________________
न्यायधिनिश्वयधिषरणे
[२५२
शक्तिर्विषाणिनश्चेत स्याऽत्वन्तरमनर्थकम् ।
शक्तिर्यदि न तस्यास्ति पुनरुक्तेन तेन किम् ।। १३९५ ॥ इति । ततोऽत्रापि पुनर्वचने विवक्षिताभावादसिद्ध एवार्य हेतुः । नेह विशेषणस्यैव तत्पिण्डगतविशेषात्मनः पुनर्वचनम् ; अपि तु तदन्यस्यैव तदतहतस्य विषाणयत्वसामान्यस्य, तस्यैव च हेतुत्वं ५ लतो ऽयमदोष इति चेत्, कथं तहीदमककारवचनमविरुद्धम्-"यदि नाम पक्षविशेषणं विषाणित्वं पिण्डान्तरन्यवच्छेदाय तथापि तस्य हेतुत्वं न विरुद्धयते । [१० वार्तिकाल० १।१८७] इति । अनेन तविशेषणस्यैव हेतुत्वप्रतिपादनात् । सन्नायमत्र परिहारः ।
स्यान्मतम्-यस्य विशेषणनिर्देशादेव तत्र हेतुभावप्रतिपत्ति: प्रज्ञातिशयसम्पत्तस्तं प्रति मा भूत्तस्य पुनर्वचनं वैययात्, यस्य तु नास्ति कोमलप्रज्ञस्य तं प्रति फलवदेव तद्वचनं ततस्तस्य १५ सद्भावप्रतिपत्तेः । न च पुनरुक्तत्वम्, अनमतवचनात', अवातवचनत्वातस्यावकाशादिति, तदेत
दुषकारायैवास्माकं शब्दस्याप्येवं निर्दोषतया हेतुत्वेनावस्थितेः । ततो यथा साध्यविशेषणत्वेऽपि तेन साध्यप्रतिमन्धस्याप्रतिपादनाद्धतुरेच विषाणवस्वं न प्रतिज्ञार्थंकदेशासिद्धम् ; धर्मितद्विशेषणभावेन प्रतिज्ञार्थादर्थान्तरत्वाद, तथा शब्दत्वमपि, धर्मित्वेऽपि तेन तत्साध्यप्रतिबन्धस्याप्यप्रतिक्षेपात् समुदा
यकेबलात्मना तदर्थान्तरस्यापि भावात् । भवत्यसिद्धिरेव विषाणवत्वस्यापि, तत्कथं तदवष्टम्भेन शब्दत्वे १५ तत्परिहार इति चेत् ! किं पुनरिदं धर्मकोर्तबुभुक्षाव्याकुलितस्य वचनम् –
"पक्षाङ्गत्वेऽप्यपाधस्वाभासिद्धिर्मिमधर्मिणि । यथाऽभवो न विषाणिवादेष पिण्डो विषाणवान् ॥" [प्र०या०४।१८७] इति ।
यत्पुनरत्र पक्षान्तरम्- न साध्यसमये विशेषणमस्ति साध्यमुपलक्ष्य तस्य प्रागेव निवृत्तेः निवृत्तस्य च तदेकदेशित्वायोगान्नासिद्धत्वमिति । तदुक्तम्___ "साध्यकालं गतो वा न निवृत्तेरुपलक्ष्यते ( तत् ) ।"
प्र० वा० ४। १८८ ] इति, तदपि न शब्दावेऽप्येवं तदोषानवक्लप्तेः । शक्यं हि वक्तुं शब्दत्वमपि साधनमेव न साध्यम् अनित्यः शब्दस्वादिति अनित्यत्वस्यैव साध्यत्वात् ततो न तदपि तदेकदेशत्वेनासिद्धमिति केदानीमनित्यत्वं साध्य निराधारस्य धर्मस्यासम्भवादिति चेत् ! अमिमान् धूमवत्त्यादित्यत्र कामिमत्वम् ?
सामर्थ्याम एक, तदन्यत्र तत्साधने हेतोरसामर्थ्यादिति चेत; तत एवानित्यत्वमपि शब्द एवास्तु । २५
कथमिवानी न तस्य तदेकदेशत्वमिति चेत् ? न; हेतुब (का) लात्पूर्वं तदभावात् । पश्चात्तु भवतोऽपि . हेतोरदूषणात् । नहि तबलोपनीतमेव तदृषणाय भवत्यतिप्रसङ्गात्, स्पर्य चामावापत्तेः । तथा हि
नहिं दोषवतो हेतोस्तसिद्धिरवकल्पते ।
तसिद्धौ वा कथं नाम हेतुर्दोषो भवेदयम् ।। १३९६ ॥ ५-चनस्याव- ता०।२ पुनरुक्तत्वस्य 1 ३ धमिल्वेन त- आग, ब०, प०।४-स्वः शब्दः शमा०, ब०, प०।५ चेत्तम्निमान् आ०, 40, प०।६-दोषो म- आ०, ब०, प० ।