________________
२०५३ ]
२ अनुमानप्रस्ताव नापर इति, तत्रैव तस्य गमकत्वमन्यथानुपपत्चिसम्भवात् । तस्यापि निर्णयात्मन' एव सन्निधाने कथं सुषुप्तिरिति चेत् ! न; तदा तस्यादृष्टवशानिर्णयविकलस्यैव भावात्, प्रबुद्धस्यैव निर्णयरूपतया प्रतिपत्तेः । कथमेकस्य निर्णयश्चेत्तरश्च स्वरूपमिति चेत् ! तथैवाघिगमाद्विकल्पज्ञानवत् । एतदेवाह .
अप्रत्यक्षा सुषुप्तादौ वुद्धः प्रत्यक्षलक्षणः । जीवतीति यतः सोऽयं जोष आस्मोपयोगवान ॥ ५३ ॥ इति । ५
पिय निरू या . अप्रत्यक्षो जीव' इति सम्बन्धः । क ? सुषुप्तः स्वप्नदर्शी निद्रावान् आदिर्यस्य मूच्छितादेस्तस्मिन्निति । सदा तर्हि सोऽप्रत्यक्ष एव कपिलादेरप्यात्मा परोक्ष एवेति केषाञ्चिदभ्युपगमाविति चेत, ने, युद्धो निद्रामचन्धाद व्युत्थितः । प्रत्यक्षलक्षणः प्रत्यक्षं निर्णयात्मकं स्वसंवेदनम् . "थ्यवसायात्मकं ज्ञानं प्रत्यक्षम्" [ ] इति वचनात , तल्लक्षणं स्वरूपं यस्य तेन बा लक्ष्यत इति तल्लक्षण १० इति । अनेन तत्परोक्षत्ववादस्य प्रत्यक्षबाधनमुपदर्शितम् । भवतु बुद्धो जीवः प्रत्यक्षतोऽवगमात्, सुषुतादिस्तु कथमिति चेत् ? उत्तरम्-जीवतीति यतः इति ! यतो लोकस्य सुषुप्तादिरपि जीवतीति प्रत्ययः ततः सोऽप्यस्त्येव अन्यथा तत्मत्ययायोगात् । कुतोऽयं प्रत्ययः ! मृत मृतपत्थयोपि कुतो यतो दाहादिस्तत्र कल्येत ? स्पर्शादिविशेषाल्लिङ्गाविति चेत्, न 'जीवनपत्ययस्यापि तत एव भावान् । जीवनप्रतिबन्धस्यापि तद्विशेषस्य निरुच्छ्वासमूर्च्छितेऽषि १५ लोकरध्यवसायात् । सोऽपि जाग्रत एव जीवनान्न तादात्विकादिति चेतः तदहर्जातम्य व्याहारादिरथि प्राच्यभवजीवनादेवेति कर्थ ततस्तच्चैतन्यापनिपत्तियतोऽयं परिपोषणादिनाऽनुगृश्यते । ततो यथा तदानीन्तनादेव जीवनाचद्व्याहारादिः, अन्यथा सन्तानान्तरव्यवहारविरहापत्तेः, तथा सुषुप्तादेः स्यादिविशेषोऽपीत्यलमानहवैशसेन । कथं पुनरेवमपि सुषुप्तादिना प्रबुद्धस्यैकत्वं यतः 'अप्रत्यक्षः' इत्याधुच्यत इति चेत् ? अत्रोत्तरम् - 'सोऽयम्' इति । अत्रापि इति यत इति सम्बन्धनीयम् । तदयमर्थः- २० सः सुषुप्तादिः अयं प्रतीयमान इति एवं प्रत्यभिज्ञानं यतस्ततः स एव अप्रत्यक्षः पूर्वं पुनः प्रबुद्धश्च प्रत्यक्ष इति । ननु स इत्यतीतस्य निर्देशः, तस्य च कुतः प्रतिपत्तिः ? स्मरणादिति चेतः तस्याप्यनुभूतबस्तुगोचरत्वे न तद्विषयत्वम् अतीतेऽनुभवाभावात् । नहि वस्तु किञ्चिदतीनत्वेनानुभवं परिस्फुरति । अतद्गोचरखे तु न स्मरणम्, अनुभवपृष्ठभाविन एव प्रत्ययस्य तत्त्वोपगमात् । तदुक्तम्
"अनुभूतार्थविषया स्मृतिश्चेत नष्टता कथम् ? नानुभूतार्थविषया यदि सा स्मृत्तिा कथम् ।।" [० वातिकाल ४३१९७] इति ।
अनुभूतमेवानुभवादपक्रान्तमतीतमिति चेत्, न; युगपत् विरोधेन तदसम्भवात् । पर्यायण तत्सम्भवं तु तदपक्रान्तादन्यदेवानुभूतमिति कथं तदेवातीतमिति व्यपदेशः : ततः केवलं वासनाबलादेव स्मरणमिति ततोऽवसीयमानमवस्त्येवातीतं प्रधानादिवत् । तदप्युक्तम्---
१ मा सनपातेपि - आ०, व.., प० । २ मा १- ०, , प० । ३ जनन सह प्रतिपापः सम्बन्धी यस्य सजीवन सिवन्यस्य ।" -
गादव। जीवनप्रबन्धस्या आ०, ब, प० । ४ मरणत्वंयगात् । ५ -प्रतिकान्तमिति आकघ०, १० |