________________
२।५६५७)
२ अनुमानप्रस्तावः भूतानामेव केषाभित् परिणामविशेषतः । कायश्चित्कारणं सोऽपि कथ संसारमुक्तिभाक् ।। ५६ ॥ इति ।
कायः शरीरं भूतानां पृथिव्यादीनाम् एवकारान्न परमायादीनां कार्यन्वेन सम्बन्धी, तेषामपि न सर्वेषाम् ; सर्वेषां कायमयत्वप्रसमात्, अपि तु केषाञ्चित् । भूतत्वाविशेषे कथमिदमिति ? अत्रोत्तरम्-परिणामविशेषतः । तेषामेव समुदायलक्षणोऽवस्थाविशेषस्तस्मात्तत इति केषाञ्चिदेय ५ तद्विशेषभावात्तेषामेव स इत्यभिप्रायः । भवति चात्र सूत्रम्-"तत्समुदाये शरीरेन्द्रियविषयसंज्ञाः" [ ] इति' । भवतु नामै तथापि कः प्रकृतोपयोगः ? तत्रोत्तरम्-चित्कारणं चितश्चेतनस्य दर्शनस्मरणादेः कारणं काय इति सम्बन्धः "तेभ्यश्चैतन्यम्" [ ] इति वचनात् । प्रयोगश्चात्र-यस्मिन् सत्येव यद् भवति तत्तस्य कार्य यथा किग्वादेर्मदशक्तिः,सत्येव च काये भवति चेतन इति । तदुक्तम् - "मदशक्तिवद्विज्ञानम्" ] इति । भवतु तहेतुः काय एवात्मा 'चैतन्य- १० विशिष्टः पुरुषः" [ ] इत्यभिधानात्, स एव च संसरति मुच्यते चेति चेत्, उत्तरम्सोऽपि कायोऽपि न केवलं परः कथं नैव संसारमुक्तिभार ! तस्य जन्मनः पूर्व मरणाच्चोर्ध्वमभावेन उदनुपरस्तेरिति भावः । तत्रोप्तरमाह
शक्तिभेदे तथा सिद्धिः [ संज्ञा केन निवार्यते ] इति ।
तथा तेन फायश्चित्कारणमिति प्रकारेण सिद्धिः निर्णीतिः भवतीति शेषः । कदा ? शक्तेः १५ सामर्थ्यस्य भेदे तदन्यासम्भविनि विशेषे सति । तात्पर्यमत्र-कायात्मनः पृथिव्यादेश्चैतन्यं प्रत्यभिव्यञ्जफवेन कारणत्वमिति मते तद्धवस्तस्य वक्तव्योऽन्यथा तबयोगात् भूतान्तरवत् । किं तेन कायस्वादेव तदुपपत्तेरिति चेत् ? न, मृतेऽपि देहे तत्प्रसङ्गात् । विशेषादिति चेत् स तर्हि लद्भेद एव नापर इति सिद्धः स एव तझेदाधिष्ठानं जीवः, तदपरस्तु भावः पुद्गलादिस्तत्र दर्शनस्मरणप्रत्यभिज्ञानादेरात्मधर्म स्याभावात् तदधिष्ठाने च विपर्ययात् । ततः संज्ञयैव तस्य भूतत्वं नार्थतः । न च सा तत्र निवार्यते २० अनेकसंज्ञासमावेशस्यैकत्राविरोधात् । तदाह-संज्ञा केन निर्वायते' इति । यदि तस्य तच्छरीर. तयैव जीवत्वमविनष्टैष दृष्टिनास्तिकानामिष्टत्यात् । अपरशरीरत्वेनापीति चेत्, कथमत्यक्ततच्छरीरस्थ तत्सम्भवेत् युगपदेकत्र तदनुपलग्भान् । त्यक्ततच्छरीरस्येति चेत् नः तस्यापि भस्मभावनात्रैवोपलभ्यमानस्य तद्वत्त्वाप्रतिपत्तेरिति चेत्, मा भून्नाम स्थूलस्य तद्वत्त्वं सूक्ष्मस्य तु न कथं तस्य शरीरान्तरपत्त्वमनुभवतोऽप्यप्रतिपत्तेरविरोधात् । नाविरोधादेव तदस्तित्वमतिप्रसङ्गात्, अपि तु प्रमाणादेव, २५५ सच्चेह नास्तीति चेत् ; न; तस्यापि भावात् । तथाहि-विवादापन्नः पृथिव्यादिः तदन्तरवान् चैतन्याभिप्रमशक्तिमेदवत्त्वात् बालदेहपृथिव्यादिवत् । प्रसिद्ध हि बालदेहपृथिव्यादे तथाविषस्य तदन्तरवत्त्वं तत्रैव युवादिदेहभावस्य प्रतिपत्तेः । कथं पुनस्तद्देहस्य बालदेहाद भेद इति चेत् !
१ "पृथिव्यापस्तेजोवायुरिति तत्वानि तत्समुदाये शरीरेन्द्रियविषयसंशा इत्यादि" तरखोप० पृ०१|न्या कु० टिपृ०३४१ । २ 'तेभ्यश्चैतन्यामिति 1 तत्र केचिद् वृतिकाराच्याचक्षते-उत्पद्यते तेभ्यश्चैतन्यम् । अन्ये--अभिष्यम्यते इति।" तत्व संपं.पृ०५२० 140 कु. टिपू०३४२ । ३ तत्वान्तरत्वेन भेदः।