________________
२अनुमानप्रस्तावः
१२१ "यदि नित्यमनित्यं चैकमेव तदा प्रतिपन्नमप्रतिपनं चैकमिति प्रसक्तं तथा च असम्बद्धं प्रतीयमानमेकत्वेनान्यथा न शक्यं प्रतिषतुं नाप्रतीतमेव प्रतीतम् ।" [प्र० बार्ति काल० १।२०५] इति चेत्; तदसङ्गतम्) यस्मात् नै ग्रुपलभ्यत्वं नित्यत्वम्, अनित्यत्वं वा तद्विपर्ययः; स्वलक्षणस्यापि नित्यत्वापत्तेः,अनित्यत्वे वाऽनुपलभ्यत्वानुषमात्, अपि त्वनुगमान्नित्यत्वं व्यावृत्तश्यानित्यत्यम् अनुगमन्यावृत्ती च सुवर्णरुचकाद्यपेक्षया नैकत्रापि विरुद्धे । न च रुचकादेव्यावृत्तिमतः प्रतीतस्येतरस्य ५ च परस्परमेकत्वं जैनस्य सम्मतम् ; प्रत्यभिज्ञानाकारयोरिव भेदस्यैव भावात् । ततः 'प्रतिपन्नमप्रतिपन्नं चैकम्' इति परमतानभिज्ञानादेव प्रतिपादितम् । रुचकादेः परस्परमिव सुवर्णादपि भेदे नैक नित्यानित्यम् , अभेदे परस्परमप्यभेद एव अभिन्नादभिन्नस्य गत्यन्तराभावात्, तथा च नित्यमेव तत् मानित्यमपीति चेत्, न; प्रत्यभिज्ञानस्यापि एवमव्यवस्थितिपसमात्-तदाकारस्यापि स इत्यादेः परस्परमिव ततोऽपि भेदे नेक चित्रं सन्तानान्तरवत् , अभेदेऽपि स एव दोषस्तदन्यतमाकारवदिति अनवधारित- १० स्यैव मेनेतरभावस्याभ्युपगमाददोष इति परिक्षा- क्रमचिःकाम मावे परिपुति । सत्याभद यदि तथा प्रतिपत्तिः, न चैवम् । तदुक्तम् -
"केनचित्तस्य रूपेण नोपलब्धिः परान्यथा । अवित्तिर्येन रूपेण तदस्येति कथं मतम् ? ।। पूर्व तेनास्य वित्तिश्चेत् पूर्वमेव तथा भवेत् । इदानीं नैव, तद्रूपमस्येति कथमेकता ? ॥ एक पूर्वपराभ्यां चेद्रपाभ्यामवियोगतः । वियोग दृश्यमानेऽपि वियोगो न कथं मतः॥ क्रमेणास्यावियोगश्चेद्वियोगोऽपि तथा भवेत् । अत एवोभयात्मत्वमवियोगवियोगतः ॥ यथैवास्याक्रमं सच्चं दृष्टिरस्य तथा भवेत् ।
अक्रमस्य च सत्त्वस्य न योगः क्रममाविकः ॥" [प्र०वातिकाल ० १।२०५] इति चेत् ; नेदानी प्रत्यभिज्ञानमपि । तत्राप्यस्य तुल्यत्वात् । तथा हिस इत्येवं प्रतीतस्य ज्ञानस्यैवायमित्यपि । अप्रतीतः कथं नाम त्वयाकारः प्रकल्प्यताम् ।। १४३५ ।। तस्याप्यन्यत्र वित्तिश्चदन्यत्रैव भवेदसौ । स इत्यत्र तु नास्तीति कथं तस्य तदेकता ॥ १४३६ ॥ तेदतद्देशकाभ्यां तदेकं चेदवियोगतः । वियोगे दृश्यमानेऽपि वियोगो न कथं मतः । ॥ १४३७ ॥
१-था बाश-सा०।२मानुपलभ्यत्वं नित्यमनित्यं वा आ०, ब०, प० । ३-ज्ञाकारश्रा, ब०, ५०। ४ पूर्वत्वेनाप्यविति-आ०, बस, प०| "पूर्ववेनास्य वितिः बार्तिकाल। ५ तदतद्दे शकालाभ्यां वैकं आस, च०, प० ।