________________
७]
२ अनुमानप्रस्ताव यप्रज्ञानां महाकायानामपि मतङ्गजादीनामल्पप्रज्ञानामवलोकनात् । बलीयसि च करिक्शहादीनां काये । तस्या अबलीयस्त्वात् विपरीते चाबलीयसि स्त्रीबालादीनां विपर्ययात् बलीयस्त्वातू स्थितिसारत्वात् न तस्यास्तद्विवर्तत्वम् । उपसंहरनाह-तस्मान्न ते तस्य परिणामाः सुखादयः इति । म्बपदव्याख्यातमेतत् । यत्रापि परिणामतद्वद्भावो घटकपालादौ सत्रापि प्रमितेऽपीत्यादि विद्यते ततो व्यभिचार इति चेत; आह
एतदन घटादीनां न तु जातुचिदीयते । इति ।। एतत् प्रमितेऽपीत्यादि अत्र लोके घटादीनां परिणामतदावेन प्रसिद्धानां न तु नैव जातुचित् कदाचित् ईक्ष्यते दृश्यते । ततो न व्यभिचार इसि भावः । अथ गुणदूषणमन्त्राप्यतिदिशन्नाह
सुष्यश्च गुणपक्षेण [ तत्तथा परिणामतः ] ॥७७॥ इति । १० सदृशश्चायं गुणपक्षेण परिणामपक्षस्ततो यथा तत्रोक्तं न हि शानात्मना' इत्यादि तथा अत्रापि बक्तव्यम्-'न हि ज्ञानात्मना कचित् शरीरग्रहणं येन तद्विवर्तः प्रकरुप्यताम् ।' इति । निगमयति-तत्तथाऽपरिणामतः' इति । तत् तस्मात् अपरिणामतो धियः फायक्यितत्वाभावात् सा तथा तेन 'संसरेत्' इत्यादिना प्रकारेण भवति । किश्च, परलोफिनमात्मानमनिच्छतश्चार्वाकस्य कुत इदं संसारवैचित्र्यम्-कस्यचिद्विकृतमिन्द्रियं दुर्भगसंस्थानं संहनन दुःखमधुरं जीवनम् अन्यस्या- १५ विकलं चक्षुरादि मनोनयनाभिरामं शरीरसंस्थानमभिनन्दनीयश्च जीवनम् अपरस्म तदुझ्यप्रकारशबलमिति ! न चेदं दृष्टावेव कारणात्, सर्वत्र व्यभिचारात् इष्टाहारविहारसेवाकृष्यादौ समानेऽपि कचिदिन्द्रियविकारादेरन्यन्त्र तद्विपर्ययस्य च प्रतिपत्तेः । स्वभावत एव 'सत्त्वज्ञेयत्वादेर्जल्बुक्षुदवदिति चेत्, कस्यासी स्वभावः ? तद्वैचित्र्यस्येति चेत्, न; अनुत्पन्नस्य तदभावात् । उत्पन्नस्येति चेत्: नउत्पत्ती स्वभावस्तलश्चोत्यत्तिरिति परस्पराश्यात् । तत्कारणस्य पृथिव्यादेरिति चेत्, न, २० ततोऽप्येकस्वभावादेकप्रकारस्यैव निकायस्योत्पत्तिप्रसङ्गात् । न चैवम् , वरिश्र(षा,सावणाशुद्धादप्यम्भसः परियासिताकस्यचिदारक्तशिरसोऽपरस्य पीतमस्तकस्यान्यस्यात्पवपुषोऽपरस्य विपुल. विग्रहस्य जीवनिवहस्य प्रादुर्भावप्रतिपत्तेः । न झेकस्वभावात् पद्मादिमीजाद्विचित्रस्तत्प्रसवो दृष्टः । नापि तत्र स्वभावभेदः, प्रत्यक्षतोऽप्रतिपत्तेः । तद्वैचिच्यादेवानुमीयत इति चेत्: न; तस्यापि सम्भूर्य इति कार्यमुपयोगे तदाकारवर्णसाकर्यस्याबुद्धिगोचरस्य प्रसङ्गात् । कस्यचित्कचिद्व्यापारे निया- २५ मकं वक्तव्यं तदन्तरेण तदसम्भवात् । तहत एवान्यस्तद्रेदो नियामक इति चेत्, न; तत्राप्यन्यतस्तनेदान्नियमकल्पनायामनवस्थानदोषात् । नायं दोषः; पूर्वपूर्वस्मादुत्तरोत्तरस्य नियमादनादित्वात् तत्प्रबन्धस्येति चेत्, आगतं तर्हि तद्विषयस्य जीवस्याप्यनादित्वं विषयिणस्तस्य तदभावे ऽनुपपत्तेरिति सिद्धो नः सिद्धान्तः- जीवस्य परलोकिनो ऽप्रतिक्षेपात्, तस्य च कर्मण एव तद्वैचित्र्यात, तदनुबन्धिनः
? सत्वज्ञ यत्वादेः' इति पदं सम्पातादायातमिति भाति । २ परिभवणाशु-आ०, ब०, प० । वापतितात शुद्धाबलात्। ३ तुलना- "तथाहि रक्त शिरसः पीतकायादयः परे । जलादिप्राणिनी दृष्टा: स प्राकारः कुतो भवेत् ।। -प्र० बार्तिकाल १॥३७४ मिलित्वा कार्य प्रत्यपयोगे ।