________________
न्यायविनिश्चयविवरणे
[२१८५ स्यावस्थानमिति चेत् ? न; उक्तोत्तरत्वात्-'आत्मकर्मफलं भवेत्' इति । न च पारसन्यादेव सहावस्थानम् पृथिव्यादिषु चक्षुरादीनां तदभावेऽपि तद्भावात् । उपसंहरति-'तद्वति विरोधतः। इति । तत् तस्मात् तद्वति अक्षतति शरीरे निमित्ते विरोधतो विकल्पोत्पत्तेविरोधात् 'तद्विकृतेः
इति सम्बन्धनीयम् । अथवा विकल्पानां विशेषाद् अभियोगोपनीतादतिशयात् । चेति भावनायाम् । ५ तेषामक्षसघात: तदक्षं प्रत्येकं घा न कारणम् । सोऽपि तद्विशेषादेवेति चेत् । आह-तराद्धति' इति । 'विना भवात्' इत्येतदत्र द्रष्टव्यम् 'विशेषात्' इति च । तदयमर्थः-तच्चाक्षं तद्वच्च शरीर तत्र विशेषात् विना भवात् तेषाम् , विशेषस्येति विभक्तिविकारेण सम्बन्धः । न हि तद्विशेषोत्पत्ती अक्षे शरीरे वा विशेषनियमो प्रच्युतप्राच्याकारेऽपि तस्निस्तदुपलम्मात् । भवस्वेवं तथापि तस्य
तदेव कारणमिति चेत् ; न; विरोधतः । विरुद्ध हीदम्-अविशिष्टेऽपि कारणे कार्य विशिष्यत १०. इति, विशिष्टादेव तन्वादेः पटादिप्रतिपत्तेः । ततः सजातीयादेवाभियोगसंस्कृतात्तस्योत्पाद इति युक्त मेतत्-'तद्विकृतेः' इत्यादि ।
अत्रेय हेत्वन्तरमाह
जातिरमराणां संवादादपि [ संस्कारसंस्थितः । इति ।
जातेः पूर्वभवस्य स्मारो जातिस्मराः तेषां संवादः अविप्रतिसारः तस्मादपि, न केवलं १५५ पुरमा क्षेत्र समिट देरि । दि जातिस्मरत्वे कारणमाह-'संस्कारसंस्थितेः' इति । संस्कार
स्य पौर्वभविकानुभवनिरन्धनस्य स्मरणहेतोः धारणाशानस्येहाथि जन्मनि सम्यगवैपरीत्येन स्थितेः । जातिस्मरा एव नोपलभ्यन्ते तत्कथं तेषां संवाद इति चेत् । नः प्राग्भावीयस्य बन्धुभृत्यावेनिक्षेपाश्च कैश्चिदपि दर्शनात् , तदहर्जातस्य च- जातिस्मरत्वाभावे स्सनादौ प्रवृत्तेरनुपपत्तेः ।
तदापि तदभाबकल्पनायां दूषणमाह___ अन्यथा कल्पयन् लोकमतिकामति केवलम् ॥१॥ इति ।
अन्यथा अन्यथात्वं भावप्रधानत्वानिर्देशस्य, तच्च जातिस्मराणामजातिस्मरत्वमेव तत्कल्पपन् प्रतीत्यपलापेन संपादयन् चार्वाको लोक जीवनिकाय भूतचतुष्टयं वा अतिक्रामति अपहु ते केवलं नापरं करोति । नहिं तदपलापः कचिदेव शक्यनियमो यतो जातिस्मरपन्न लोकेऽपि स्यात्, ततः
तस्याप्यतिक्रमात् लोकायतत्वमस्य नश्यति, लोकबुद्धयनुगम एवं तत्त्वोपपत्रेरिति मन्यते । ततो २५ लोकवचातिस्मराणामपि प्रतीतिभावेनानतिक्रमात् सिद्धस्तत्संवादः । प्रतीतिय तेषामनुमानात,
तथाहि-तदहर्जातस्य स्तनादी प्रवृत्तिः तदभिलाषात्, सापि स्तनादेरभिलषितार्थनियमितत्ववितात्, स च तेनायं समान इति प्रत्यभिज्ञानात्, तदपि स्मरणात्, तदप्यनुभवात, प्रवृत्त्यादित्वात् "अवसान प्रवृत्यादिवत् । न चेहजन्मनि तदहजतिन स्सनाविरपरस्तथाभूतो दृष्टोऽस्ति यतोऽनुस्मरणादिक्रमेण
तस्सदृशे प्रवृत्तिः । ततः पौर्वभविकस्यैव तस्य तेन स्मरणमिति कथन्न जातिस्मराणां संवादः ! ३० एतदेवाह
१तत्प्रकृते-आ०,२०,१०।२ सथापि आ०,०प०1३संवादयच्चा-प०१४ एवास- आ०,व०प०) ५ मध्यावस्थाकालीनप्रवृतिवन । "मध्यमवावलमञ्च मध्योऽत्री द्वौ परौ द्वयोः । इत्यमरः ।" ताटि |