________________
२ अनुमानप्रस्तावः
मतान्तरमुपदर्शयति दूषयितुम्
कार्यकारणयोर्बुद्धिकाययोस्तनिवृत्तिनः ॥७०||
कार्याभावगर्गस्ति संसार इति कश्चन । इति । कारणं हि कायो बुद्धर्बुद्धिस्तु तस्य कार्य तद्भाव एव भावात् , घमादेरपि तत एवामिकार्यत्वात् । न च तत्कार्यमन्यतोऽपि यतस्तदभावेऽपि स्यात् । स्यादेव शालकवत् | शालूकं हि ५ शालकादिव गोमयादपि दृश्यते इति चेत् , न; तस्य तजन्मनः तदन्यतो वैलक्षण्यात् । बुद्धिरपि विलक्षणा तदन्यतः स्यादिति चेत् । न, तस्या एवाप्रतिपत्ते: । शालूकवत् सम्भाव्यत इति चेत् । घमोऽपि पर्वलात: किन्न तथा सम्भाव्येत ? दृष्टसदृशतयैवं तस्य प्रतीतेरिति चेत् । न, बुद्धावपि समानत्वात् ! तादृश्येव तदन्यतोऽपि किन्न भवतीति धमोऽपि किन्न स्यात् ! तत्रैव तद्रावभावस्य नियमात , अन्यत्राभावात्. भावे सोऽपि पावक एव स्यात् तन्नियमाधिष्ठितस्यैव :, तत्त्वात् । तदुकम् --
“अग्निस्वभावः शक्रस्य मूर्या यद्य मिरेव सः । अथाननिस्वभावोऽसौ धूमस्तत्र कथं भवेत् ।।" [ प्र० वा० ३।३५ ] इति ।
अन्यतोऽपि तस्य भावे निर्हेतुकत्वमेव स्यात् तन्नियमादन्यस्य सहेतुकत्वनिबन्धनस्याभावात, तस्य चातयात्वेनावस्थापनात् । तदप्युक्तम्
"धूमः कार्य हुतभुजः कार्यधर्मानुश्रुचितः ।
सम्भवस्तदभावेऽपि हेतुमचा विलक्षयेत् ॥" [प्र. वा० ३/३३ ] इति चेत् ; न; बुद्धावपि तुल्यत्वात् । तथा हि
कायस्वभावो यधन्यः काय एव तथा हि सः । अथाकायस्वभावोऽसौ बुद्धिस्तत्र कथं भवेत् ॥१४२१॥ बुद्धिः कार्य हि कायस्य कायधर्मानुवृत्तितः ।
सा ऽसती तदभावेऽपि हेतुमत्तां क्लिपयेत् ॥१४२२॥ सतः कायस्यैव कार्य बुद्धिः । तथा च कार्यकारणयोर्बुद्धिकाययोः मध्ये तस्य कारगस्य निवृत्तिो विनिपातात् नास्ति संसारः कायान्तरसञ्चारः । कुतो नास्ति ? बुद्धरवस्थानात् तस्या एव तदुपयमादिति चेत्, न; कार्यस्य बुद्धेः अभावगतेः अभावप्राप्तेरभावनिर्णयाद्वा । न २५ हि कारणनिवृत्तौ कार्यस्यावस्थानमतकार्यत्वापत्तेः । इति एवं कश्चन चार्वाकविशेषोऽविद्धकर्णः । तबोतरमाह
तस्यापि देहानुत्पत्तिप्रसङ्गः [अन्योन्यसंश्रयात् ] ॥७१॥ इति ।
तस्याप्यविद्धकर्णस्यापि न केवलं पुरन्दरादेः दहानुत्पत्तिः देहादनुत्पत्तिः पर्युदासेन तदन्यस्मादुत्पत्द्धिस्तस्याः प्रसङ्गः प्राप्तिः । तथा हि ---यथा निवृत्तेऽपि पावके धमो घुमादेवोत्प- ३०
अग्नेः सकाशादन्यत उत्पत्तिप्रकारेणु"- तादि । २ -संवैतस्य ता । ३ अग्नेस्वआम, प० ।