SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ २।९२-९३] २ अनुमानप्रस्तावः ११९ जनकेषु, जन्येषु च नाशोपादेयातिपदेशा: लोलसोन सिनाः संगो नार भेति गाय भावः । कस्मिन् सति ! समनन्तरे समानि सदृशानि अनन्तराणि अव्यवहितानि जनकजन्यानि यस्मिन् सन्ताने तस्मिनिति । पररूपत्वमत्र शकन्धवत् प्रतिपत्तव्यम् उपसर्गस्य सदशार्थत्वम् । अनेन 'फलहेतुव्यपोहतः' इत्यस्य प्रथमोऽर्थो दर्शितः । तदेवं परमतमुपदर्य अल्पवक्तव्यत्वात् तत्रेत्यादि निराकुर्वन् विनाशं पृच्छति___ अन्यस्यान्यो विनाशः कि [किम स्यादचस्तात्मकः ] ॥९२|| इति । अन्यस्य कलशादेः अन्यः कपालादिविनाशः । उपलक्षणमिदं तेन प्रागभावोऽप्यन्यो मृत्षिण्डादि । किम् इति प्रश्नयित्वा दूंपणमाह-'किन्न स्यादचलात्मकः' इति । किं न स्यात् ! स्यादेव, अचलात्मकः अचलस्वभावः फलशादिः । नहि तवन्यप्रादुर्भाव तैस्य बिनाशः; त्रैलोक्यस्यापि तत्प्रसङ्गात् सदविशेषात् । नापि तदन्यभावः तत्प्रागभावः; जगतोऽपि तदेकनागभावस्थपत्तेः । तथा च १० तदुपमर्दनादेव तस्योत्पत्तेः तदेकसन्तानत्वमिति नावकाशः तन्नानात्वकल्पनस्य । ततः प्रागभावादि. वैकल्ये सति विद्यमानत्वाद् अवश्यंभाविनी तस्य कूटस्थता । इत्युपपन्नमेतत्- 'किन्न स्यादचलास्मकः' इति । पर इदं परिहरन्नाह तबियेफेन भावाच्चेत् [कथन्नानिप्रसज्यते ] । इति । तस्य कलशादेविवेकेन पूर्वापरविच्छेदेन भावो भावनमवधारणम् , यन्तादचप्रत्ययः १५ तस्मात् 'न स्यादचलात्मकः' इति सम्बन्धः । न हि विविक्ततया भाव्यमानस्याचलात्मकत्वं पूर्वापराविवेफे सत्येव तदुपपत्तेः । अत्र 'चेत्' इत्याशङ्क्योत्तरमाह __ कथं नातिप्रसज्यते । सदापि [ सर्वभावानां परस्परविवेकतः ] ॥ ९३ ।। इति । सदापि सर्वकालमपि पूर्वापरकालवत् मध्यकाले ऽपि कथं तद्विवेके नातिप्रसज्यते अति- .. प्रसज्यत एव । एवं मन्यते-न तावत्तस्य तद्विवेकः पूर्वापरक्षणलक्षणः, तस्य प्रतिक्षिप्तत्वात् । अतः स एव तस्य प्रागभावः प्रध्वंसश्चेति, स्वतोऽपि तस्य विवेकान्न भणमवादः शून्यवादातिशेते इति । परमप्यतिप्रसाई दर्शयति-सर्वभावानाम् अत्रापि सदापीति सम्बध्यते मध्येकरणात् । तदयमर्थःआप्तिाप्तिः पूर्वापरानुगमः आपः स विद्यतेऽस्येति आपि तदन्वयिरूपं सत् विद्यमानं न कल्पित कथं नातिप्रसज्यते ? केषाम् । सर्वभावानां चेतनेतरात्मनामर्थानाम् । अत्र हेतुमाह'परस्परविवेकतः इति । परस्परमन्योऽन्य जैनसौगताभ्यां विवेकतो यिनिश्चयात् 'सदापिनः इति विभक्तिविक्रियया सम्बन्धः | अस्ति जैनवत् सौगतस्यापि तद्विनिश्चयः, अन्यथा क्षणविवेके निर्विवादात् अनुमानकस्यनावैफल्यापत्तेः । सतोऽपि तस्य लनपुनरुत्पन्नकेशादिवद् प्रान्स्वान्न १"शकन्भ्वादिषु पररूपं वाच्यम्"- कात्यावाश६४। २ 'सम् इत्युपसर्गत्य । ३ अत्य मा०,१०, ५०1४ वैविध्यत्या- आरु, य०, ५०। ५ त एवं श्रा, ब, पर। ६ श्रन्वयस्य ।
SR No.090313
Book TitleNyayavinishchay Vivaranam Part 2
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages521
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy