________________
न्यायविनिश्चर्यानधरण
[२०७२ यते तथा कायपरिपाते बुद्धिरपि बुद्धरुपयेत किमवष्टम्भा तदुत्पत्तिः ? अनवष्टम्मे भुक्तत्वेन संसारविरहापत्तेरिति चेत्, आकाशावष्टम्भेन धूमस्येव भूतविशेषावष्टम्भेनेति ब्रूमः । तथा च सूत्रम्"विग्रहगतौ कर्मयोगः" [ त० स० २।२५ ] इति । तदवष्टम्मविनाशे तद्विनाश इति चेत्;
न: पुनरपि तदन्तरावष्टम्भेन तस्योत्पत्तः । धूमवत् किन्न तस्य निर्मला निवृत्तिरिति चेत् न, धमेऽपि ५ तदसिद्धेः, अकिश्चित्करत्वेन तत्सन्तानावस्तुत्यापसः निरूपितत्वात् । अनिवृत्तः किनोपलभ्यत इति चेत् !
न: सूक्ष्मरूपसमापतेः । सैव कथं स्थूलस्य विरोधादिति चेत् । न; तथाऽपरिणामात् अग्निमतोऽनग्निमत्त्ववत् । ततः स्थितं बुद्धदेहानुरपतिप्रसङ्ग इति । एतदेव स्पष्टपलाह-'अन्योऽन्यसंश्रयात्' इति । अन्यो मरणादूर्ध्वभावी संसारो बुद्धिविवर्तरूपः सोऽन्यसंश्रयादन्यः प्राच्य
'एतत्संसारः तत्संश्रयात् कारणत्वेन तदाश्रयणात् । अथवा न भवत्युत्पत्तिर्यस्मात् असावनुत्पतिः देहधा१. सावनुत्पत्तिः देहानुत्पत्ति: तत्प्रसङ्गोबुद्धदेहोऽनुत्पादक इति यावत् । तथा हिं- न देहो बुद्ध
रुत्पादको देहत्वात् मृतदेहवत् । तद्विशेष एव तस्या उत्पादकस्तत्रैव तद्भावभावनियमान्न तन्मात्रम् अग्निविशेषवमस्य । न च तस्य तद्व्यभिचारस्तदयमप्रसङ्ग इति चेत्; कः पुनरसौ तस्य विशेषः ? प्राणापानपरिग्रह इति चेत्, सोऽपि कुतः ? तत एवेति चेत्, न, मृतेऽपि प्रसङ्गात् । प्रयत्नादिति
चेत्, न तस्य बोधप्रदेशपरिस्पन्दादपरस्यापलिपत्तेः । भवतु स एवेति चेत्न ; तत्परिग्रहे देहात्त १५ फलोत्पत्तिस्तसश्च तत्परिग्रह इति परस्पराश्रयात् । तदेशह-'अन्योऽन्यसंश्रयात्' इति । यदि या
देहस्यैवानुत्पत्तिस्तत्प्रसङ्गः कारणाभावात् । पृथिव्यादिः कारणमिति चेत्, न; सर्वस्य देहरूपत्वापत्तेः । परिणामविशेषवानेव स तद्धेतुर्न सर्व इति चेत्, न, तद्विशेषस्यापि तत एत्र भावेऽतिप्रसङ्गस्यानिवृत्तः । तत्रापि तदपरतद्विशेषकरूपनायामनवस्थानात् । अथ स्वभाव एवायं तस्य पदविशिष्टोऽपि
कश्चिदेव तद्धेतुर्न सर्व इति चेत्, कार्यस्यैवाय स्वभावो यवहेतुकमपि तत् कचित् कदाचिदेव भवतीप्ति २. किन्न कल्प्यते है तथा तदप्रतिपत्तेरिति चेत्, न; अविशिष्टमपि फिनिदेव कारणमित्यस्याप्यप्रतिपत्तेः ।
कथं वा पृथिव्यादिहेतुकत्वे तस्य बुद्धी तद्भावनियमः, अन्यथा बुद्धेरप्यन्यहेतुफत्व एव काये तनियमः स्यात् । न चासौ तत्र नास्ति, बुद्ध्यपगमे गर्भगतस्यापि कायस्य गलनात् । अस्तु बुद्धेरेव तदुत्पाद इति चेत्, न; अन्योऽन्यसंश्रयात्-बुद्धिमावे ततः कायः कायाच्च तद्भाव इति । न सह
भाथिया एच बुद्धेः कायस्तस्य प्रापभाविन्या एव भावात्, सापि कायनत्येव तत्त्वात्तदुत्तरबुद्धिवदिति २५ चेत: तहिं तत्कायस्यापि तथाविधप्राच्यबुद्धितो भावः, तत्राप्येवमिति सिद्धोऽनादिः संसारः, अनन्तश्चः
पूर्वभवान्त्यबुद्धेरै हिकाधकायस्य ऐहिकान्त्यबुद्धेरप्युत्तरभवायकायस्य, तदन्त्यबुद्धरपि तदुत्तरभवाथकायस्य प्रादुर्भावात् । एतदेवाह
उसरोवरदेशस्य पूर्वपूर्वधियो भवः । इति । सुवोधमेतत् । उपसंहरबाह
अत एव विरुद्धत्वादलं [ प्रायस्तया भवात् ] ॥७२।। इति ।
१ एव तत्सं- आग,ब, प, २ देहविशेष एव । ३ पृथिव्यादिः । ४ बुध्यपगमे आ०, ब०. प० । ५. बुदिरेव आग, य०, प० ।
METHEREFERRINATH