________________
२४५०
न्ययविनिश्वयविवरणे
[ ८५-८६
न हि गर्भगतः प्रत्यक्षादेवं प्रत्येति यदृच्छया मे रसादिग्रहणम्' इति कोशवानस्यैवात्रापि शरणत्वात् मात्रा देरेवमव्यवहारात् । न च प्रत्यक्षाभावे ऽनुमानम् तस्य तत्पूर्वकत्वात् । भवतोऽपि समानमिद्र गर्भगतस्यापि पौर्वभविकादेवानुभवादेः स्मरणादिरित्यत्रापि प्रमाणाभावादिति चेत्; आह- 'न समं भूयस्तथादृशः' इति । न समं न सदृशं कोशयानं विधेयमिति । कुतः ? भूयः माचुर्येण तथा तेन ‘दर्शनात् संस्कारस्ततः स्मृतिः' इत्यादिना प्रकारेण दृशो दर्शनादवग्नवेलायाम् । तदुक्तम्"अक्षज्ञानैरनुस्मृत्य प्रत्यभिज्ञाय चिन्तयन् ।
आभिमुख्येन तद्भेदान् विनिश्रित्य प्रवर्तते ॥" [सिद्धिवि० परि०१] इति । ततः प्रागपि तथैवासी प्रतिपत्तव्यः, अन्यथा, हेतुफलभावस्य' कचिदपि निर्णयनियमाभावात् कथं जलादावपि पानार्थिनां प्रवृत्तिः कथं वा शुभाशुभकर्माभावनिर्णयेन निशरेकं चैविधाभिला१० षिणां नास्तिकशास्त्रोपादानं यत इदं सूक्तं भवेत् -
५
“हमरगुरुगी जागा
साये किल वृत्रनाशनाय ।" [ ] इति । ततः स्थितं भूयोदर्शनवला हर्भगतस्यापि स्मरणादिरनुभवादेरेवेति । ततो न युक्तं शौकदृष्टान्तेन तस्यानुभवादेरन्यतोऽपि भाव इति, चैतन्यस्यापि कायाविवान्यतोऽपि भावप्रसङ्गात् । शालूकस्य च शालूकेतर अन्मनो वैलक्षण्यात् स्मरणादेश्व सदभावात् ।
१५
पुनरपि गर्म इत्यादि निराकुर्वन्नाह -
रूपादिदर्शनाभावात् तत्सम्बन्धस्मृतिः कथम् । इति
रूपं स्तनादिगतमादिर्यस्य तत्कार्यस्य क्षीरादेस्तस्य दर्शनं तदभावो गर्भे तस्मात् । तयो रूपतत्कार्ययोः सम्बन्धो ऽविनाभावस्तस्य स्मृतिः स्मरणं गर्भनिष्कान्तस्य कथम् ? न कथञ्चित् । न हि दृष्टेऽस्तिनादौ प्रागदृष्टस्य तस्य स्मरणम्, नालिकेरद्रीपाद । गतस्य धूमे पावकसम्बन्धवत् । सापि २० माभूदिति चेत्; न; प्रवृत्तिदर्शनात् गर्भेऽपि रूपादिदर्शनमस्तीति चेत् न तत्र स्तनादेर भागात्. नयनादिव्यापाराभायाश्व । तदेबाद
,
नावश्यं चक्षुरादोनां सर्वत्रोन्मीलनादयः ॥ ८५॥ इति ।
चक्षुरादीनामादिपाद जिह्वादीनाम् उन्मीलनादय आदिशब्दात् उच्चर्वणादयश्च नावश्यं न नियमेन | सर्वत्र सर्यस्मिन् जराय्वादिपरिविहिते प्राणिनि तत्कथं गर्भे रूपादिदर्शनं यतः २५ वञ्चात्तत्सम्बन्धस्मरणम् अस्ति च बालकस्य स्वनादिदर्शनात् तत्र रसविशेषार्थितया प्रवृत्तिः, अतोऽगम्यते जन्मान्तरे तस्य तदर्शनमिति । पुनरपि तद्विकृतेरित्यादि समर्थयितुमाह----
यश रागादयां दृष्टाः सङ्कल्पाद्यबिनाभुवः । इति ।
रागः शरीरेन्द्रियादावभिरतिरादियेषां द्वेषादीनां ते रागादयो दृष्टाः प्रवृत्ति विशेषतोऽबगताः 'जातमात्रे ऽपि इति सम्बन्धः । कीदृशाः सङ्करूपो ममेदमहमिदमिति चाभिनिवेश आदिर्यस्य
१ - लस्य ता० । २ निराकारैकं आ०, ब०, प० । निःशङ्कम् । ३ कन्दः |