________________
न्यायविनिश्वयविवरणे
[ २२५२
तस्यान्त्रय इति चेत् न तत्र विवादाभावात् । मीमांसकस्य तत्रापि विवाद एवं शब्दे चणिकत्ववतस्यापि तेनानभ्युपगमादिति चेत्; न;
न
" तेनेयं व्यवहारात् स्यादकौटस्थ्येऽपि नित्यता ।" [मी० इलो० शब्दनि० २८९ इति कौटस्थ्याभावमभ्युपजानतो ऽपि तस्याभ्युपगमात् । तन्मात्रादन्यस्य तदभावस्याभावाद्विवादा५ पनमपि कथं तव तत्साध्यम् अनभिप्रेतत्वात् ? अभिप्रेतमेव हि तदापन्नमपि साध्यं नापरमतिप्रसङ्गात् । न भवतस्तदभिप्रेतं क्षणक्षयस्यैव तत्त्वात् । तदप्यभिप्रेतमेव साघितात्ततः क्षणभङ्गसाधनादिति चेत् ; तत्राप्यन्वयाभावस्याविशेषात् । ततोऽप्यपरा नित्यत्वसाधनेन तत्साघन परिकल्पनायामनवस्थापत्तेः । तन कारणत्वस्याप्यन्वयचलाद्रमकत्वम् । व्यतिरेकनिर्णयात्तु तत्त्वं सविशेषणस्यापि न विरुद्धम् । निर्विशेषणस्यैव तत्त्वे किं विशेषणेन तद्वादिनो पर्थवादित्येन निमहाबाप्तेरिति चेत्; अत्यल्पमिदमुच्यते, १० कृतकत्वादिनापि किमिति वक्तव्यं सत्त्वस्यापि तद्विशेषणरहितस्यैव गमकत्वात् । शिष्यव्युत्पत्तिवैचि या सचमेव शुद्धम्, अविशुद्धच भिन्नविशेषणं कृतकादि, अभिन्नविशेषणश्चोत्पत्तिमत्त्वादि गमकमुपदिश्यत इति चेत्, अहो महानयमनुग्रहः शिष्येषु भवतो यतो निग्रहनियन्धनेषु तेषां गमकत्वन्युत्पत्तिराकल्प्यते । वैयर्थेऽपि कृतकत्वादीनां सन्निबन्धत्वे प्रतिज्ञादीनामपि स्यादविशेषात् । को वा विशेषः कृतकत्वादीनां यतस्त एव सत्त्वविशेषाः शिष्यव्युत्पक्षये ऽवकल्पन्ते न कारणत्वविशेषः श्रावणत्वमिति १५ प्रतिपत्तिः । यदुक्तम् - अन्यत्रापि सिद्धमिव धर्मिण्येव सिद्धमपि गमकमिति तन्न युक्तम् ; वैषम्यात् । अन्यत्रापि सिद्धस्य तदेशव्याप्तिनिर्णयादितरस्य विपर्ययादिति चेत् न तदेशव्याप्तेस्तत्रैव निर्णये वैफल्यात् तत्र साध्यस्य प्रमाणान्तरादेवावगमात् । तन्निर्णयावैवावगमे परस्पराश्रयात् साध्यसिद्ध्या तन्निर्णयः तस्माच्च तत्सिद्धिरिति । तत्राप्यन्यत्र तन्निर्णये ऽनवस्थापत्तेः साकल्येन तन्निर्णये तु पक्षेऽप्य यमवश्यम्भावी तदभावे सामस्त्येन तदनुपपत्तेः । ततोऽन्तर्व्याप्तेरवश्यम्भावादन्यत्र सिद्धस्यापि तथैव २० च गमकत्वोपपत्तेरुपपन्नं सद्रदितरस्यापि गमकत्वोपवर्णनम् । अन्तरषि व्याप्तिनिर्णये तत एव साध्यस्याव्यवधारणाद् व्यर्थमनुमानमिति चेत् इदमपि " द्वश्वरूपग्रहणे सति सम्बन्धवेदनम् " [प्र०वार्तिकाल १|१] इति ब्रुवाणस्यैव दूषणं न स्याद्वादिनाम् ; तैः साध्यापरिज्ञानेऽपि तत्सम्बन्धस्य स्वरूपत्वेन तन्मात्रग्रहणेऽपि तन्निर्णयोपगमान् । तदुक्तम्-
I
GL
लिङ्गात्मग्राहकं मानमूहो मतिनिबन्धनः । "
२५
इति । प्रथमदर्शिनो ऽषि किन्न तन्निर्णय इति चेत् ? सामम्यभावात् क्षणक्षयादिनिर्णयवदिति ब्रूमः । ततो युक्तम् - अन्यथानुपपत्तिबलाच्छन्दानित्यत्वे श्रवणत्वस्य गमकत्वं तथा रूपाद्यनित्यत्वे चाक्षुषस्वादेरपि प्रतिपत्तव्यं तदविशेषात् । तद्वलेन गमकत्वमन्यस्यापि दर्शयति - तेन साध्यवम च साधनम् ' इति । तेन यद्विना यद्विघातेन साध्यासो अनित्यत्वविशिष्टतया साध्यमानत्वात् न च शब्दादिः साध्यधर्मी साधनं गमकं शब्दानित्यत्वस्य । न केवलं स एवापि तु साध्यधर्मोऽपीति १ "यत सत् तत्सर्वमनित्यं यथा घटादिरिति शुद्धस्य स्वभावदेताः प्रयोगः । स्वभावभूतधर्मभेदेन स्वमंत्रस्य प्रयोगः । यत् कृतकं तदनित्यमिलुपाविभेदेन । ” न्यायवि० ०६५-६६ । २-नामतन्निता० । ३ ततो नव्या आ०, ब०, प० ।
८२