________________
नाएक]
२ अनुमानप्रस्तावा
प्रानिर्णयोऽपि मा भूचेत् , हन्त तेन कथं भवान् । विनाशं तत्र चाध्यक्षं निश्चिन्वीत प्रवृत्तिमत् ।। १४३४ ॥
निश्चाययेद बा तं सभ्यान वादोऽयं न निगह्यताम् । स्न प्रत्यक्षतस्तस्य ग्रहणमुपपन्नम् उपलक्षणबत् । अनुमानोतु तदुपलक्षणं दुरुपपादम् । प्रत्यक्षाभावे तत एव लिङ्गलिशिसम्बन्धस्याऽप्रतिपत्तेः । अन्यानुमानतः प्रतिपत्तौ अनवस्थानस्यो- ५ पकल्पनात् । कश्चासौ विनाशो यस्य कुतश्चिदुपलक्षणम् ! क्षणावस्थानमिति चेत् , न; तस्यानवघृतस्य नित्ये ऽप्यविरोधात् । क्षण एवं स्थानमित्यवधृतमेव तदिति चेत् ; तर्हि सामर्थ्यात् क्षणान्तरे तस्यास्थान बिनाश इति प्राप्तम् । एवमिति चेत् ; तदपि यदि तुच्छम् ; उपपन्नमुक्तम्-'विनाशानुपलक्षणात इति, तुच्छे तत्र प्रत्यक्षादेः प्रतिबन्धाभावेनाप्रवृत्तेः । वस्तुनश्च तस्मात् अनन्यस्वे कथं क्षण एवं स्थान तदन्तरेऽपि तद्भावात् । अन्यस्वं चेत् ; कुत एतत् । तस्य क्षण एव स्थानादिति चेत् । न तत्रापि १० क्षणान्तरभाविनो ऽस्थानस्य अर्थादापत्तेः पूर्वप्रसझानतिकमात्, अनवस्थोपनिपाताच्च ।
एतेन अतुच्छं तदित्यपि प्रत्युक्तम् , तुल्यदोषत्वात् । अथ न किञ्चित्तस्य क्षणान्तरे भवति, "न तस्य किञ्चिङ्यति न भवत्येव केवलम्" [प्र० बा० ३।२७७ ] इति वचनादिति चेत् ; क्रिमिदानीमवधारणेन ? व्यवच्छेदस्य तत्फलस्याभावात् । अस्त्येवायम् , ने तु क्षणान्तरे, प्रागेव भावादिति चेत् , नेदानीमसौ कस्यचिदपि स्यात् । तथा हि- न तावत्तदन्तरस्थिते; तदानीमभावात् । १५ न ह्यन्यकालः स तस्या इत्युपपन्नम् , अन्यथा घटगतेनैवाभावेन तदन्यदेशस्य सर्वस्याप्यभाव इति भावनेर राम्यप्रसङ्गात् ! नापि प्राच्यक्षणस्थितेः; स्वयं तदुपगमादिति व्यर्थ मेवावधारणम् । अतः पश्चादेवासौ वक्तव्यो 'न भवत्येव केवलम्' इत्यस्यापि तथैवोपपत्तेः। न हि तत् तत्क्षणापेक्षमेव तन्त्रीरूपत्वप्रसङ्गादिति नोपक्रान्तप्रसङ्गादि (द) तिकमः परस्य । भवतोऽपि का पुनरसौ विनाश इति चेत् ! न कश्चित्, निश्चितनिःश्रेयसमार्गस्य "तदनुपपत्तेः । भवत एव तु मिथ्यादृष्टेः प्रतिक्षणविनाशः २ समुपस्थायिवस्तुविनाशः पर्यनुयुज्यत इति चेत् , सोऽपि न कश्चिदन्यत्रान्यथाभावात् । निरूपयिष्यते चैतत नातिदूरतः । इति सूक्तम्-'परिणामित्वाद बिनाशानुपलक्षणात्' इति । तदपि कथम् ! विरोधादिति चेत् ; न: प्रतीतेः । न हि प्रतीतमन्यथाभवत्यतिप्रसङ्गात् । व्यवहारस्य च प्रवृत्तिप्राप्त्यादेः तत्रैव सम्भवात् ।
अत्यन्तविनाशेऽषि सन्तानापेक्षया तत्सम्भवं मन्यमानस्य मतमाशङ्कते
परस्पाप्पविरोधश्चेत् फलहेतुभ्यपाहता। . प्रवृर्व्यवहाराणाम् [ अविनाशेऽपि सम्भवात् ] ॥९० ॥ इति ।
१-मानास-ता।२ -सेरनुम'-ता।३- तमेतदि-यान, य०, प०।४ अन्यदन्यत्वे प्रा०, वर, प०। ५ अनन्यस्वं था०, चा, एका ६ननु - आग, ब०, ५०।७-दितिकमः परस्य आ०, ब०, प०। ८ पुनरस्यावि- मा, च०, प०। -श्चिते नि- आ०, ब०,०। १०मिथ्याहवमनुपपतेः।