________________
५.
१०
१२०
न्यायविनिश्चयविवरणे
[ २०६४-६५
तद्विषयस्य सत्वमिति चेत्: विवेकस्यापि न स्यात्, तन्निश्वयस्याप्यसत्येव तस्मिन् द्विचन्द्रादी दर्शनात् । बाध्यमानत्वात्तत्रैव तस्य भ्रान्तत्वं नान्यत्रेति चेत्, न अनुगमे ऽपि तुल्यत्वात् तन्निश्चयस्यापि तत्केशाद्यनुगम एव बाधोपलम्भात् न पूर्वापरानुगम इति । तन्न तत्र विवेकभावनादचकात्मकत्वपरिहारः शून्यवाद - प्रसङ्गाद्विपर्ययसिद्धेश्च ।
२०
साम्प्रतं विवेकमभ्युपगम्य 'जनकजन्येषु' इत्येतन्निराकुर्वन्नाह
न चानन्तरमित्व भावस्तद्व्यपदेश भाक् । इति ।
न च नैव अनन्तरम् अव्यवधानम् इत्येव हेतोः भावः पिण्डकालादिः तदुद्भ्यपदेशं कलशाद्यपेक्षया जनकजन्यव्यपदेशं भजत इति तद्वाक्, सर्वस्यापि तत्पूर्वापरकोटिगतस्य जगत्क्षणस्य तद्वाक्त्वापत्तेः आनन्तर्याविशेषादिति भावः ।
परो विशेषं दर्शयति
तत्प्रतीत्यसमुत्पादात् [ भावश्येत् स कृतो मतः ] ॥ ९४ ॥ इति ।
तत् पिण्डादिकं प्रतीत्य समनन्तरप्रत्ययं कृत्वा कलशादेः, तच्च प्रतीत्य कपालादेः समुत्पादाद्भावः तद्व्यपदेशभाक् न च सर्वं प्रतीत्य तस्योत्वादो यतस्तद्वाक्त्वस्यातिप्रसङ्ग इति मन्यते । तमेवेति 'चेत्' इत्याशङ्क्य प्रश्नयन्नाह - 'स कुतो मतः' इति । स प्रतीत्यसमुत्पादः कुतः कस्मान्नि१५ मितात् नियतविषयो मत इति ।
परस्तदाह
सादृश्यात् [ प्रत्यभिज्ञानं न सभागनिबन्धनम् ] | इति ।
सादृश्यं पिण्डकपालादीनां सारूप्य तस्मान् स मत इति । तत्रोत्तरमाह - 'प्रत्यभिज्ञानं न सभागनिबन्धनम्' इति । न हि सादृश्यं प्रत्यभिज्ञानादन्यतः शक्यमवगन्तुं प्रत्यक्षस्या साधारण विषयत्वेन तत्रैप्रवृत्तेः अनुमानस्य च तत्पूर्वकत्वात् न च तत्परस्य सम्भवति । कुतः ? सभागनिबन्धनं सहभागयोः तदिदमिति चांशयोनिबन्धनेन एकस्वरूपेण वर्तमानं निबन्धनं यत इति । तथापि कथं तन्न परस्येति चेत् ? न; अनेकान्तविद्वेषात् स्वयं च तद्भागभेदवत् तस्यापि भेदकल्पनेया निराकरणात | चित्रज्ञान वा दिन सम्भवत्येव तदिति चेत्, अत्राह
विशेषकल्पनायां स्यात् परस्याध्यभिचारिता ।। ९५ ।। इति ।
विशेषस्याकारस्य प्रत्यभिज्ञाने कल्पनायां परस्य अक्रमानेकान्तादन्यस्य क्रमानेकान्तस्य स्यात् भवेत् अव्यभिचारिता सर्वभावेष्यविचलितत्वं युगपदिय क्रमेणाप्यनेकान्तस्य प्रतिषेद्धमशक्यत्यात् | कथमशक्यत्वं यावता नित्यानित्ययोरेकत्वे तदुपपत्तिः, नित्यानित्ययोरिति चोपलभ्यानुपलभ्ययोरित्यर्थः, तयोश्चैकत्वमसम्बद्धम् | तदुक्तम् -
१ - तिर्ता प० । २ भ्रान्तत्वान्नान्य-आ०, ब०, प० । ३ दूभावकस्यापि तदति ०, ब०, प० । ४ तत्रतीतेः प० । ५-नायनि-आ०, ब०, प० ।