________________
न्यायधिनिश्चयत्रिधरणे
[२८९ प्रत्यक्षमस्तीति चेत् ; कथं समारोपः ! उपलक्षिते तदयोगात् नीलादिवत् । मा भूदिति चेत् ; कथं संसारः तस्य सत्त्वदृष्टिनियन्धत्वात्, तद्दृष्टश्च आरोपरूपत्वात् । सोऽपि माभूदिति चेत् ; व्यर्थस्तर्हि मुमुक्षणां प्रयासः तस्य तन्निवर्तनार्थत्वात्, "मिथ्याभ्यारोपहानार्थं यत्नोऽसत्यपि मोक्तरि"
[प्र. वा० १।१९४ ] इति वचनात् । प्रयासोऽपि मास्त्येव, वस्तुतः सकलप्रयासविकल५ स्याद्वैतसंवेदनस्यैव भावादिति चेत् ; न; तस्य क्षणिकावे क्षणान्तरापेक्षणस्यावश्यम्भावात् अद्वैत
रूपत्वानुपपत्तेः, अक्षणिकत्वस्य चानभ्युपगमात् । न क्षणान्तरन्यावृत्या तस्य क्षणिकत्वं यतस्तदपेक्षणम् अपि तु स्वत एवेति चेत् ; न; निस्यत्वमपि स्वत एव न तदन्तरानुवृत्त्येनिप्रसङ्गात् । स्वतः स्वयमेव भवति न नित्यत्वमिति चेत् : क्षेणिकायमपि न भवेत् । न भवत्येव, क्षणिकाक्षणिकादिसकलविकल्पजालबालविलासाबलेपनानु कलितरूपत्वात्तस्येति चेत् । तिष्ठतु तर्हि भवान् , क्षणभङ्गवादिनाऽस्माकमिवानी विवादप्रवृत्तेः । तस्य च प्रत्यक्षतस्तदुपलक्षणे प्रकान्तदोषानप्रक्रमात् । मा भूत ततस्तयोपलक्षणं ग्रहणं तु भवत्येव निर्णयविफलमिति चेत् ; न; तस्यापि सत्त्वग्रहणवदनुपलक्षितस्याभावात् । उपलक्ष्यत एव तद्विचारादिति चेत् ।
विचारात् तद्विनाशस्य यदि नास्ति मवेदनम् । प्रत्यक्षात हस्तेन कथं नामावगम्यताम् । ॥ १४२६ ।। विषये हि गृहीते तद्विषयिग्रहणं भवेत् । सम्बन्धग्रहणं यद्वत् सति सम्बन्धवहहे ।। १४२७ ।। अहणे तेन तस्यापि कथनास्त्युपलक्षणम् । निर्णयारमा विचारो यद्भवतोऽपि प्रसिद्धिमान् || १४२८ ॥ तथा सति समारोपः कथं तत्रोपजायताम् । नास्त्येव चेन्न दृष्टत्वाद्विचारमपि कुर्वतः ।। १४२९ ॥ अन्यथा स्वकल्बादी कथं तस्य प्रवर्तनम् । आत्मात्मीयमहादेव यतस्तस्परिदृश्यते ॥ १४३० ॥ आहायस्तस्य नास्त्येव समारोपो विचारिणः । ततस्तु सहजादेव संसारे तस्य चेष्टितम् ॥ १४३१ ॥ "निर्णयारोपमनसोर्बाध्यबाधकभावतः । अभ्यासोपचितादेव तस्य नाशस्ततो यदि ।। १४३२ ।। अनभ्यासे कथं तस्य निर्णयात्मत्वमुच्यताम् । सद्विनाशस्वभावोऽयं निर्णयो लोकसम्मतः ।। १४३३ ।।
१क्षणान्तरानुवृत्या । दणिकमपि आ०, १०, प० ।-नयकल्पित-आद, ब०, ५०।४ प्रत्यक्षतः । ५ द्रष्टव्यम्-प्रचा० ३४८ ।