________________
२१५२]
२ अनुमानप्रस्तावः
हेतोश्च दोषमन्विच्छन्नन्विच्छत्यपि तबलात् ।
साध्यसिद्धिमिति खेषा महती बोधदीधितिः ।। १३९७ ।।
ततो तुरिव शब्दत्वं सिद्धत्वावन्यथानुपपत्तेश्च, तथा रूपाद्यनित्यत्वे रूपत्वादिकमप्यविशेषात् । धर्मिण इव किन्न साध्यधर्मस्यापि हेतुत्वमिति चेत् ! न, तस्य समुदायगतस्येव केवलस्याप्यसिद्धत्वात् । तदन्यगतः सिद्ध एवेति चेत; इष्टमेवैतद् 'अनित्यः शब्दः तदन्यस्य सर्वस्यानिल्यत्वात्' इति । चशब्देन ५ तत्समुच्चयस्यामिधानात् । कथमत्रान्यथानुपपन्नत्वं शब्दनित्यत्वेन' तदन्यानित्यत्वस्य हि भिन्नाधिकरणत्वेन विरोधाभावात्, 'शिोधोपायत्वाच्च तत्प्रतिपत्तेरिति चेत् ? न; शब्दस्य नित्यत्वे तत्वेनैव तदन्यस्यापि वस्तुनो व्याप्तेरेकाधिकरणतया विरोधीपत्तेः । न च पस्तुनः कस्यांचेन्नित्यत्वम् अन्यस्यानित्यत्वं व्यापकमित्युपपन्नम्। सत्त्वावेरपि व्यभिचारेणागमफत्वप्रसङ्गात् । तस्मादनित्यत्त्वमेव साकल्येन तस्य व्यापकम्, तच्च कचिद्भवदन्यत्रापि तद्विपर्ययं प्रतिक्षिपति तद्व्याप्तं शब्दत्वादिकमपि । इत्युपपन्नमभि- १० हितम्-'तत्र' इत्यादि । यद्यनन्वयमपि श्रावणत्वादिकं गमकं फिन्न प्राप्यादिमत्वमपीति चेत् ! क तस्य तत्त्वम् ? आत्मनि नित्यादिरूपे प्राणादेस्तत्वार्यत्वेन तत्राविनाभावादिति चेत्, न, नित्यत्वेन हेतुत्वस्य निषेधात् । अनिषेधे ऽपि किन्न शरीरवदन्यत्रापि प्राणादिः, आत्मनस्तत्रापि भावात् ? ते तोर्विशेषस्य शरीर एव भावात् यहिश्च विपर्ययादिति चेत्, न तस्य तस्वमावत्वे बहिरपि प्रसङ्गात् व्यापिनस्तदपरस्वभावानुत्पत्तेः, अन्यथा तावानेवात्मा भवेत् आत्मप्रयोजनस्य स्त्रैव भावान्न बहिर्भावी तद्भागो विपर्य- २५ यात् । अथाय तत्स्वभावो न भवति, आत्ममनःसंयोगादित्वेन तसो भिन्नत्वादिति चेत् ततोऽपि कुतस्तत्रैव प्राणादिः । तदवच्छिन्न एवात्मप्रदेशे तस्य भावादिति चेत, न; आत्मनो निष्प्रदेशत्वात् । कल्पितस्तु प्रदेशो न तत्सहायोऽपि तद्धतुः, अवस्तुत्वाइन्ध्यासुतादिवत् । कथं वा तत्रैव भवता ऽदृष्टेन विप्रकृष्टात् पश्चादा ( पश्चाद्या ) कृष्टियतस्तदनुमानम् ? कथं वा तस्यात्मकार्यस्य तत्रैव भावो न बहिरपि ? तद्धेतोरपि विशेषस्य तत्रैव भावादिति चेत्, तस्य पूर्ववंदनन्तरत्वे १ ततोऽपि कुतस्तन्मनः- २० •संयोगादिस्तत्रैव ! तस्यापि तदवच्छिन्न एव तत्र प्रदेशे भावादिति चेत्, न, 'आत्मनो निष्प्रवेशत्वात्' इत्यादेरावृत्तेरनवस्थापत्तेश्च । नायं दोषः, सहकारिणां हेतु फलभावेन क्रममाधिनामनवस्थितेरेवर रूपत्वादिति चेत्; एथमपि सहकारिणामिति कुतो न स्वतन्त्राणामिति ! तत्सहायादात्मन एव प्राणादेर्भावान्न तेभ्य'"एवेति चेत्, कथं पुनस्तेषामेव निवृत्त्या घटादेनिवर्तमानः तेभ्य एव स न भवेत् ? आत्मापि सतो निवृत्त एवेति चेत्, न, विभुत्वात् । सहकारिसहितो निवृत्तश्चेत्, न, तसाहित्यस्य २५
१ विपक्षभूतेन सह । २ विपनविरोधकारणकत्वात् । ३ नित्यल्वेनैव । ततेनैव आ०, अ०, प० । ४ प्राणादिसद्भावकारणस्य विशेषस्य । ५ प्राणादिहेतीविशेषस्य आत्मस्तमावस्थे। ६ प्राणादिहेतुर्विशेष: बधिर्भाविभागखभावः । ७ यात्ममनःसंयोगादेः । ८ भात्ममनःसंयोगादेः। ९ त- ता०1१. दारीरदेशे एव । ११ दूर देशात् । विप्रकृष्टत्वात् आ०,ब०प०।१२ आत्ममन संयोगादेः। १३ -स्वेपि ततः कु
आ०,ब०, १०। १४ सन्तानापेक्षया अमन्तत्वस्यैव । १५ सहकारिभ्य एष स्वतन्त्रेभ्यः। १६ आत्ममनःसंयोगादीनामेव । १७ प्राणादिः ।