. हि पूर्वम्-'न तुच्छो विनाशस्तस्य स्वप्रतिपत्तावप्यसामर्थ्यादसम्बन्धाच्च । न हि वस्तुना संयोगः सम्बन्धः; अद्रव्यत्वात् । नापि समवाय ; सदधिकरणतया तस्याप्रतिपत्तेः । न च विशेषणभावः; 'तस्मतिपत्तौ तदनुरक्तस्य वस्तुनोऽपि नोलानु
१-तारमती- ताल । २ प्रत्यवमर्शात् प० । ३ तस्व एवं ता । ४-व तवान्यत्र वा तप्तस्मा १०, ब०,५०।५ ततस्तस्यापि तत्र य- आ०, ब०, प०। ६ काशः कपालरूपेय श्रवग्रहच ईहारूपेण । ७ न्यायवि० श्लो० २।९।८-नास्य संयो-आ०,०, प०।