________________
१२२
न्यायविनिश्चयविवरण
[१९६-९७ देशक्रमादयीयोगे वियोगस्तत्क्रमान किम् । अत एबोभयात्मत्वमवियोगबियोगतः ॥१४३८ ॥ यथा तदक्रम सत्वं दृष्टिरस्य तथा भवेत् ।
अक्रमस्य च सत्त्वस्यावियोगस्तत्क्रमात् कथम् ।। १४३९ ॥ इति ।
ततो यथा प्रत्यभिज्ञानमितरेतरदेशपरिहारप्रतिपन्नस्तदाकारैरेकं तथा सुवर्णादिकम् अन्योऽन्यकालपरिहारगतैरिति प्रतिपत्तव्यम् । कुतः पुनः रुचकादीनां पूर्वापरीभावस्य प्रतीतिः ! पूर्वापरप्रत्ययाभ्यामिति चेत्, तद्भेदस्य कुतः ? स्वसंवेदनादिति चेत्, कथं ततो द्वित्वमतिपत्तिः अन्यगतस्यान्यत्राप्रवृत्तेः ? एकस्य च पूर्व परीभूतस्याभावात् । एकमेव तत्तथाविधमिति चेत् न, एकत्ये साक्षात्कारपणा पार्यानुपरो । तदुक्तम्---
"यदि पूर्वापरीभावः कन तस्य प्रतीयताम् । प्राकपरप्रत्ययाभ्यां चेत्तयोमेंदगतिः कुतः ॥ स्वसंवेदनभावाचेन्न स्याद् द्वित्वगतिस्ततः । न चाप्यविद्यमानस्य परपूर्वस्य तद्गतिः ॥ एक संवेदनं तचेत् परपूर्वतयेप्यते ।
एकत्वे परपूवत्वं साक्षात्कृततया कथम् १ ॥" [प्र. वार्ति ल० ११२०५] इति चेत्, न; प्रत्यभिज्ञानेऽप्येवं प्रसङ्गात् । तथा हि
सोऽयमित्यनयोर्देशभेदो गम्यः कुतस्त्यया । ताभ्यामेवेति चेट्टित्वं तयोविज्ञायतां कुतः ॥ १४४० ॥ स्वसंवेदनभावाचेन्न स्याद्विस्यगतिस्ततः । नचाप्यविद्यमानस्य भिन्न देशस्य सद्गतिः ॥ १४४१ ॥ एक संवेदनं तच्चेद्भिन्नतशतयेप्यते ।
एमत्वे भिन्न देशत्वं साक्षात्कृततया कथम् ? ।। १४४२ ।। इति ।
ततो यथा प्रत्यभिज्ञानं स्वीकारे कचिदाभिमुख्यमजहदेव नदन्तरं प्रत्येति युगपत् , तथा कमेणापि रुचकादिपर्यायपरिग्रहाभिमुख्यमपरित्यजदेव तदन्वयज्ञानमपरापरानपि स्वस्तिकादिपर्यायान् .५ पारे छनतीति सुभाषितमेतत्
विशेषकरूपनायां स्यात् परस्याव्यभिचारिना । इति । माभूत्मत्यभिज्ञानम् , युगपदपि चिौकस्यानभ्युपगमादिति चेत्, अत्राह --
तस्मात् सभागसम्मानकल्पनापि न युज्यते ॥ ९६ ॥ न चेत् [ स परिधर्मेन हेतुरेव फलात्मना ] । इति ।
१-दवियोगे आग, ब, प.1 "पशि उपसर्गस्य चेति सूप्रेण धिकारस्य देश्य च भवति, अतिचारः अतीचार इत्यादिवत् । -वाटि० ।